पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ३१२ ) पञ्चतन्त्रम् ।
( ३१२ ) पञ्चतन्त्रम् ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ८२ ॥
कुलके वास्ते एकको त्यागन करे, ग्रामके वास्ते कुलको त्यागदे देशके वास्ते
ग्रामको त्यागदे अपने निमित्त पृथिवीको त्यागदे ॥ ८२ ॥
क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ८३ ॥
कल्याणवाली, शस्य देनेवाली, नित्य पशुकी वृद्धि करनेवाली भी भूमिको
राजा बिना विचारे अपने निमित्त त्यागदे ॥ ८३ ॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ८४ ॥
आपत्तिके निमित्त धनकी रक्षा करै, धनोंसेभी स्त्रीकी रक्षा करै, अपनी
आत्माको सदा स्त्री और धनसे रक्षाकरै ॥ ॥ ८४ ॥”
ततश्च अन्ये प्रोचुः-“भोः ! पितृपैतामहं स्थानं न शक्यते
सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचित् विभीषिका
यत् कथमपि दैवात् न समायान्ति । उक्तञ्च-
तब और बोले-“भो ! पितृ पितामहका स्थान एक साथ त्यागन नहीं हो
सक्ता है सो उनके निमित्त कोई भय देना चाहिये जो किसी प्रकार भाग्यसे न
आवे । कहा है-
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु मा वाऽस्तु फणाटोपो भयङ्करः ॥ ८५ ॥”
निर्वीर्य सर्पकोभी बड़ा फग करना चाहिये विष हो या नहो फणाटोप
भयंकर है ॥ ८५ ॥”
अथ अन्ये प्रोचुः-“ यदि एवं ततः तेषां महद्विभीषिका-
स्थानमस्ति येन न आगमिष्यन्ति । सा च चतुरदूतायत्ता
विभीषिका । यतो विजयदत्तो नाम राजा अस्मत्स्वामी
शशकः चन्द्रमण्डले निवसति तत् प्रेष्यतां कश्चित् मिथ्या-
दूतो यूथाधिपसंकाशं यत् “चन्द्रस्त्वामत्र ह्रदे आगच्छतं
निषेधयति यतोऽस्मत्परिग्रहोऽस्य समन्ताद्वसति” एवमभि-
भाषाटीकासमेतम् । ( ३१३ )
हिते श्रद्धेयवचनात् कदाचिन्निवर्त्तते "। अथ अन्ये प्रोचुः-
" यदि एवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन-
रचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तञ्च-
तब और बोला- " जो ऐसा है तो उनको महा विभीषिकाका स्थान है जिससे
वह न आवेंगे वह भय चतुर दूतके आधीन है जो कि, विजयदत्त नामक राजा
हमारा स्वामी खरगोश चन्द्रमण्डलमें निवास करता है । सो भेजो कोई मिथ्या-
दूत यूथपतिके पास कि, " चन्द्रमा तुमको इस ह्रदमें आनेका निषेध करता है,
जिस कारण कि, हमारे आश्रित इसके चारों ओर निवास करते हैं"। ऐसा
कहनेपर श्रद्धावाले वचनसे कदाचित् निवृत्त हो जाय" । और बोले- " जो
ऐसा है तो यहा लम्बकर्ण नामवाला खरगोश रहता है, वह वचनरचनामें चतुर
दूतके कर्मका जाननेवाला है, इसीको वहा भेजो । कहा है-
साकारो निःस्पृहो वाग्मी नानाशस्त्रविचक्षणः ।
परचित्तावमन्ता च राज्ञो दूतः स इष्यते ॥ ८६ ॥
सुन्दर, अवयवसम्पन्न, लोभरहित वाक्पटु नाना शास्त्रमें चतुर पराये चित्तकी
बात जाननेवाला दूत राजाओंको करना चाहिये ॥ ८६ ॥
अन्यच्च-
औरभी-
यो मूर्खं लौल्यसम्पन्नं राजद्वारिकमाचरेत् ।
मिथ्यावादं विशेषेण तस्य कार्यं न सिद्ध्यति ॥ ८७ ॥
जो मूर्ख लुब्ध मिथ्यावादी दूतको करता है उसका कार्य सिद्ध नहीं होता ॥८७॥
तदन्विष्यतां यदि अस्माद्व्यसनादात्मनां सुनिर्मुक्तिः" ।
अथ अन्ये प्रोचुः, - " अहो ! युक्तमेतत् । न अन्यः कश्चिदु-
पायोऽस्माकं जीवितस्य, तथा एव क्रियताम्"। अथ लम्बक-
र्णो गजयूथाधिपसमीपे निरूपितो गतश्च । तथानुष्ठिते लम्ब-
कर्णोऽपि गजमार्गमासाद्य अगम्यं स्थलमारुह्य तं गजमुवाच-
"भो भो दुष्ट गज ! किमेवं लीलया निःशङ्कतया अत्र चन्द्र-
ह्रदे आगच्छसि। तन्न आगन्तव्यं निवर्त्यताम्" इति। तदाकर्ण्य
विस्मितमना गज आह- " भोः ! कस्त्वम् !" स आह-