सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)

Vaisheshika Darshan with Prashastapada Bhashya

महर्षि कणाद / महर्षि प्रशस्तपाद द्वारा

स्रोत: चौखम्बा संस्कृत सीरीज · चौखम्बा संस्कृत सीरीज · 1950 (उद्गम)

DevanagariSanskritpublished759 पृष्ठ

प्रारंभिक पृष्ठ व भूमिका

गङ्गानाथझा-ग्रन्थमाला
[ प्रथमं पुष्पम् ]
प्रशस्तपादाचार्यप्रणीतं
प्रशस्तपादभाष्यम्
[ पदार्थधर्मसङ्ग्रहाख्यम् ]
श्रीधरभट्टप्रणीतया
न्यायकन्दली-व्याख्यया
कुलपतेः डॉ. मण्डनमिश्रस्य प्रस्तावनया च समलङ्कृतम्
सम्पादको हिन्दीव्याख्याकारश्च
पण्डितश्रीदुर्गाधरझा-शर्मा
अनुसन्धानसहायकचरः,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य-
वाराणसी
वाराणस्याम्
२०५३ तमे वैक्रमाब्दे १९१८ तमे शकाब्दे १९९७ तमे ख्रैस्ताब्दे

अनुसन्धानप्रकाशनपर्यवेक्षकः -
निदेशकः, अनुसन्धानसंस्थानस्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी ।
☐
प्रकाशकः -
डॉ. हरिश्चन्द्रमणित्रिपाठी
प्रकाशनाधिकारी,
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी-२२१ ००२
☐
प्राप्तिस्थानम् -
विक्रय-विभागः,
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी-२२१ ००२
☐
द्वितीयं संस्करणम्- १००० प्रतिरूपाणि
मूल्यम्- ४८०.०० रूप्यकाणि
☐
मुद्रकः -
रत्ना प्रिंटिंग वर्क्स
बी. २१/४२ ए, कमच्छा,
वाराणसी-२२१ ०१०.

प्रस्तावना
प्रायशः सर्वाण्यपि भारतीयदर्शनानि मोक्षमेव परमपुरुषार्थतया लक्षीकृत्य
प्रवर्तितानीति नाविदितं दार्शनिकरुचिवताम् । "अथातो धर्मं व्याख्यास्यामः" (वै.
सू. १।१।१) इति सूत्रयित्वा "यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" (वै. सू.
१।१।२) इत्यादिना धर्मस्वरूपं प्रतिपादयता भगवता कणादेन निःश्रेयसप्रयोजकी-
भूतधर्मप्रतिपादनपरत्वं वैशेषिकदर्शनस्येति प्रतिपादितम् । प्रशस्तपादाचार्योऽपि
वैशेषिकसिद्धान्तनिर्वचनारम्भे "द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं निःश्रेयस-
हेतुः" इत्यनेन "तच्च (उक्ततत्त्वज्ञानञ्च) ईश्वरचोदनाभिव्यक्ताद्धर्मादेव" इत्यनेन च
निरुक्तमेवाशयं समर्थयति । प्रस्तुतश्चायं ग्रन्थस्तस्यैव प्रशस्तपादाचार्यस्य विशिष्टा
कृतिर्यद्यपि वैशेषिकसूत्राणां न तादृशं व्याख्यानं प्रस्तौति, येन भाष्यकोटिमारोहेत् ।
अत एव मन्ये, स्वयं ग्रन्थकृता ग्रन्थस्यास्याभिधानं "पदार्थधर्मसङ्ग्रहः" इत्यकारि,
तथापि प्रायशः सर्वासामप्युक्तीनां समर्थने युक्त्यपेक्षया वैशेषिकसूत्राण्येवोद्ध्रियन्ते
ग्रन्थकृतेत्येतस्याध्ययनेन सम्यगवगन्तुं शक्यते । अतः प्रकारान्तरेण सूत्रार्थवर्णन-
परत्वमपि (सूत्रार्थो वर्ण्यते यत्र...) ग्रन्थस्यास्य सङ्गच्छते । अत एव भाष्यत्वमपि च
सङ्गच्छते ।
किञ्च, यद्यपि साम्प्रतमुपलब्धान्यनुपलब्धानि च नैकानि व्याख्यानानि सन्ति
वैशेषिकसूत्राणाम्, तथापि तेष्वेतस्य सर्वाधिकं प्रामाण्यमवधार्यते वैशेषिकनिकाये ।
अतो विशिष्टप्रामाण्यवत्तयाऽप्येतस्य भाष्यमिति व्यपदेशः । वस्तुतस्तु न केवलं
सूत्रार्थवर्णनपरत्वमात्रं भाष्यत्वं भाष्याणाम् । कथमन्धथा वैशेषिकसूत्रोपस्कारन्याय-
सूत्रवृत्तिप्रभृतयो ग्रन्था भाष्यपदवीं नारोहन्ति । मदृष्ट्याऽस्ति कश्चिद् विशिष्टो
रूढ्यर्थो भाष्यशब्दस्य । भाष्यपदश्रवणसमकालमेव किमपि तपः, काऽपि विलक्षणा
श्रद्धा, सर्वात्मना पावित्र्यम्, ऋषिप्रोक्तत्वमित्यादिकं स्वत एव स्फुरितं भवति ।
तदेतत्सर्वमप्येतस्य ग्रन्थस्य पर्यालोचनेनानुभवपथमायाति । अत एव परवर्तिभिः
प्रायः सर्वैरपि निबन्धकारैर्वैशेषिकसिद्धान्तनिर्वचनक्रमे प्रशस्तपादोक्ताः सिद्धान्ताः
प्रमाणत्वेनोपस्थापिताः, तत्सरणिरपि प्रायशोऽनुसृता ।
इत्थमेतस्य ग्रन्थरत्नस्य वैशिष्ट्यमवधार्य ग्रन्थोऽयं विश्वविद्यालयेन १८८५ तमे
शकाब्दे गङ्गानाथझा-ग्रन्थमालायामिदंप्रथमतया प्रकाशितः । यद्यपि भाष्यमिदमत्यन्तं
ललितया भाषया रुचिरया च शैल्या निबद्धम्, तथापि विचाराणां गाम्भीर्याद् यत्र
तत्र सृष्टिप्रक्रिया-पाकजप्रक्रिया-द्वित्वोत्पत्तिविधानाद्यनेकेषु स्थलेषु विलक्षणार्थ-
गर्भत्वाच्च किञ्चित् क्लिष्टत्वमवधार्य व्युत्पित्सूनामुपयोगाय तदानीमेव श्रीधरभट्ट-

( २ )
विरचितया न्यायकन्दल्याख्यव्याख्यया श्रीदुर्गाधरझा-शर्मणा रचितेन भाषानुवादेन च
विभूष्य ग्रन्थोऽयं प्रकाशितः ।
तदद्य तस्यैवास्य ग्रन्थरत्नस्य द्वितीयं संस्करणं विदुषां पुरस्तात् प्रस्तुवद्भिर-
स्माभिरत्यन्तमानन्दोऽनुभूयते । आशासेऽस्माकं प्रयासोऽयं श्रेयसे कल्पिष्यत इति ।
अन्ते च स्वनामधन्यानां प्रशस्तपादाचार्याणां ग्रन्थस्यास्यानुवादकानां श्रीदुर्गाधरझा-
महोदयानां स्मृतौ स्वकीयं श्रद्धाञ्जलिम्, प्रकाशनाधिकारिणे डॉ. हरिश्चन्द्रमणि-
त्रिपाठिने, मुद्रकाय रत्नायन्त्रालयसञ्चालकाय श्रीविपुलशङ्करपण्ड्यामहोदयाय च
धन्यवादान् समर्पयन् ग्रन्थमिमं संस्कृतजगते समुपहरामि ।
वाराणसी ] मण्डनमिश्रः
महाशिवरात्रिः, ] कुलपतिः
वि. सं. २०५३ ] सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य

॥ श्रीः ॥
विज्ञप्तिः
[ प्रथमसंस्करणस्य ]
गङ्गानाथान् गुरून् नत्वा बहुग्रन्थानुवादकान् ।
तन्नाम्ना ग्रन्थमालायाः प्रक्रमं करवाण्यहम् ॥
प्रशस्तपादभाष्यस्य कन्दलीटीकया सह ।
प्रकाशः क्रियतेऽस्माभिरनूद्य देशभाषया ॥
संशोधनं कृतं यत्नैर्हिन्दीभाषानुवादिना ।
अस्मत्सहायकेनैव श्रीदुर्गाधरशर्मणा ॥
लिखिता भूमिकाय्येका न्यायशास्त्रविदाऽमुना ।
वैशेषिकपदार्थानां सम्यग् बोधो यथा भवेत् ॥
मालायाः सुमनश्चायं सौमनस्यं प्रसारयेत् ।
प्रार्थना काशिकापुर्यां क्षेत्रेशचन्द्रशर्मणः ॥
शास्त्रज्ञ पण्डितों के अतिरिक्त अंग्रेजी शिक्षा प्राप्त अथवा हिन्दी भाषा के
वेत्ता साधारण बुद्धिमान् जनता में अथवा विद्वानों में प्राचीन भारतीय दर्शनों के
प्रति विशेष रुचि आजकल पाई जाती है; परन्तु संस्कृत-भाषा में पूर्ण ज्ञान न होने
के कारण वे मूल ग्रन्थों का अध्ययन नहीं कर सकते हैं । इस त्रुटि की पूर्ति के
लिए यह आवश्यक है कि हमारे मुख्य-मुख्य दार्शनिक तथा अन्य शास्त्रों के ग्रन्थों
का प्रामाणिक अनुवाद के साथ प्रकाशन हो, जैसे ग्रीक तथा लातिन भाषा की
लोएब क्लैसिकल लाइब्रेरी (LOEB CLASSICAL LIBRARY) में हुआ है ।
काशी से प्रकाशित 'अच्युतग्रन्थमाला' ने अंशतः यह कार्य किया है; परन्तु इस
ग्रन्थमाला में कुछ ही शास्त्रों का समावेश हुआ । यह ग्रन्थमाला भी इधर बन्द हो
गई ।
सन् १९५८ में काशी राजकीय संस्कृत महाविद्यालय के "वाराणसेय संस्कृत
विश्वविद्यालय" में परिणत होने पर अनुसन्धान संचालक के पद पर जब
मेरी नियुक्ति हुई, मैंने प्रथम उपकुलपति श्री आदित्यनाथ झा जी से प्रार्थना की
कि ऐसी एक ग्रन्थमाला हम भी प्रकाशित करें और उन्होंने इस प्रस्ताव को
स्वीकृत किया । ग्रन्थमाला का नाम रखा गया 'गङ्गानाथझा-ग्रन्थमाला' । इस
नामकरण के दो कारण थे-(१) हमारे दिवङ्गत गुरु विद्यासागर महामहोपाध्याय