Skip to content
SarvaKosh
Back to the archive

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

( ३५८ ) पञ्चतन्त्रम् ।

Page 373Permalink

( ३५८ ) पञ्चतन्त्रम् ।
तथाच-
और देखो-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्या सजारां शिरसाऽऽवहत् ॥२०२॥”
प्रत्यक्ष दोष होनेपर भी ( पापीकी ) विनयसे मूर्ख शान्त होता है रथकारने
अपनी भार्याको जारसहित शिरपर उठाया ॥ २०२ ॥”
मन्त्रिणः प्राहुः-“कथमेतत् ?” रक्ताक्षः कथयति-
मंत्री बोले,-“यह कैसे ?” रक्ताक्ष कहता है-
कथा ११.
अस्ति कस्मिंश्चिदधिष्ठाने वीरधरो नाम रथकारः,
तस्य भार्या कामदमनी । सा च पुंश्चली जनापवादसं-
युक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत् ।-“अथ
मया अस्याः परीक्षणं कर्त्तव्यम् । उक्तञ्च यतः-
किसी एक स्थानमें वीरधर नामवाला बढई रहता है । उसकी भार्या काम-
दमनी । वह व्यभिचारिणी लोकापवादसे युक्तथी । वह भी उसकी परीक्षा कर-
नेका विचार करताथा कि “किस प्रकारमें इसकी परीक्षा करूं । कहाहै-
यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥२०३॥
यदि अग्नि शीतल होजाय वा चन्द्रमा गरम होजाय वा दुर्जन हित होजाय
तो स्त्रियोंके सतीपनका विश्वास हो ॥ २०३ ॥
जानामि च एनां लोकवचनात् असतीम् । उक्तञ्च-
लोकप्रवादसे मैं इसको असती जानता हूं । कहा है-
यन्न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम् ॥ २०४ ॥
जो वेदशास्त्रमें न देखा न सुना है और जो कुछ इस संसारके मध्यमें स्थित है
उसको स्त्री लोक सब जानते हैं ॥ २०४ ॥
एवं सम्प्रधार्य भार्यामुवोचत्-“प्रिये ! प्रभातेऽहं ग्रामा-
न्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत

Page 374Permalink

त्वया किमपि पाथेयं मम योग्यं विधेयम्” । सापि तद्वचनं
श्रुत्वा हर्षितचित्ता औत्सुक्यात् सर्वकार्याणि सन्त्यज्य
सिद्धमन्नं घृतशर्कराप्रायमकरोत् । अथवा साधु इदमुच्यते-
ऐसा विचार कर भार्यामे बोला- "प्रिये ! प्रभात समयमें ग्रामान्तरको जाऊँ-
गा वहा कुछ दिन लगेंगे सो तू कुछ भोजनादि बनादे”। वह भी यह वचन सुन
बडे हर्षित चित्तसे उत्कण्ठासे सब कार्य त्याग कर सिद्ध अन्न ( पूरी आदि ) घृत
शर्करासे युक्त बनाती हुई । अथवा यह अच्छा कहा है-
दुर्दिवसे घनतिमिरे वर्षति जलदे महाटवीप्रभृतौ ।
पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ २०५ ॥
दुर्दिन घने अन्धकारमें मेघके वर्षनेमें महाजगलमें पतिके विदेश जानेमें
चपल जघावाली ( कामिनी ) परम सुख मानती है ॥ २०५ ॥
अथ असौ प्रत्यूषे उत्थाय स्वगृहात् निर्गतः । सापि तं
प्रस्थितं विज्ञाय प्रहसितवदना अङ्गसंस्कारं कुर्वाणा कथञ्चित्
तद्दिवसमत्यवाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्यु-
क्तवती । स दुरात्मा मे पतिर्ग्रामान्तरं गतः । तत् त्वया अ-
स्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथा अनुष्ठिते स रथका-
रोऽरण्ये दिनमतिवाह्य प्रदोषे स्वगृहेऽपरद्वारेण प्रविश्य शय्या-
धस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः
समागत्य तत्र शरणे उपविष्टः । तं दृष्ट्वा रोषाविष्टचित्तो रथ-
कारो व्यचिन्तयत् “किमेनं उत्थाय हन्मि, अथवा हेलया
एव प्रसुप्तौ द्वौ अपि एतौ व्यापादयामि । परं पश्यामि ताव-
दस्याः चेष्टितम् । शृणोमि च अनेन सह आलापान्”। अत्रा-
न्तरे सा गृहद्वारं निभृतं विधाय शयनतलमारूढा । अथ त-
स्यास्तत्र आरोहन्त्या रथकारशरीरे पादो विलग्नः । ततः
सा व्यचिन्तयत् । “नूनमेतेन दुरात्मना रथकारेण मत्परीक्ष-
णार्थं भाव्यम् । ततः स्त्रीचरित्रविज्ञानं किमपि करोमि”। एवं
तस्याः चिन्तयन्त्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया
कृताञ्जलिपुटया अभिहितं-“भो महानुभाव ! न मे शरीरं त्वया