सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ४७० ) पञ्चतन्त्रम् ।

( ४७० ) पञ्चतन्त्रम् ।
सुवर्णं, तन्नूनमतः परं रत्नानि भविष्यन्ति येषाम् एकतमे-
नापि दारिद्र्यनाशो भवति । तदुत्तिष्ठ अग्रे गच्छावः । किम-
नेन भारभूतेनापि प्रभूतेन” । स आह,-“गच्छतु भवान् !
अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि” । तथानुष्ठिते सोऽपि
गच्छन् एकाकी ग्रीष्मार्कप्रतापसन्तप्ततनुः पिपासाकुलितः
सिद्धिमार्गच्युत इतश्चेतश्च बभ्राम । अथ भ्राम्यन् स्थलोपरि
पुरुषमेकं रुधिरप्लावितगात्रं भ्रमच्चक्रमस्तकमपश्यत् । ततो
द्रुततरं गत्वा तम् अवोचत्,-“भोः ! को भवान् ? किमेवं
चक्रेण भ्रमता शिरसि तिष्ठसि ? । तत्कथय मे यदि कुत्र-
चित् जलमस्ति ?” । एवं तस्य प्रवदतः तच्चक्रं तत्क्षणात्
तस्य शिरसो ब्राह्मणमस्तके चटितम् । स आह--“भद्र !
किमेतत् ?” स आह,-“मन्ममापि एवमेव एतत् शिरसि
चटितम्” । स आह-“तत्कथय, कदा एतत् उत्तरिष्यति ? ।
महती मे वेदना वर्त्तते” । स आह,-“यदा त्वमिव कश्चिद्
धृतसिद्धिवर्त्तिः एवमागत्य त्वाम् आलापयिष्यति तदा तस्य
मस्तके चटिष्यति” । आह,-“कियान् कालस्तव एवं स्थि-
तस्य?” । स आह,-“साम्प्रतं को राजा धरणीतले ?” स
आह,-“वीणावत्सराजः”। स आह,-“अहं तावत् कालसं-
ख्यां न जानामि । परं यदा रामो राजा आसीत् तदाहं
दारिद्र्योपहतः सिद्धिवर्त्तिमादाय अनेन पथा समायातः ।
ततो मया अन्यो नरो मस्तकधृतचक्रो दृष्टः पृष्टश्च । ततश्च
एतत् जातम्” । स आह,-“भद्र ! कथं तव एवं स्थितस्य
भोजनजलप्राप्तिः आसीत् ?” । स आह,-“भद्र ! धनदेन
निधानहरणभयात् सिद्धानामेतत् भयं दर्शितं तेन कश्चिदपि
न आगच्छति । यदि कश्चित् आयाति स क्षुत्पिपासानिद्रा-
रहितो जरामरणवर्जितः केवलमेवं वेदनाम् अनुभवतीति ।
तदाज्ञापय मां स्वगृहाय,” इत्युक्त्वा गतः । अथ तस्मिन् चि-
रयति स सुवर्णसिद्धिः तस्य अन्वेषणपरः तत्पदपंक्त्या यावत्

भाषाटीकासमेतम् । (४७१)

किञ्चित् वनान्तरम् आगच्छति तावत् स रुधिरप्लावितश-
रीरः तीक्ष्णचक्रेण मस्तके भ्रमता सबेदनः क्वणन् उपविष्टः
तिष्ठति। तत्समीपवर्तिना भूत्वा सबाष्पं पृष्टः- "भद्र ! किमे-
तत् ?" स आह,-विधिनियोगः"। स आह,-"कथं तत्
कथय कारणमेतस्य"। सोऽपि तेन पृष्टः सर्वं चक्रवृत्तान्तम्
अकथयत् । श्रुत्वा असौ तं विगर्हयन् इदमाह । "भो ! नि-
षिद्धः त्वं मया अनेकशो न शृणोषि मे वाक्यम् । तत् किं
क्रियते ! विद्यावानपि कुलीनोऽपि बुद्धिरहितः। अथवा साधु
इदमुच्यते-
भैरवानन्दभी उनकी सिद्धिके निमित्त बहुतसे उपाय सोच चार सिद्ध वत्तीं
बनाकर अर्पण करता हुआ । और बोला-"हिमालयकी ओर जावो । वहां
जानेमें जहा बत्ती गिरजाय, वहा अवश्य धनको प्राप्त होगे वह स्थान खोदकर
धन ग्रहण कर प्रकाश करोगे" ऐसा करनेपर जाते हुए उनमेसे एकके हाथसे
बत्ती गिर पडी, तब वह उस स्थानको खोदने लगा तो ताम्रमयी भूमि
दृष्टिगोचर हुई । तब उसने कहा-"अहो ! अपनी इच्छासे ताम्रग्रहण करो"।
और बोले"रे मूढ ! इसे लेकर क्या करेंगे । बडा दरिद्र तो नाश न होगा । सो
उठो आगे चलो"। वह बोला,-"तुम जाओ मै तो आगे न जाऊगा" ।
ऐसा कह यथेच्छ ताम्र ग्रहण कर पहला निवृत्त हुआ वे तीन आगे चले । तब
कुछ दूर आगे चलकर और वत्ती गिरी । वहभी जब खोदने लगा तब चादी-
की भूमि मिली । तब प्रसन्न होकर बोला-"भो ! यथेच्छ चादी ग्रहण करो
आगे मत चलो" वह बोले-"भो ! पीछे ताम्रमयी भूमी यहा चांदीकी । सो
अवश्य आगे सुवर्णकी भूमी होगी। सो इस बहुतसेभी दरिद्र नाश न होगा सो
हम दोनो आगे जाते हैं" ऐसा कहकर दोनों आगे चले । वहभी अपनी शक्तिसे
चादीको लेकर निवृत्त हुआ । उन दोनोंके चलनेपर आगे फिर बत्ती गिरी ।
वह प्रसन्न होकर जब खोदने लगे तब सुवर्णभूमिको देख दूसरेसे बोला-"भो !
अपनी इच्छासे सुवर्ण ग्रहण करो । सुवर्णसे और कुछ उत्तम न होगा" । वह
बोला-"मूर्ख ! तू कुछ नहीं जानता पहले तावा फिर चादी फिर सोना, अब
इसके आगे अवश्य रत्न होंगे । जिनके पानेमें एकसेही दरिद्रका नाश होजायगा ।