पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४७६ ) पञ्चतन्त्रम् ।
[Header]
( ४७६ ) पञ्चतन्त्रम् ।
र्जनार्थं कान्यकुब्जे गताः, तत्र च विद्यामठे गत्वा पठन्ति ।
एवं द्वादशाब्दानि यावत् एकचित्ततया विद्याकुशलास्ते सर्वे
सञ्जाताः । ततः तैः चतुर्भिर्मिलित्वा उक्तम्-“वयं सर्व-
विद्यापारे गताः । तदुपाध्यायम् उत्कलापयित्वा स्वदेशे
गच्छामः”।”तथैव क्रियताम्” इत्युक्ता ब्राह्मणा उपाध्याय-
मुत्कलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः।
यावत् किञ्चित् मार्गं यान्ति तावत् द्वौ पन्थानौ समायातौ ।
उपविष्टाः सर्वे । तत्रैकः प्रोवाच,–“केन मार्गेण गच्छामः ?”
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्पुत्रो मृतः
तस्य दाहार्थे महाजनो गतोऽभूत् । ततः चतुर्णां मध्यात्
एकेन पुस्तकम् अवलोकितम्-“महाजनो येन गतः स
पन्थाः” इति “तत् महाजनमार्गेण गच्छामः” । अथ ते
पण्डिता यावत् महाजनमेलापथिकेन सह यान्ति तावत्
रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम्
उद्घाट्य अवलोकितम्-
किसी स्थानमें चार ब्राह्मण परस्पर मित्र रहतेथे । बालकभावमेंही उनकी
यह बुद्धि हुई कि,–“भो ! देशान्तरमें जाकर विद्या उपार्जन करना चाहिये”।
तब और दिन वे ब्राह्मण परस्पर निश्चय करके विद्या उपार्जनके निमित्त कन्नो-
जको गये । वहां विद्यालयमें जाकर पढने लगे । इस प्रकार बारह वर्षमें एक
चित्तसे विद्या पढनेमें ये सब विद्यामें कुशल हुए । तब उन चारोंने मिलकर कहा-
“हम सब विद्याके पार हुए सो उपाध्यायको संतुष्ट कर अपने देशको जांय” ।
“ऐसाही करो” यह कहकर वे ब्राह्मण उपाध्यायको सन्तुष्ट कर उनकी आज्ञा लेकर
पुस्तकें लेकर चले । जबतक कुछ मार्गमें जाते हैं कि तबतक दो मार्ग आये ।
सब बैठ गये । उनमें एक बोला,-“किस मार्गसे जांय ?” । इसी समय उस
नगरमें कोई वणिक्पुत्र मरगया । उसके दाहके निमित्त महाजन जाते थे । तब
चारोंके बीचमें एकने पुस्तक खोल कर कहा--“जिसमें बहुतसे लोग गमन
करते हैं वही मार्ग है इससे महाजनोंके मार्गसे गमन करें” । तब वे महाजन
जब महाजनके संग मार्गमें जाने लगे । तबतक श्मशानमें कोई गधा देखा । तब
दूसरेने पुस्तक खोलकर देखा कि-
भाषाटीकासमेतम् । ( ४७७ )
“उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४१ ॥
“उत्सव, व्यसनप्राप्ति, दुर्भिक्ष, शत्रुसंकट, राजद्वार और श्मशानमें जो
स्थित हो वह बन्धु है ॥ ४१ ॥
तत् अहो ! अयम् अस्मदीयो बान्धवः” । ततः कश्चित्
तस्य ग्रीवायां लगति । कोऽपि पादौ प्रक्षालयति । अथ
यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चित्
उष्ट्रो दृष्टः । तैश्च उक्तम्,-“एतत् किम् ?” तावत् तृतीयेन
पुस्तकम् उद्घाट्य उक्तम्,-“धर्मस्य त्वरिता गतिः” “एष
धर्मस्तावत्” । चतुर्थेन उक्तम्,-“इष्टं धर्मेण योजयेत् ।” अथ
तैश्च रासभ उष्ट्रग्रीवायां बद्धः केनचित् रजकस्य अग्रे कथि-
तम् । यावत् रजकः तेषां मूर्खपण्डितानां प्रहारकरणाय
समायातः तावत् ते प्रनष्टाः यावदग्रे किञ्चित् स्तोकं मार्गं
यान्ति तावत् काचित् नदी समासादिता । तत् तस्या जल-
मध्ये पलाशपत्रम् आयातं दृष्ट्वा पण्डितेन एकेन उक्तम्-
सो अहो यह हमारा बंधु है” । सो कोई उसकी ग्रीवामें लगता है कोई
चरण धोता है । तब ज्योंही वे पंडित दिशाओकी ओर देखते हैं तबतक कोई
ऊंट देखा । उन्होंने कहा-“यह क्या है?” तब तीसरेने पुस्तक खोलकर
कहा-“धर्मकी शीघ्र गति है” । “यह धर्म है” चौथेने कहा-“इष्टको धर्मके
साथ संयुक्त करना चाहिये” । तब उन्होंने गधेको ऊंटकी गरदनमें बांधा ।
तब यह किसीने धोबीके आगे कहा सो जबतक वह धोबी उन मूर्ख पंडितोंको
प्रहार करनेको आया । तबतक वे पलायन करगये । जबतक आगे किसी लघु
मार्गको प्राप्त हुए कि तबतक कोई नदी मिली तब उसके जलमें ढाकका पत्र
आया देखकर एक पंडितने कहा-
“आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति ।”
“जो यह पत्र आ रहा है सो हमको तार देगा ।”
एतत् कथयित्वा तत्पत्रस्य उपरि पतितो यावत् नद्या
नीयते तावत् तं नीयमानम् अवलोक्य अन्येन पण्डितेन
केशान्तं गृहीत्वा उक्तम्-