सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ४९८ ) पञ्चतन्त्रम् ।

( ४९८ ) पञ्चतन्त्रम् ।
शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवर्त्तिन्यां प्रविष्टः । तत्र तृण-
प्राचुर्य्युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालाः
तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं
गताः।केचित् बन्धनानि त्रोटयित्वा अर्द्धदग्धशरीरा इतश्चेतश्च
हेषायमाणा धावमानाः सर्वमपि जनसमूहम् आकुलीचक्रुः ।
अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय
प्रोवाच,-"भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चित् दाहो-
पशमनोपायः"। तेऽपि शास्त्राणि विलोक्य प्रोचुः,-"देव !
प्रोक्तमत्र विषये भगवता शालिहोत्रेण । यत्-
तब उसके जानेमें एक दिन वह मेष रसोईमें आया तबही सूपकारोंने और
कुछ न पाकर आधे जलते काष्ठसे ताडित किया, प्रज्वलित शरीर शब्द करता
हुआ समीपवर्ती अश्वशालामें प्रविष्ट हुआ । वह बहुत तृण रक्खी हुई भूमिमें
सब स्थानमें उसके लोटनेसे इसप्रकार अग्नि ज्वाला लग उठी कि किसी घोडेकी
आंख फूट गई, कोई मरगये, कोई बन्धनको तोडकर अधजले शरीर इधर उधर
हींसते दौडते सबही जनसमूहोंको व्याकुल करते हुए । इसी समय राजा
विषाद पूर्वक शालिहोत्रके ज्ञानवाले वैद्योंको बुलाकर बोला,-"भो ! इन घोडों
की दाहशान्तिका कोई उपाय कहो"। वेभी शास्त्र देखकर बोले-"देव ! इस
विषयमें भगवान् शालिहोत्रने कहा है-
कपीनां मेदसा दोषो वह्निदाहसमुद्भवः ।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ८० ॥
घोडोंके अग्निदाहसे उत्पन्न हुआ दोष वानरोंकी चरबीसे इस प्रकार नष्ट
हो जाता है जैसे सूर्यके उदयमे अन्धकार ॥ ८० ॥
तत् क्रियताम् एतत् चिकित्सितं द्राक् यावत् एते न दाह-
दोषेण विनश्यन्ति"। सोऽपि तदाकर्ण्य समस्तवानरवधम्
आदिष्टवान् । किं बहुना सर्वेपि ते वानरा विविधायुधलगु-
डपाषाणादिभिः व्यापादिता इति । अथ सोऽपि वानरयूथपः
तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषादम्
उपागतः। स त्यक्ताहारक्रियो वनात् वनं पर्य्यटति, अचि-
न्तयच्च,"कथमहं तस्य नृप\पसदस्य अनृणताकृत्येन अपकृत्यं
करिष्यामि । उक्तञ्च-

भाषाटीकासमेतम् । (४९९)

सो शीघ्र इनकी चिकित्सा करो कि, यह जबतक दाहके दोषसे नाशको
प्राप्त न हों”। वहभी सुनकर सम्पूर्ण वानरोंके वधकी आज्ञा देता हुआ । बहुत
कहनेसे क्या है वे सबही वानर अनेक आयुध लगुड पत्थरादिसे मारे गये । तब
वह भी वानरयूथप उस पुत्र, पौत्र, भ्रातापुत्र, भानूजे, आदिका क्षय जानकर
परम विषादको प्राप्त हुआ । और भोजनको त्याग विचार करते २ इधरसे
उधर वनमें घूमने लगा । किस प्रकार मैं इस नृपनीचका अनृणता सम्पादन
(वैरका लेना) कर अपकार करूं । कहा है कि-
मर्षयेद्धर्षणं योऽत्र वंशजां परनिर्मिताम् ।
भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥ ८१ ॥”
जो इस संसारमें दूसरेके किये कुलके तिरस्कारको भय वा कामसे सहन करता
है उसे पुरुषोंमें अधम जानना उचित है ॥ ८१ ॥”
अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मि
नीखण्डमण्डितं सरः समासादितम् । तत् यावत् सूक्ष्मेक्षि-
कया अवलोकयति तावत् वनचरमनुष्याणां पदपंक्तिप्रवे-
शोऽस्ति न निष्क्रमणम् । ततः चिन्तितम् “नूनं अत्र जलान्ते
दुष्टग्राहेण भाव्यम्, तत् पद्मिनीनालम् आदाय दूरस्थोऽपि
जलं पिबामि” । तथानुष्ठिते तन्मध्यात् राक्षसो निष्क्रम्य
रत्नमालाविभूषितकण्ठः तमुवाच,-“भो अत्र यः सलिले प्रवेशं
करोति स मे भक्ष्य इति । तत् नास्ति धूर्त्ततरस्त्वत्समोऽन्यो
यत् पानीयम् अनेन विधिना पिबसि । ततः तुष्टोऽहम्, प्रार्थ-
यस्व हृदयवाञ्छितम्” कपिराह,-“भोः! कियती ते भक्षण-
शक्तिः,” स आह- “शतसहस्रायुतलक्षाणि अपि जलप्रवि-
ष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां दूषयति”। वानर
आह-“अस्ति मे केनचित् भूपतिना सह अत्यन्तं वैरम्, यदि
एनां रत्नमालां मे प्रयच्छसि तत् सपरिवारमपि तं भूपतिं
वाक्प्रपञ्चेन लोभयित्वा अत्र सरसि प्रवेशयामि” । सोऽपि
श्रद्धेयं व वस्तथ्यं श्रुत्वा रत्नमालां दत्त्वा प्राह,-“भो मित्र !
यत् समुचितं भवति तत् कर्त्तव्यम्” इति। वानरोऽपि रत्नमा
लाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रमन् जनैः दृष्टः पृष्टश्च-