Skip to content
SarvaKosh
Back to the archive

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

(१०२) पञ्चतन्त्रम् ।

Page 117Permalink

(१०२) पञ्चतन्त्रम् ।
विधि और मन्त्रसे युक्त (अर्थात् सुयुक्ति विधिसे) जोतीहुई कठिन भूमि
भी बहुत फलको देतीहै, जैसे अरणी अग्निको मथनेसे देतीहै ॥ २३९ ॥
प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्द्धनम् ।
पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥ २४० ॥
प्रजापालन राजाओंको प्रशंसनीय है। यही स्वर्गके कोषका बढानाहै। प्रजाको
पीडा देना धर्मके नाश, पाप और अकीर्तिके लिये होताहै ॥ २४० ॥
गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः ।
पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥ २४१ ॥
गोपालको प्रजारूपी गौका दूध शनैः २ ग्रहण करना चाहिये, पालन
पोषण और न्यायकी वृत्तिसे ग्रहणकरै ॥ २४१ ॥
अजामिव प्रजां मोहाद्यो हन्यात्पृथिवीपतिः ।
तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥ २४२ ॥
और जो राजा मोहसे बकरी समान प्रजाको नष्टकरताहै, उस एककीही
तृप्ति होती है, दूसरेकी कदाचित् नहीं ॥ २४२ ॥
फलार्थी नृपतिर्लोकान्पालयेद्यतमास्थितः ।
दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २४३ ॥
फलकी इच्छावाला राजा यत्नसे लोकोको पालनकरै जिसप्रकार दान मानके
जलसे माली अंकुरोंको बढाताहै ॥ २४३ ॥
नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि ।
आन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ २४४ ॥
दीपककी समान राजा प्रजासे धनरूपी स्नेहको ग्रहण करता हुआ अपने
अन्तरमे स्थित श्रेष्ठ गुणोके कारण किसीको लक्षित नहीं होताहै ॥ २४४ ॥
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥ २४५ ॥
जैसे समयपर गौ दुही जातीहै ऐसेही पालीहुई प्रजा समयपर दुही जातीहै
सींचीहुई लताही समयपर पुष्प फलादि प्रदान करतीहै ॥ २४५ ॥
यथा बीजङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥ २४६ ॥

Page 118Permalink

भाषाटीकासमेतम् । ( १०३ )

जिस प्रकार सूक्ष्मबीजोंके अंकुर यत्नोसे रक्षितहुए समयपर फल देते हैं इसी
प्रकार सुरक्षित लोकभी ॥ २४६ ॥
हिरण्यधान्यरत्नानि यानानि विविधानि च ।
तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥ २४७ ॥
सुवर्ण, धान्य, रत्न, विविध यान तथा औरभी जो कुछ है वह सब राजाको
प्रजासे ही प्राप्त होताहै ॥ २४७ ॥
लोकानुग्रहकर्त्तारः प्रवर्द्धन्ते नरेश्वराः ।
लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ॥ २४८ ॥"
लोकोपर अनुग्रह करनेवाले राजा वृद्धिको प्राप्त होतेहैं और लोकके क्षय
करनेसे नाश होजातेहैं इसमे सन्देह नही ॥ २४८ ॥"
अथ तेषां तद्वचनमाकर्ण्य भासुरक आह-“अहो ! सत्यम-
भिहितं भवद्भिः परं यदि ममोपविष्टस्यात्र नित्यमेव
नैकः श्वापदः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि” ।
अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजः तत्रैव वने निर्भयाः प-
र्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा
वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां
मध्यात्तस्य भोजनार्थ मध्याह्नसमये उपतिष्ठते । अथ कदा-
चित् जातिक्रमाच्छशकस्य अवसरः समायातः । स समस्त-
मृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं
चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति
तावद् मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति
तावत्कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन
हृदये चिन्तितं । “यद्भव्य उपायोऽस्ति, अहं भासुरकं प्रकोप्य
स्वबुद्ध्या अस्मिन् कूपे पातयिष्यामि” । अथासौ दिन-
शेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षा-
मकण्ठः कोपाविष्टः सृक्किणी परिलेलिहन् व्यचिन्तयत् ।
“अहो ! प्रातराहाराय निःसत्त्वं वनं मया कर्त्तव्यम्” । एवं
चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य