सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् ।

अथ
मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् ।
अथ इदमारभ्यते मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रं तस्य
अयमाद्यः श्लोकः-
अब यह आरंभ किया जाता है मित्रसम्प्राप्ति नामवाले दूसरे तंत्रके जिसका-
यह पहिला श्लोक है-
असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः ।
साधयन्त्याशु कार्याणि काकाखूमृगकूर्मवत् ॥ १ ॥
निरुपायभी विद्वान् बुद्धिमान् बहुत शास्त्रदर्शी शीघ्र अपने कार्यको काक
चूहे मृग कच्छपकी समान सिद्ध करते हैं ॥ १ ॥
तद्यथा अनुश्रूयते-
सो यों सुना है-
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग-
रम् । तस्य न अतिदूरस्थो महोच्छ्रायवान् नानाविहं-
गोपभुक्तफलः कीटैरावृतकोटरः छायाश्वासितपथिक-
जनसमूहो न्यग्रोधपादपो महान् । अथवा युक्तम्-
कि, दक्षिणके देशमें महिलारोप्य नाम नगर है, उसके निकटही बडी छाया-
वाला अनेक पक्षियोंसे फल खाया हुआ, कीटोंसे भरीखोडळवाला छायामें
पथिक जनोंको आश्वासन देनेवाला एक बडा न्यग्रोध (वट) का पेड है ।
अथवा कहा है-

  • छायासुप्तमृगः शकुन्तनिवहैर्विष्वग् विलुप्तच्छदः
    कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
    विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः ।
    सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥ २ ॥

जिसकी छायामे मृग सोते हैं, पक्षिसमूहोसे जो चारों ओरसे ढके पत्ते-
वाला, कीटोसे ढकी खखोडवाला, स्कन्धमें वानरोंसे युक्त, भौरोंसे बेडर पिये
फूलरसवाला, सम्पूर्ण अगोंसे बहुत जीवोके सगका सुख देनेवाला, वहही वृक्ष
श्लाघनीय है इसके अतिरिक्त वृक्ष पृथ्वीके भारभूत हैं ॥ २ ॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स
कदाचित् प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत् पश्यति
तावत् जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्द्धकेशो यम-
किंकराकारो नरः सम्मुखो बभूव। अथ तं दृष्ट्वा शंकितमना
व्यचिन्तयत् । "यदयं दुरात्मा अद्य मम आश्रयवटपादपस-
म्मुखोऽभ्येति। तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां
सङ्क्षयो भविष्यति न वा"। एवं बहुविधं विचिन्त्य तत्क्ष-
णान्नितृत्य तमेव वटपादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-
"भो ! अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति ।
तत् सर्वथा तस्य न विश्वसनीयम्। एष जालं प्रसार्य तंडु-
लान् प्रक्षेप्स्यति। ते तण्डुला भवद्भिः सर्वैरपि कालकूटस-
दृशा द्रष्टव्याः" । एवं वदतस्तस्य स लुब्धकस्तत्र वटतले
चागत्य जालं प्रसार्य्य सिन्दुवारसदृशान् तण्डुलान् प्रक्षिप्य
न अतिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थि-
तास्ते लघुपतनकवाक्यार्गलया निवारितास्तान् तण्डुलान्
हालाहलांकुरानिव वीक्षमाणा निभृताः तस्थुः । अत्रान्तरे
चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थं
परिभ्रमन् तान् तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन
निवार्यमाणोऽपि जिह्वालौल्यात् भक्षणार्थमपतत् सपरि-
वारो निबद्धश्च। साधु इदमुच्यते-
वहा लघुपतनक नाम काक रहता था, वह कभी प्राणयात्राके निमित्त पुरकी
ओरको ज्योंही चला, तबतक जाल हाथमे लिये काला शरीर फटे पैर ऊर्ध्व-
केश यमदूतकी समान एक मनुष्य सन्मुख हुआ । उसको देख शकित मनसे
यह विचार करने लगा । "जो यह दुरात्मा आज मेरे आश्रित वटके सन्मुख