पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४०२ ) पञ्चतन्त्रम् ।
( ४०२ ) पञ्चतन्त्रम् ।
ब्रह्महत्यारा, सुरापी, चोर, व्रतभंगकरनेवाला सत्पुरुषोंने इनकी निष्कृति कही
है परन्तु कृतघ्नकी निष्कृति नहीं है ॥ ११ ॥
तत् त्वं मम देवरं गृहीत्वा अद्य प्रत्युपकारार्थं गृहमानय।
नो चेत् त्वया सह मे परलोके दर्शनम्" । तत् अहं तया
एवं प्रोक्तः तव सकाशमागतः । तत् अद्य तया सह त्वदर्थे
कलहायतो मम इयती वेला विलग्ना। तत् आगच्छ मे गृहम्।
तव भ्रातृपत्नी रचितचतुष्का प्रगुणितवस्त्रमणिमाणिक्याद्यु-
चिताभरणा द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति" ।
मर्कट आह-"भो मित्र ! युक्तमभिहितं मद्भ्रातृपत्न्या ।
उक्तञ्च-
सो तू मेरे देवरको ग्रहण कर उसका प्रत्युपकार करनेको घर लेआना । नहीं
तो तेरे साथ मेरा परलोक दर्शन होगा"। सो मैं इस प्रकारसे कहा हुआ तुम्हारे
पास आया हूं । सो आज तुम्हारे अर्थ स्त्रीके साथ क्लेश करते हुए मुझे इतनी
देर लग गई । सो मेरे घरको आओ । तुम्हारी भाभी आंगन सजाये बडे मोलके
वस्त्र मणि माणिक्यसे रचित गहनेवाले द्वारदेश बंधी वंदन माला किये उत्कं-
ठित स्थित है" वानर बोला-"भो मित्र ! तुम्हारी जायाने सत्य कहा है ।
कहा है कि-
वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः ।
आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥ १२ ॥
अति बुद्धिमान् मनुष्य कपट आकारवाले मित्रको त्याग दे जो कपटी मित्र
लोभके कारण नित्य अपने सम्मुख मित्रको खैंचता है ॥ १२ ॥
तथाच-
और देखो-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ १३ ॥
जो देता, ग्रहण करता, गुप्त बात कहता और पूछता, भोजन करता,
भोजन कराता है ये छः प्रकारका प्रीतिका लक्षण है ॥ १३ ॥
परं वयं वनचराः, युष्मदीयञ्च जलान्ते गृहं, तत् कथं
भाषाटीकासमेतम् । ( ४०३ )
शक्यते तत्र गन्तुम्,तस्मात् तामपि मे भ्रातृपत्नीमत्र आनय
येन प्रणम्य तस्या आशीर्वादं गृह्णामि” । स आह,–“भो
मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् ।
तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ” । सोऽपि
तच्छ्रुत्वा सानन्दमाह,–“भद्र ! यदि एवं तत् किं विलम्ब्यते
त्वर्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे
जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच–
“भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लाव्यते मे
शरीरम्”। तत् आकर्ण्य मकरः चिन्तयामास । “असौ अगाधं
जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि
चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं,
येन अभीष्टदेवतास्मरणं करोति” । आह च,–“मित्र ! त्वं
मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्
स्मर्यतामभीष्टदेवता” । स आह,–“भ्रातः ! किं मया
तस्याः तवापि च अपकृतं ? येन मे वधोपायः चिन्तितः” ।
मकर आह,–“भोः ! तस्याः तावत् तव हृदयस्य अमृतमय-
फलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतदनु-
ष्ठितम्” । प्रत्युत्पन्नमतिः वानर आह,–“भद्र ! यदि एवं तत्
किं त्वया मम तत्र एव न व्याहृतम् । येन स्वहृदयं जम्बूको-
टरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्नया अर्पया-
मि । त्वया अहं शून्यहृदयोऽत्र कस्मात् आनीतः ?” तदा-
कर्ण्य मकरः सानन्दमाह,–“भद्र ! यदि एवं तदर्पय मे
हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति ।
अहं त्वां तमेव जम्बूपादपं प्रापयामि” । एवमुक्त्वा निवृत्य
जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतो-
पचारपूजः तीरमासादितवान्। ततश्च दीर्घतरचंक्रमणेन तमेव
जम्बूपादपमारूढः चिन्तयामास । “अहो ! लब्धाः तावत्
प्राणाः । अथवा साधु इदमुच्यते–