पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( १२ ) पञ्चतन्त्रम् ।
( १२ ) पञ्चतन्त्रम् ।
हुआ, वहां मरकतमणीकी समान छोटे तृणके अग्रभाग भक्षण करता हुआ कुछ
दिनोंमें शिवजीके वृषभके समान स्थूल ककुदवाला बलवान् हुआ प्रतिदिन
वल्मीकके शिखरके अग्रभागोंको शृंगोंसे विदीर्ण करता गर्जता रहा । कहाभी
सत्य है कि-
अरक्षितं तिष्ठति दैवराक्षितं सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विन-
श्यति ॥ २० ॥
अप्रतिपालित वस्तु दैवसे रक्षित हुई स्थित रहती है, भली प्रकार रक्षित हुई
वस्तुभी दैवसे अरक्षितहो नष्ट होजातीहै, अनाथभी वनमे त्यागन किया जीताहै
यत्न करनेपरभी घरमें नहीं जीताहै, वंशस्थ वृत्त ॥ २० ॥
अथ कदाचित् पिंगलको नाम सिंहः सर्वमृगपरिवृतःपिपा-
साकुल उदकपानार्थं यमुनातटमवतीर्णः सञ्जीवकस्य गम्भीर-
तरारावं दूरादेव अशृणोत् । तच्छ्रुत्वा अतीव व्याकुलहृदयः
ससाध्वसमाकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेन अव-
स्थितः । चतुर्मण्डलावस्थानं त्विदम्-सिंहः सिंहानुयायिनः
काकरवाः किंवृत्ता इति । अथ तस्य करटकदमनकनामानौ द्वौ
शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनौ आस्ताम् ।
तौ च परस्परं मन्त्रयतः। तत्र दमनकोऽब्रवीत्-“भद्र करटक !
अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकक्ष-
मवतीर्य्य स्थितः स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य
व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र वटतले स्थितः”।
करटक आह-“भद्र ! किमावयोरनेन व्यापारेण । उक्तञ्च यतः-
एक समय पिंगलक नाम सिंह सम्पूर्ण मृगोंसे युक्त प्याससे व्याकुल जल
पीनेके निमित्त यमुनाके किनारे प्राप्त हुआ, संजीवकका अधिक गम्भीर शब्द दूरसे
सुनता भया । वह सुन अत्यन्त व्याकुल हृदय होकर भयके आकारको छिपाकर
वटवृक्षके नीचे चतुर्मण्डलावस्थान ( जिसके चारों ओर मृग बैठे हों ) से बैठा ।
चतुर्मण्डलावस्थान इसको कहतेहैं, कि सिंह,सिंहानुयायी, काकरव (काककेसे शब्द
करनेवाले ), किंवृत्त (क्यों उपस्थित हुआ है, इस वृत्तान्तके जाननेवाले ) बैठे ।
भाषाटीकासमेतम् । ( १३ )
तब उसके करटक, दमनक नामवाले दो शृगाल मंत्रीके पुत्र अधिकारसे भ्रष्ट
सदा अनुयायी थे । वह दोनो परस्पर सम्मति करने लगे, उसमे दमनक बोला-
“भद्र करटक! यह तो हमारा स्वामी पिंगलक जल पीनेको यमुनाच्छमें प्राप्त हो
स्थित हुआ था। क्या कारण है कि, प्याससे व्याकुल होकरभी लौटकर अपनी सेनाकी
मण्डल रचनाको विधानकर दुर्मनस्कतासे तिरस्कृत हुआ इस वट वृक्षके नीचे
बैठा है?” करटक बोला-“भद्र ! हमारा इस व्यापारसे क्या लाभ है, कहा भी है-
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१ ॥”
जो मनुष्य अनधिकारियोमे अधिकार करनेकी इच्छा करता है वही नाश
होता है, जैसे कीलको उखाडकर वानर ॥ २१ ॥ ”
दमनक-आह-“कथमेतत्” ? । सोऽब्रवीत्-
दमनक बोला “यह कैसी कथा है’ ? ? वह बोला-
कथा १.
कस्मिंश्चित् नगराभ्यासे केनापि वणिक्पुत्रेण तरुषण्ड-
मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थप-
त्यादयः ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति ।
अथ कदाचित् तत्रानुषङ्गिकं वानरयूथमितश्चेतश्च परिभ्रमत
आगतम् । तत्र एकस्य कस्यचित् शिल्पिनोऽर्द्धस्फाटितोऽञ्ज-
नवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्यनिहितेन तिष्ठति
एतस्मिन् अन्तरे ते वानराः तरुशिखरप्रासादशृङ्गदारुपर्य-
न्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्नमृत्युः
चापल्यात् तस्मिन्नर्द्धस्फाटितस्तम्भे उपविश्य पाणिभ्यां
कीलकं संगृह्य यावत् उत्पाटयितुमारेभे तावत् तस्य स्तम्भ-
मध्यगतवृषणस्य स्वस्थानात् चलितकीलकेन यद्वृत्तं तत्प्रा-
गेव निवेदितम् । अतोऽहंब्रवीमि “अव्यापारेषु” इति ।
आवयोः भक्षितशेष आहारोऽस्त्येव, तत् किमनेन व्यापा-
रेण”। दमनक आह-“तत् किं भवान् आहारार्थी केवलमेव।
तन्न युक्तम् । उक्तं च-