पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ६२ ) . पञ्चतन्त्रम् ।
( ६२ ) . पञ्चतन्त्रम् ।
तत् त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयि-
तव्यमिति”। स आह-“भगवन् ! भवदादेशः प्रमाणम् । परत्र
हि तेन मे प्रयोजनम्”। अथ कृतशयनसमयं देवशर्मा अनु-
ग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्त-
पादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि
मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथ एवं गच्छति काले
आषाढभूतिश्चिन्तयामास । “अहो ! न कथञ्चिदेष मे विश्वा-
समागच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा
विषं प्रयच्छामि, किंवा पशुधर्मेण व्यापादयामि” । इत्येवं
चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्र-
णार्थं समायातः । प्राह च-“भगवन् ! पवित्रारोपणकृते मम
गृहमागम्पतामिति”। तच्छ्रुत्वा देवशर्मा आषाढभूतिना सह
प्रहृष्टमनाः प्रस्थितः । अथ एवं तस्य गच्छतोऽग्रे काचिन्नदी
समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये
सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषा-
ढभूतिमिदमाह-“भो आषाढभूते ! यावदहं पुरीषोत्सर्गं
कृत्वा समागच्छामि तावदेषा कन्था योगेश्वरस्य सावधान-
तया रक्षणीया” इत्युक्त्वा गतः । आषाढभूतिरपि तस्मिन्न-
दर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-
गुणानुरञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति ताव-
त्सुवर्णरोमदेहयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयु-
गलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपैत्य ललाटपट्टाभ्यां
प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्याेन
रंगभूमिं प्रविश्य आस्वादयति । देवशर्मापि तदालोक्य
व्यचिन्तयत । “अहो ! मन्दमतिरयं जम्बूकः यदि कथमपि
अनयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्क-
यामि” । क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रवि-
शंस्तयोः शिरःसम्पाते पतितो मृतश्च शृगालः । देवशर्मापि
भाषाटीकासमेतम् । ( ६३ )
तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषा-
ढभूतिं न पश्यति ततश्च औत्सुक्येन शौचं विधाय यावत्
कन्थामालोकयति तावत् मात्रां न पश्यति । ततश्च “हा !
हा ! मुषितोऽस्मीति” जल्पन् पृथिवीतले मूर्च्छया निप-
पात । ततः क्षणात् चेतनां लब्ध्वा भूयोऽपि समुत्थाय
फूत्कर्त्तुमारब्धः। “भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ।
तद्देहि मे प्रतिवचनम्” । एवं बहु विलप्य तस्य पदपद्धतिम-
न्वेषयञ्छनैः शनैः प्रस्थितः । अथ एवं गच्छन् सायन्तनसमये
कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभा-
र्यो मद्यपानकृते समीपवर्त्तिनि नगरे प्रस्थितः । देवशर्मोपि
तमालोक्य प्रोवाच--“भो भद्र ! वयं सूर्योढा अतिथयस्त-
द्वान्तिकं प्राप्ता न कमपि अत्र ग्रामे जानीमः । तद्गृह्यताम-
तिथिधर्मः । उक्तञ्च--
सो तुझ व्रतग्रहणके उपरान्त मठके द्वारे तृणके कुटीमे प्रवेश करना
चाहिये”। वह बोला--“भगवन् ! आपकी आज्ञा प्रमाण है दूसरे लोकमे मग
लहो यही मेरा प्रयोजन है” सो शयनकी प्रतिज्ञा कर देवशर्मा अनुग्रहकर
शास्त्रोक्त विधिसे उसको शिष्य करता भया । वहभी हाथ पैर आदि दाबनेकी
परिचर्यासे उसको संतुष्ट करता हुआ, इसपरभी वह मुनि बगलसे मात्राको न
त्यागता । तब कुछ समय बीतनेपर आषाढ भूति विचार करनेलगा, “अहो
किसीप्रकारसेभी यह मेरे विश्वासको प्राप्त नहीं होताहै। सो क्या दिनमें शस्त्रसे
मारू या इसको विषदू या पशुकी समान मारडालू” । यह उसके विचारकरनेपर
देवशर्माके शिष्यका पुत्र कोई ग्रामसे निमन्त्रण करनेको आया और बोला--
“भगवन् ! यज्ञोपवीत देनेके निमित्त मेरे घर आइये”। यह सुन देवशर्मा
आषाढभूतिके साथ प्रसन्न मन हो चला । तब उनके जातेमें कोई नदी आगे
आई । उसको देखकर मात्राको बगलमेंसे निकाल गुदडीमें छिपाय रख स्नान-
कर देवार्चनविधिकर आषाढभूतिसे यह बोला--“हे आषाढभूति ! जबतक मैं
पुरीष त्यागन करआऊ तबतक यह मुझ योगेश्वरकी गुदडी सावधानतासे रक्षा
करना” यह कह गया । आषाढभूतिभी उसके अदर्शन होनेमें उस मात्राको