सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( १६८ ) पञ्चतन्त्रम् ।

( १६८ ) पञ्चतन्त्रम् ।
समय प्रसव समीपवाली प्रसववेदनासे अपने यूथसे भ्रष्ट हुई ऊंटनी बैठी हुई
गहन वनमें देखी ( पाई ) उसको मारकर जबतक पेट फोडता है तबतक
जीता हुआ छोटा ऊंटनीका बच्चा निकला । सिंहभी ऊंटनीके मांससे परिवार-
सहित परम तृप्तिको प्राप्त हुआ परंतु स्नेहसे बालक ऊंटनीके त्यागे बच्चेको घरमें
लाकर यह बोला—"भद्र ! तेरेको मृत्युसे भय नहीं न मुझसे न अन्यसे । सो
स्वेच्छासे अपने वनमें भ्रमण करो । जो कि, तेरे शंकुकी समान कानहैं इससे
तेरा शंकुकर्ण नाम होगा" । ऐसा अनुष्ठान कर फिर वे चारों एक स्थानमें
विहार करते परस्पर अनेक प्रकार गोष्ठीसुख अनुभव करते स्थित थे । शंकुक-
र्णभी यौवनपदवीको प्राप्त हुआ क्षणमात्रभी सिंहको न छोडता । कभी वज्रदं-
ष्ट्रका किसी दूसरे वनके हाथीके साथ युद्ध हुआ । उससे मदके वीर्यसे वह
दन्तके प्रहारोंसे इस प्रकार क्षतशरीर होगया कि, एक पगभी चलनेको समर्थ
न हुआ । तब भूखसे व्याकुल हुआ उनसे बोला—"भो ! कोई जीव ढूंढो जो मैं
इस दशामें स्थित हुआभी उसको मारकर अपनी और तुम्हारी क्षुधा शान्त करूं.”
यह सुनकर वे तीनों वनमें सन्ध्याकाल पर्यन्त घूमे परन्तु कोई जीव न मिला ।
तब चतुरक विचार करनेलगा "जो यह शंकुकर्ण माराजाय तो सबकी कुछ
दिनोंतक तृप्तिहो परन्तु मित्र तथा आश्रित होनेसे स्वामी इसको न मारेगा । अथवा
बुद्धिके प्रभावसे स्वामीको समझाकर ऐसा करूंगा जैसे वह मारडाले । कहाहै—
अवध्यं चाथवागम्यमकृत्यं नास्ति किंचन ।
लोके बुद्धिमतां बुद्धेस्तस्मात्तां विनियोजयेत् ॥ ४०० ॥”
इस संसारमें बुद्धिमानोंको कोई अवध्य, अगम्य और अकृत्य नहीं है इस
कारण बुद्धिको कार्यमें लगावे ॥ ४०० ॥
एव विचिन्त्य शंकुकर्णमिदमाह, –"भोः शंकुकर्ण ! स्वा-
मी तावत्पथ्यं विना क्षुधया परिपीडयते स्वाम्यभावा-
दस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किंचित् स्वा-
म्यर्थे वदिष्यामि । तत् श्रूयताम्” । शंकुकर्ण आह—"भोः !
शीघ्र निवेद्यतां येन ते वचनं शीघ्रं निर्विकल्पं करोमि ।
अपरं स्वामिनो हिते कृते मया सुकृतशतं कृतं भविष्यति” ।
अथ चतुरक आह—"भो भद्र ! आत्मशरीरं द्विगुणलाभेन

भाषाटीकासमेतम्। ( १६९ )

स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः
पुनः प्राणयात्रा भवति”। तदाकर्ण्य शंकुकर्णः प्राह,-"भद्र !
यदि एवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रिय-
तामिति, परमत्र धर्मः प्रतिभूः”। इति ते विविच्य सर्वे सिंह-
सकाशमाजग्मुः । ततः चतुरक आह-"देव ! न किञ्चित्
सत्त्वं प्राप्तम् । भगवानादित्योऽपि अस्तङ्गतः । तद्यदि स्वामी
द्विगुणं शरीरं प्रयच्छति ततः शंकुकर्णोऽयं द्विगुणवृद्ध्या स्व-
शरीरं प्रयच्छति धर्मप्रतिभुवा”। सिंह आह-"भो ! यदि एवं
तत् सुन्दरतरम्, व्यवहारस्य अस्य धर्मः प्रतिभूः क्रियता-
म्”इति । अथ सिंहवचनानन्तरं वृकश्गालाभ्यां विदारि-
तोभयकुक्षिः शंकुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रः
चतुरकमाह-"भोः चतुरक ! यावदहं नदीं गत्वा स्नानं
देवतार्चनाविधिं कृत्वा आगच्छामि, तावत् त्वया अत्र अप्र-
मत्तेन भाव्यम्” इत्युक्त्वा नद्यां गतः । अथ तस्मिन् गते चतु-
रकः चिन्तयामास, कथं मम एकाकिनो भोज्योऽयमुष्ट्रो
भविष्यतीति विचिन्त्य क्रव्यमुखमाह,-"भोः क्रव्यमुख !
क्षुधालुर्भवान्, तद्यावद्सौ स्वामी न आगच्छति तावत्
त्वमस्य उष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं
प्रतिपादयिष्यामि”। सोऽपि तच्छ्रुत्वा यावत् किञ्चिन्मांसं
आस्वादयति तावच्चतुरकेणोक्तम्,-"भोः क्रव्यमुख ! समाग-
च्छति स्वामी, तत् त्यक्त्वा एनं दूरे तिष्ठ येनास्य भक्षणं न
विकल्पयति”। तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति
तावद्रिक्तीकृतहृदयो दासेरकः । ततो भुकुटिं कृत्वा परुषत-
रमाह-"अहो ! केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपि
व्यापादयामि”। एवमभिहिते क्रव्यमुखः चतुरकमुखं अव-
लोकयति, "किल तद्वद किंचिद्येन मम शान्तिर्भवति”।
अथ चतुरको विहस्योवाच-"भो ! मामनादृत्य पिशितं
भक्षयित्वा अधुना मन्मुखमवलोकयसि ! तत् आस्वादय