सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ४८२ ) पञ्चतन्त्रम् ।

( ४८२ ) पञ्चतन्त्रम् ।
न तत्स्वर्गेऽपि सौख्यं स्याद्दिव्यस्पर्शनशोभने ।
कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र सम्भवः ॥ ५० ॥
वह दिव्य स्पर्शसे शुभग स्वर्गमेभी सुख नहीं है जो सुख पुरुषोको कुत्सित
जन्मस्थानमें भी होता है ॥ ५० ॥
तन्न कदाचिदपि गन्तव्यम् । अहं त्वां सुबुद्धिप्रभावेण
रक्षिष्यामि” । मण्डूक आह,-"भद्रौ ! मम तावद् एका
एव बुद्धिः पलायनपरा, तत् अहम् अन्यं जलाशयमैवैद
सभार्यो यास्यानि”। एवमुक्त्वा स मण्डूको रात्रौ एव अन्य-
जलाशयं गतः। धीवरैः अपि प्रभाते आगत्य जघन्यमध्यमो-
त्तमजलचरा मत्स्यकूर्ममण्डूककर्कटादयो गृहीताः तौ अपि
शतबुद्धिसहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं
गतिविशेषविज्ञानैः कुटिलचारेण रक्षन्तौ जाले पतितौ व्या-
पादितौ च । अथ अपराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति
प्रस्थिताः । गुरुत्वात् च एकेन शतबुद्धिः स्कन्धे कृतः । सह-
स्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मंडू-
केन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-“प्रिये !
पश्य पश्य ।
सो किसी प्रकार डरना न चाहिये । मैं तुम्हारी अपनी बुद्धिके प्रभावसे
रक्षा करूंगा”। मण्डूक बोला-“भद्रो! मेरी तो एकही बुद्धि पलायनमें है, सो मैं
तो दूसरे जलाशयको अभी भार्याके सहित जाता हू, ऐसा कहकर वह मण्डूक
रात्रिमेंही दूसरे जलाशयको चलागया । धीमरोंनेभी प्रातःकाल आकर निकृष्ट,
मध्यम,उत्तम जलचर मत्स्य,कछुए,मेंडक, केंकड़े आदि पकड़े यह दोनोंभी शत-
बुद्धि सहस्रबुद्धि भार्यासहित भागतेहुए बहुत समयतक अपनेको गतिविशेषके
विज्ञान और कुटिलाचरणसे रक्षा करतेहुए अन्तमें जालमें पडकर मारेगये । तब
: तीसरे प्रहरके समय प्रसन्न हुए वे धीमर अपने घरकी ओर चले । भारी होनेसे
एकने शतबुद्धिको कंधेपर धरा, सहस्रबुद्धिकोभी लटकाकर लेचले । तब बाव-
डीके समीप प्राप्तहुए मण्डूकने उनको इस प्रकार लेजाते देख अपनी स्त्रीसे
कहा-“प्रिये ! देखो देखो !

भाषाटीकासमेतम् । ( ४८३ )
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥”
यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मैं एक-
बुद्धि निर्मल जलमें क्रीडा करता हूं ॥ ५१ ॥”
अतोऽहं ब्रवीमि-“न एकान्ते बुद्धिरपि प्रमाणम्” । सुव-
र्णसिद्धिः आह-“यद्यपि एतदस्ति तथापि मित्रवचनम् अनु-
ल्लंघनीयम् । परं किं क्रियते । निवारितोऽपि मया न स्थितोऽ-
तिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,-
इससे मैं कहता हूं-“निरी बुद्धिकाही प्रमाण नहीं है” सुवर्णसिद्धि बोला-
“यद्यपि ऐसा है तथापि मित्रके वचन उल्लङ्घन करने नहीं चाहिये परन्तु क्या
कियाजाय, मेरे निवारण करनेपरभी तौ चञ्चळतासे न ठहरे तथा विद्याका अह-
ङ्कार किया । अथवा यह अच्छा कहा है-
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥”
धन्य मामा ! धन्य ! मेरे कहनेपरभी गीतप्रिय होनेके कारण आप स्थित न
हुए तिससे यह अपूर्व मणि बांधकर गीतका पुरस्कार प्राप्त किया ॥ ५२ ॥”
चक्रधरः प्राह,-“कथमेतत् ?” सोऽब्रवीत-
चक्रधर बोला-“यह कैसे ?” सुवर्णसिद्धि बोला-
कथा ७.
कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म ।
स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्य्य-
टति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आ-
याति । रजकोऽपि ततस्तं बन्धने न नियुनाक्ति । अथ तस्य
रात्रौ पर्य्यटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री
सञ्जाता । स च पीवरत्वात् वृत्तिभंगं कृत्वा कर्कटिकाक्षेत्रे
शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभ-
क्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित्
तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-