सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ८२ ) पञ्चतन्त्रम् ।

( ८२ ) पञ्चतन्त्रम् ।
“मित्र ! इन चारोंमें अथवा अन्य सहस्रों उपायोंसेभी मेरा दुःख असाध्य
है इस कारण मेरे मरणमें वृथा समयका बिताना मतकरो”। रथकार बोला-
“मित्र ! यद्यपि असाध्य है, तथापि निवेदन तो कर जिससे मैंभी उसे असाध्य
मानकर तेरे संग अग्निमें प्रवेश करूं क्षणमात्रको. भी तुम्हारा वियोग न सहूंगा
यह मेरा निश्चय है”। कौलिक बोला-“मित्र ! जो यह कन्या हथिनीपर चढी
उस उत्सवमें देखीथी उसके दर्शन करतेही कामके कारण मेरी यह दशा हुई
सो उसकी वेदना अब नहीं सही जाती । जैसा कहा भी है-
मत्तेभकुम्भपरिणाहिनि कुंकुमार्द्रे
तस्याः पयोधरयुगे रतखेदखिन्नः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती
स्वप्स्ये कदा क्षणमवाप्य तदीयसंगम् ॥ २२०॥
मत्त हाथियोंके कुम्भकी समान परिणाहवाले केशरसे गीले उसके युगल
स्तनोंको रतिके खेदसे खिन्न हुआ मैं भुजाओंके मध्यमें कर हृदयमें रख क्षण
मात्रको उसके अंगसंगको प्राप्त होकर कब सोऊंगा ॥ २२० ॥
तथाच-
तैसेही-
रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्व
च्छीना नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकञ्चापि मध्यम् ।
कुर्वन्त्येतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं
यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम्”
लालवर्ण उसका कंदूरीकी समान अधर, कलशकी समान स्तन, गर्वको
प्राप्त यौवन, गम्भीर नाभि, स्वभावसेही कुटिल बाल, पतली कमर इतनी
वस्तु विचारतेही हठसे मनमें खेद उत्पन्न करतीही हैं और जो उसके स्वच्छ
विमल कपोलको मैं वारंवार चिन्तन करताहूं वह जो मुझे जलाते हैं यह युक्त
नहीं है ॥ २२१ ॥”
रथकारोऽपि एवं सकामं तद्वचनमाकर्ण्यः सस्मितमिद-
माह-“वयस्य ! यदि एवं तर्हि दिष्ट्या सिद्धं नः प्रयोज-

भाषाटीकासमेतम् । (८३)

नम् । तदद्यैव तया सह समागमः क्रियताम्” इति । कौलिक
आह-“वयस्य ! यत्र कन्यान्तःपुरे वायुं मुक्त्वा न अन्यस्य
प्रवेशोऽस्ति तत्र रक्षापुरुषाधिष्ठिते कथं मम तया सह समा-
गमः । तत् किं मां असत्यवचनेन विडम्बयसि ?” । रथकार-
आह-“मित्र ! पश्य मे बुद्धिवलम्” । एवमभिधाय तत्क्ष-
णात् कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शं-
खचक्रगदापद्मान्वितं सकिरीटकौस्तुभं अघटयत् । ततः
तस्मिन् कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चर-
णविज्ञानञ्च दर्शयित्वा प्रोवाच-“वयस्य ! अनेन विष्णुरूपेण
गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभू-
मिकाप्रासादान्तर्गतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां
स्वकीयमिथ्यावक्रोक्तिभिः रञ्जयित्वा वात्स्यायनोक्तविधिना
भज”। कौलिकोऽपि तदाकर्ण्य तथारूपः तत्र गत्वा तामाह-
“राजपुत्रि ! सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात्
सानुरागो लक्ष्मीं विहाय एव आगतः । तत् क्रियतां मया
सह समागमः” इति । सापि गरुडारूढं चतुर्भुजं सायुधं
कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच-
“भगवन् ! अहं मानुषी कीटिकाऽशुचिः भगवान् त्रैलोक्य-
पावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ?” । कौलिक आह-
“सुभगे ! सत्यमभिहितं भवत्या परं किन्तु राधा नाम मे
भार्या गोपकुलप्रसूता प्रथममासीत् सा त्वं अत्र अव-
तीर्णा । तेन अहमत्र आयातः” । इति उक्ता सा प्राह-
“भगवन् ! यदि एवं तत् मे तातं प्रार्थय सोऽपि अविकल्पं
मां तुभ्यं प्रयच्छति”। कौलिक आह--“सुभगे ! न अहं
दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम्, त्वं
गान्धर्वेण विवाहेन आत्मानं प्रयच्छ । नो चेत् शापं दत्त्वा
सान्वयं ते पितरं भस्मसात् करिष्यामि” इति। एवमभिधाय
गरुडादवतीर्य सव्ये पाणौ गृहीत्वा, तां सभयां सल