सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ५०४ ) पञ्चतन्त्रम् ।

( ५०४ ) पञ्चतन्त्रम् ।

सुवर्णसिद्धि बोला,-“भो ! यह सत्य है यदि सुगम स्थानमें शक्ति होती
है तो । और यह तो मनुष्योंको अगम्य स्थान है किसीमें भी तुझे छुडानेकी
शक्ति नहीं है । और ज्यो ज्यों चक्रके भ्रमणकी वेदनासे तेरे मुखका विकार
देखता हूं त्यों त्यों मैं यह जानता हू कि, शीघ्र जाऊ जिससे कोई मेरे ऊपर
अनर्थ नहो । क्योकि-
यादृशी वदनच्छाया दृश्यते तव वानर
विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ८९ ॥”
हे वानर ! जैसी तेरे मुखकी छाया दीखती है इससे जानता हूं तूभी विप-
रीत समय ( दुर्भाग्य ) से आक्रान्त हुआ है जो इस संकटसे भागे वह जिये ८९”
चक्रधर आह-“कथमेतत् ?” सोऽब्रवीत्-
चक्रधर बोला,-“यह कैसे ?” वह बोला-
कथा ११.
कस्मिंश्चित् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म ।
तस्य सर्वलक्षणसम्पन्ना रत्नवती नाम कन्या अस्ति । तां
कश्चित राक्षसो जिहीर्षति रात्रौ आगत्य उपभुङ्क्ते । परं
कृतरक्षोपधानां हर्तुं न शक्नोति । सापि तत्समये रक्षः
सान्निध्यजामवस्थां अनुभवति कम्पादिभिः । एवम् अति-
क्रामति काले कदाचित स राक्षसो मध्यनिशायां गृहकोणे
स्थितः । सापि राजकन्या स्वसखीम् उवाच,-“सखि !
पश्य एष विकालः समये नित्यमेव मां कदर्धयति अस्ति
तस्य दुरात्मनः प्रतिषेधोपायः कश्चित ?” । तच्छ्रुत्वा राक्ष-
सोऽपि व्यचिन्तयत-“नूनं यथा अहं तथा अन्योपि कश्चित
विकालनामा अस्या हरणाय नित्यमेव आगच्छति । परं
सोऽपि एनां हर्तुं न शक्नोति । तत् तावत् अश्वरूपं कृत्वा
अश्वमध्यगतो निरीक्ष्यामि किंरूपः स किम्प्रभावश्च ”
इति । एवं राक्षसोऽश्वरूपं कृत्वा अश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथसमये राजगृहे कश्चित अश्वचौरः प्रविष्टः।
स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञाय
अधिरूढः। अत्रान्तरे राक्षसः चिन्तयामास-“नूनमेष विका-

भाषाटीकासमेतम् । (५०५)

लनामा मां चौरं मत्वा कोपात् निहन्तुम् आगतः । तत् किं
करोमि” । एवं चिन्तयन सोऽपि तेन खलीनं मुखे निधाय
कशाघातेन ताडितः । अथ असौ भयत्रस्तमनाः प्रधावि-
तुम् आरब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं
कर्तुम् आरब्धवान् । स तु केवलं वेगाद्वेगतरं गच्छति । अथ
तं तथाऽगणितखलीनाकर्षणं मत्वा चौरः चिन्तयामास,-
“अहो न एवंविधा वाजिनो भवन्ति अगणितखलीनाः
तन्नूनम् अनेन अश्वरूपेण राक्षसेन भवितव्यम् । तद् यदि
कथञ्चित् पांशुलं भूमिदेशम् अवलोकयामि तदा आत्मानं
तत्र पातयामि । न अन्यथा मे जीवितव्यमस्ति” । एवं चिन्त-
यत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रा-
न्तः । चौरोऽपि वटप्ररोहम् आसाद्य तत्रैव विलग्नः । ततो
द्वौ अपि तौ पृथग्भूतौ परमानन्दभाजौ जीवितविषये लब्ध-
प्रत्याशौ सम्पन्नौ । अथ तत्र वटे कश्चित् राक्षससुहृत् वानरः
स्थितः आसीत् तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-“भो
मित्र ! किमेवं पलाय्यतेऽलीकभयेन, त्वद्भक्ष्योऽयं मानुषः
भक्ष्यताम्” । सोऽपि वानरवचो निशम्य स्वरूपम् आधाय
शङ्कितमनाः स्खलितगतिः निवृत्तः । चौरोऽपि तं वानराहूतं
ज्ञात्वा कोपात् तस्य लांगूलं लम्बमानं मुखे निधाय चर्वित-
वान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भय न
किञ्चिदुक्तवान् केवलं व्यथार्त्तो निमीलितनयनः तिष्ठति ।
राक्षसोऽपि तं तथाभूतम् अवलोक्य श्लोकमेनम्पठत्-
किसी नगरमे भद्रसेन नाम राजा रहता था । उसकी सब लक्षणसे संपन्न
रत्नवती नाम कन्या थी । उसे कोई राक्षस ग्रहण करनेकी इच्छा करता रात्रिमें
आकर उसे भोगता । परन्तु रक्षाके उपाय होनेके कारण उसे हरनेको समर्थ न
होता । वह भी राक्षससे संभोगमें उसके संगकी अवस्थाको कृपादिसे अनुभव
करती । इस प्रकार समयके बीतनेपर एक समय वह राक्षस आधीरातमें घरके
कोनेमें स्थित हुआ। वह भी राजकन्या अपनी सखीसे बोली,-“सखि ! देख