सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ४२८ ) पञ्चतन्त्रम् ।

( ४२८ ) पञ्चतन्त्रम् ।
सो धिक् मूर्ख ! जो तैने स्त्रीके निमित्त इस कार्यके अनुष्ठानका आरम्भ
किया । किसी प्रकार स्त्रियोंका विश्वास न करे । कहा है-
यदर्थे स्वकुलं त्यक्तं जीविताद्धंश्च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः । ४७॥
जिसके निमित्त कुल त्यागन किया आधा जीवन नष्ट किया वह स्नेह-
रहित होकर मुझको त्यागन करती है कौन मनुष्य स्त्रीका विश्वास करे ॥४७॥
मकर आह-"कथमेतत् ?'' वानर आह-
मकर बोला-"यह कैसी कथा ?'' वानर बोला-
कथा ६.
अस्ति कस्मिंश्चित् अधिष्ठाने कोऽपि ब्राह्मणः । तस्य च
भार्य्या प्राणेभ्योऽपि अतिप्रिया आसीत् । सापि प्रतिदिनं
कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः
कलहमसहमानो भार्य्यावात्सल्यात् स्वकुटुम्बं परित्यज्य
ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये
ब्राह्मण्या अभिहितः,-"आर्य्यपुत्र ! तृष्णा मां बाधते । तदु-
दकं क्वापि अन्वेषय" । अथ असौ तद्वचनानन्तरं यावत्
उदकं गृहीत्वा समागच्छति तावत् तां मृतामपश्यत् । अति-
वल्लभतया विषादं कुर्वन् यावत् विलपति तावत् आकाशे
वाचं शृणोति । तथा हि "यदि ब्राह्मण त्वं स्वकीयजीवित-
स्यार्द्धं ददासि, ततः ते जीवति ब्राह्मणी" । तत् श्रुत्वा ब्राह्म-
णेन शुचीभूय तिसृभिर्वाचाभिः स्वजीविताद्धं दत्तम् । वाक्-
सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा
वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचित
नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम्
अभिहितवान्-"भद्रे ! यावत् अहं भोजनं गृहीत्वा समाग-
च्छामि तावत् अत्र त्वया स्थातव्यम्" इत्यभिधाय ब्राह्मणो
नगरमध्ये जगाम । अथ तस्यां पुष्पवाटिकायां पंगुः अर-

भाषाटीकासमेतम् । (४२९)
घट्टं खेलयन् दिव्यगिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमे-
षुणा अर्दितया ब्राह्मण्या तत्सकाशं गत्वा अभिहितम्-“भद्र!
यदि मां न कामयसे, तत् मत्सक्ता स्त्रीहत्या तव भविष्यति"
पंगुरब्रवीत्,-“किं व्याधिग्रस्तेन मया करिष्यसि ?” सा
अब्रवीत्,-“किमनेन उक्तेन अवश्यं त्वया सह मया संगमः
कर्त्तव्यः”। तत् श्रुत्वा तथा कृतवान् । सुरतानन्तरं सा अब्र-
वीत्-“इतः प्रभृति यावज्जीवं मया आत्मा भवते दत्तः।
इति ज्ञात्वा भवानपि अस्माभिः सह आगच्छतु”। सोऽब्र-
वीत्-“एवमस्तु,” अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य
तया सह भोक्तुम् आरब्धः। सा अब्रवीत्-“एष पंगुः बुभुक्षि-
तः तदेतस्यापि कियन्तमपि ग्रासं देहि” इति । तथा
अनुष्ठिते ब्राह्मण्या अभिहितम्-“ब्राह्मण ! सहायहीनः त्वं
यदा ग्रामान्तरं गच्छसि, तदा मम वचनसहायोऽपि नास्ति
तत् एनं पंगुं गृहीत्वा गच्छावः ?”। सोऽब्रवीत्-“न शक्नोमि
आत्मानमपि आत्मना वोढुं किं पुनः एनं पंगुम् ?” सा अब्र-
वीत्-“पेटाभ्यन्तरस्थं एनमहं नेष्यामि”। अथ तत्कृतकवच-
नव्यामोहितचित्तेन तेन प्रतिपन्नं, तथा अनुष्ठिते अन्यस्मिन्
दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणः तया च पंगुपुरुषासक्तया
सम्प्रेर्य्य कूपान्तः पातितः। सापि पंगुं गृहीत्वा कस्मिंश्चित्
नगरे प्रविष्टा । तत्र शुल्कचौर्य्यरक्षानिमित्तं राजपुरुषैरित-
स्ततो भ्रमद्भिः तन्मस्तकस्था पेटा दृष्ट्वा, बलात् आच्छिद्य
राजाग्रे नीता । राजा च यावत् तां उद्घाटयति, तावत् तं
पंगुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदं
एव तत्र आगता। राज्ञा पृष्टा “को वृत्तान्तः” इति । सा
अब्रवीत्,-“मम एष भर्त्ता व्याधिबाधितो दायादसमूहैः
उद्वेजितो मया स्नेहव्याकुलितमानतया शिरसि कृत्वा भव-
दीयनगरे आनीतः " तत् श्रुत्वा राजा अब्रवीत्-“ब्राह्मणि !
त्वं मे भगिनी, ग्रामद्वयं गृहीत्वा भर्त्रा सह भोगान् भुञ्जाना