Skip to content
SarvaKosh
Back to the archive

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

( ३८६ ) पञ्चतन्त्रम् ।

Page 401Permalink

( ३८६ ) पञ्चतन्त्रम् ।
यह अनेक मेंडक मैंने छलसे साधे हैं, मुझसे भक्षण कियेभी कितने काल-
-तक अक्षीण होंगे ( दीर्घकालमें खा चुकूंगा ) ॥ २४८ ॥
जलपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः
किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्णसर्पः
तमुद्देशं समायातः । तञ्च मण्डूकैः वाह्यमानं दृष्ट्वा विस्मय-
मगमत् । आह च, - "वयस्य ! अस्माकमशनं तैः कथं वाह्यसे
विरुद्धमेतत्" । मन्दविषोऽब्रवीत्-
और जलपादभी मन्दविष सर्पके बनावटी वचनोंसे मोहित चित्त होकर कुछभी
न जानता हुआ, इसी समय और महा शरीरवाला कृष्ण सर्प वहां आया ।
उस पहले सर्पको मण्डूकोंसे वाह्यमान देखकर विस्मयको प्राप्त हुआ । बोलाभी
"भो मित्र ! जो हमारा भोजन है उसे कैसे शिरपर वहन करतेहो ? । यह तो
विरुद्ध है"। मन्दविष बोला-
"सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः ।
किञ्चित्कालं प्रतीक्ष्योऽहं घृतान्धो ब्राह्मणो यथा २४९॥"
"यह सब मैं जानता हूं जिस कारण मेडकोंको वहन करता हूं मैं घृतसुने
द्रव्यसे अन्धे ब्राह्मणकी समान कुछ कालकी प्रतीक्षा करता हूं ॥ २४९ ॥"
सोऽब्रवीत्, - "कथमेतत् ?" मन्दविषः कथयति-
वह बोला,- "यह कैसे ?" मन्दविष कहने लगा-
कथा १६.
अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः, तस्य
भार्य्या पुंश्चली अन्यासक्तमना अजस्रं विटाय सखण्डघृतान्
घृतपूरान् कृत्वा भर्तुश्चौरिकया प्रयच्छति ।
किसी स्थानमें यज्ञदत्तनामवाला ब्राह्मण रहता था उसकी भार्या व्यभिचा-
रिणी ओरमें मन लगाये हुए निरन्तर मित्र (जार) के लिये खांडघृतके
सहित घृतपूर बनाकर स्वामीसे चुराकर उसे देती ।
अथ कदाचित् भर्त्ता दृष्ट्वा अब्रवीत्,- " भद्रे ! किमेतत्
परिदृश्यते ? कुत्र वा अजस्रं नयसि इदम् ? कथय सत्यम्"
सा च उत्पन्नप्रतिभा कृतकवचनैः भर्त्तारमब्रवीत्- "अस्ति

Page 402Permalink

भाषाटीकासमेतम्। ( ३८७ )

अत्र नातिदूरे भगवत्या देव्या आयतनम्, तत्र अहमुपोषिता
सती बलिं भक्ष्यविशेषांश्च अपूर्वान नयामि”। अथ तस्य
पश्यतो गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे ।
यत्कारणं “देव्या निवेदितेन अनेन मदीयो भर्त्तैव मंस्यते
यन्मम ब्राह्मणी भगवत्याः कृते भक्ष्यविशेषान् नित्यमेव नय-
ति”इति। अथ देव्यायतने गत्वा स्नानार्थं नद्यामवतीर्य
यावत् स्नानक्रियां करोति, तावत् भर्त्ता अन्यमार्गान्तरेण
आगत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे । अथ सा ब्राह्मणी स्ना-
त्वा देव्यायतनमागत्य स्नानानुलेपनमाल्यधूपबलिक्रियादिकं
कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-“भगवति ! केन प्रकारेण
मम भर्त्ता अन्धो भविष्यति ?” तच्छ्रुत्वा स्वरभेदेन देवीपृष्ठ-
स्थितो ब्राह्मणो जगाद,-“यदि त्वमजस्रं घृतपूरादिभक्ष्यं
तस्मै भर्त्रे प्रयच्छसि ततः शीघ्रमन्धो भविष्यति” । सा तु
बन्धकी कृतकवचनवञ्चितमानसा तस्मै ब्राह्मणाय तदेव नित्यं
प्रददौ । अथ अन्येद्युः ब्राह्मणेन अभिहितं,-“भद्रे ! नाहं
सुतरां पश्यामि” । तच्छ्रुत्वा चिन्तितमनया,“देव्याः प्रसा-
दोऽयं प्राप्तः” इति । अथ तस्या हृदयवल्लभो विटस्तत्सका-
शमन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निः-
शङ्कः प्रतिदिनमभ्येति । अथ अन्येद्युस्तं प्रविशन्तमभ्या-
शगतं दृष्ट्वा केशैः गृहीत्वा लगुडपाणिप्रभृतिप्रहारैः तावद्-
ताडयत् । यावदसौ पञ्चत्वमाप तामपि दुष्टपत्नीं छिन्ननासिकां
कृत्वा विससर्ज । अतोऽहं ब्रवीमि-
तब एक समय उसके स्वामीने देखकर कहा-“भद्रे ! यह क्या देखता हूँ,
रोज इन्हें कहा लेजाती है ? सत्य कह”। वह तत्काल बात बनानेमें चतुर थी,
बनावटी वचनोंसे स्वामीसे बोली-“यहासे थोडीही दूर भगवती देवीका स्थान
है । वहा मैं व्रती होकर बलि भक्ष्य पदार्थ अपूर्व लेजाती हूं”। तब उसके
देखतेही ग्रहण कर वह सब देवीके स्थानकी ओर चली । कारण यह कि “मेरे
निवेदन किये इस पदार्थसे मेरा स्वामी यह बात मान जाय कि यह मेरी ब्राह्मणी