पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 418, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४०३ )
शक्यते तत्र गन्तुम्,तस्मात् तामपि मे भ्रातृपत्नीमत्र आनय
येन प्रणम्य तस्या आशीर्वादं गृह्णामि” । स आह,–“भो
मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् ।
तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ” । सोऽपि
तच्छ्रुत्वा सानन्दमाह,–“भद्र ! यदि एवं तत् किं विलम्ब्यते
त्वर्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे
जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच–
“भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लाव्यते मे
शरीरम्”। तत् आकर्ण्य मकरः चिन्तयामास । “असौ अगाधं
जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि
चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं,
येन अभीष्टदेवतास्मरणं करोति” । आह च,–“मित्र ! त्वं
मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्
स्मर्यतामभीष्टदेवता” । स आह,–“भ्रातः ! किं मया
तस्याः तवापि च अपकृतं ? येन मे वधोपायः चिन्तितः” ।
मकर आह,–“भोः ! तस्याः तावत् तव हृदयस्य अमृतमय-
फलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतदनु-
ष्ठितम्” । प्रत्युत्पन्नमतिः वानर आह,–“भद्र ! यदि एवं तत्
किं त्वया मम तत्र एव न व्याहृतम् । येन स्वहृदयं जम्बूको-
टरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्नया अर्पया-
मि । त्वया अहं शून्यहृदयोऽत्र कस्मात् आनीतः ?” तदा-
कर्ण्य मकरः सानन्दमाह,–“भद्र ! यदि एवं तदर्पय मे
हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति ।
अहं त्वां तमेव जम्बूपादपं प्रापयामि” । एवमुक्त्वा निवृत्य
जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतो-
पचारपूजः तीरमासादितवान्। ततश्च दीर्घतरचंक्रमणेन तमेव
जम्बूपादपमारूढः चिन्तयामास । “अहो ! लब्धाः तावत्
प्राणाः । अथवा साधु इदमुच्यते–