पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४६८ ) पञ्चतन्त्रम् ।
( ४६८ ) पञ्चतन्त्रम् ।
कभी जल आकाशसे पुष्करिणी आदिमें पतित होता है, कभी पातालसे निकलता
है, दैव अचिन्त्य और बलवान् है पुरुषकारमें यह बात नहीं (विफल) है ॥२९॥
अभिमतासिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः॥३०॥
पुरुषकारसे पुरुषको सम्पूर्ण मनोरथ सिद्धि मिलती है और जो दैवको कहता
है वहभी पुरुषका अदृष्ट नामक गुण है ॥ ३० ॥
भयममुलं गुरुलोकात्तृणमिव तुलयन्ति साधु साहिसकाः।
प्राणानद्भुतमेतच्चरितं चरितं ह्युदाराणाम् ॥ ३१ ॥
साहसी पुरुष गुरुजनोंसे अतुल भय तथा प्राणोंको तृणकी समान मानते
हैं महान् पुरुषोंका यह अद्भुत चरित्र है ॥ ३१ ॥
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते ।
मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥ ३२ ॥
इस संसारमें शरीरको बिना क्लेश दिये सुखकी प्राप्ति नहीं होती है मधुसूद-
नने समुद्रमथनसे श्रान्तहुए भुजाओं द्वाराही लक्ष्मीकी प्राप्ति की थी ॥ ३२ ॥
तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि।
मासांश्चतुरो निद्रां यः सेवति जलगत्तः सततम् ॥ ३३ ॥
नृसिंहरूपधारी उन विष्णुकी लक्ष्मी क्यों चलायमान नहो जो जलमें स्थित
हो चार महीने निरन्तर निद्रा सेवन करते हैं ॥ ३३ ॥
दुरधिगमः परभागो यावत्पुरुषेण साहसं न कृतम् ।
जयति तुलामधिरूढो भास्वानिह जलदपटलानि ॥३४॥
जबतक पुरुष साहस नहीं करता तबतक पराया भाग दुर्लभ है तुला
(राशि) को प्राप्त होकरही सूर्य मेघसमूहोंको जीतता है ॥ ३४ ॥
तत्कथ्यताम् अस्माकं कंश्चित् धनोपायो विवरप्रवेशशा-
किनीसाधनश्मशान सेवन महामांस विक्रयसाधकवर्त्तिप्रभृती-
नामेकतम इति । अद्भुतशक्तिर्भवान् श्रूयते । वयमपि अति-
साहसिकाः । उक्तञ्च-
सो कोई हमको धनप्राप्तिका उपाय कहो, पातालगमन, शाकिनीसाधन,
श्मशानसेवन, महामांसविक्रय, साधकवर्ति आदिमें कोई एक (विधि बताओ)
आप अद्भुत शक्तिवाले सुने जाते हो । हमभी बडे साहसी हैं । कहा है-
भाषाटीकासमेतम् । ( ४६९ )
महान्त एव महतामर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ॥ ३५ ॥"
महान् पुरुषही महान् अर्थोंको साधनेमें समर्थ होते हैं समुद्रके बिना वडवा-
नल धारण करनेको कौन समर्थ हो सकता है ? ॥ ३५ ॥"
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्त्तिचतुष्टयं
कृत्वा अर्पयत् । आह, च-"गम्यतां हिमालयदिशि, तत्र
सम्प्राप्तानां यत्र वर्त्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं
प्राप्स्यथ, तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुष्य-
ताम्” । तथा अनुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद्व-
र्त्तिर्निपपात । अथ असौ यावत् तं प्रदेशं खनति तावद्
ताम्रमयी भूमिः । ततः तेन अभिहितम्-"अहो ! गृह्यतां
स्वेच्छया ताम्रम्” । अन्ये प्रोचुः, - "भो मूढ ! किमनेन
क्रियते ? तत् प्रभृतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ
अग्रतो गच्छामः” । सोऽब्रवीत्,- “यान्तु भवन्तो न अहमग्रे
यास्यामि” । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा
प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चि-
न्मात्रं गतस्य अग्रेसरस्य वर्त्तिः निपपात । सोऽपि यावत्
खनितुम् आरब्धः तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः
प्राह, - "यत् भो ! गृह्यतां यथेच्छया रूप्यम् । न अग्रे गन्त-
व्यम्” । तौ ऊचतुः-"भोः ! पृष्ठतः ताम्रमयी भूमिरग्रतो
रूप्यमयी । तत् नूनम् अग्रे सुवर्णमयी भविष्यति । तदनेन
प्रभूतेनापि दारिद्र्यनाशो न भवति । तत् आवाम् अग्रे या-
स्यावः” । एवमुक्त्वा द्वौ अपि अग्रे प्रस्थितौ । सोऽपि स्वशक्त्या
रूप्यम् आदाय निवृत्तः । तयोरपि गच्छतोः एकस्य अग्रे
वर्त्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्ण-
भूमिं दृष्ट्वा द्वितीयं प्राह,-"भो ! गृह्यतां स्वेच्छया सुवर्णम्
सुवर्णादन्यत् न किञ्चित् उत्तमं भविष्यति” । स प्राह,-
"मूढ ! न किञ्चित् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः