पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( २५० ) पञ्चतन्त्रम् ।
( २५० ) पञ्चतन्त्रम् ।
बुद्ध्या स एवायमिति आश्वस्तचित्तया स्नानखादनपानाच्छा-
दनादिना सम्मान्य तेन सह शयनतलमाश्रितया तदङ्गसं-
स्पर्शसञ्जातहर्षरोमाञ्चितगात्रया उक्तम्-“युष्मद्दर्शनमात्रानुर-
क्तया मया आत्मा प्रदत्तोऽयम् । त्वद्वर्जं अन्यो भर्त्ता मनासि
अपि मे न भविष्यतीति । तत् कस्मात् मया सह न ब्र-
वीषि”। सो ब्रवीत-“प्राप्तव्यमर्थं लभते मनुष्यः”। इत्युक्तेतयाऽ-
न्योऽयमिति मत्वा धवलगृहादुत्तार्य्य मुक्तः । स तु खण्डदेवकुले
गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्तसङ्केतको यावत्
दण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तः तेन दृष्टो रहस्यसंरक्षणा-
र्थमभिहितश्च-“को भवान् ?” सोऽब्रवीत्,-“प्राप्तव्यमर्थं
लभते मनुष्यः”। इति श्रुत्वा दण्डपाशकेन अभिहितम्,-
“यच्छून्यं, देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपि-
हि” तथा प्रतिपद्य स मतिविपर्य्यासात् अन्यशयने सुप्तः ।
अथ तस्य रक्षकस्य कन्या नियमवती नाम रूपयौवनस-
म्पन्ना कस्यापि पुरुषस्य अनुरक्ता सङ्केतं दत्त्वा तत्र शयने
सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एव अयमस्मद्वल्लभ
इति रात्रौ घनतरान्धकारव्यामोहिता उत्थाय भोजनाच्छा-
दनादिक्रियां कारयित्वा गान्धर्वविवाहेन आत्मानं विवाह-
यित्वा तेन समं शयने स्थिता विकसितवदनकमला
तमाह,-“किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति” ।
सोऽब्रवीत्,-“प्राप्तव्यमर्थं लभते मनुष्यः” इति श्रुत्वा तया
चिन्तितम्, यत्कार्य्यमसमैक्षितं क्रियते तस्य ईदृक्फलवि-
पाको भवति” इति । एवं विमृश्य सविषादया तया निःसा-
रितोऽसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्यविषय-
वासी वरकीर्त्तिर्नाम वरो महता वाद्यशब्देन आगच्छति ।
प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने
लग्नसमये राजमार्ग्यासन्नश्रेष्ठिगृहद्वारे रचितमण्डपवेदिकायां
कृतकौतुकमङ्गलवेशा वणिक्सुता अस्ति तावत् मदमत्तो
भाषाटीकासमेतम् । ( २५१ )
हस्ती आरोहकं हत्वा प्रणश्यज्जनकोलाहलेन लोकमाकुल-
यन् तमेव उद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण
सह प्रणश्य दिशो जग्मुः । अथ अस्मिन्नवसरे भयतरललो-
चनामेकाकिनीं कन्यामवलोक्य “मा भैषीरहं परित्राता”
इति सुधीरं स्थिरीकृत्य दक्षिणपाणौ संगृह्य महासाहासिक-
तया प्राप्तव्यमर्थः परुषवाक्यैः हस्तिनं निर्भर्त्सितवान् ।
ततः कथमपि दैवयोगादपयाते हस्तिनि ससुहृद्बान्धवेन
अतिक्रान्तलग्नसमये वरकीर्त्तिना आगत्य तावत् तां कन्या-
मन्यहस्तगतां दृष्ट्वा अभिहितम्-“भोः श्वशुर ! विरुद्धमिदं
त्वया अनुष्ठितं यन्मह्यं प्रदाय कन्यामन्यस्मै प्रदत्ता” इति ।
सोऽब्रवीत्,-“भो ! अहमपि हस्तिभयपलायितो भवद्भिः
सह आयातो न जाने किमिदं वृत्तम्” । इति अभिधाय
दुहितरं प्रष्टुमारब्धः, “वत्से ! न त्वया सुन्दरं कृतम् ।
तत्कथ्यतां कोऽयं वृत्तान्तः ।” साऽब्रवीत्,-“यदहमनेन
प्राणसंशयात् रक्षिता तदा एनं मुक्त्वा मम जीवन्त्या नान्यः
पाणिं ग्रहीष्यति” इति । अनेन वार्त्ताव्यतिकरेण रजनी
व्युष्टा । अथ प्रातस्तत्र संजाते महाजनसमवाये वार्त्ताव्य-
तिकरं श्रुत्वा राजदुहिता तमुद्देशमागता । कर्णपरम्परया
श्रुत्वा दण्डपाशकसुतापि तत्रैव आगता । अथ तं महाजन-
समवायं श्रुत्वा राजा अपि तत्रैव आजगाम।प्राप्तव्यमर्थं प्राह-
“भो ! विश्रब्धं कथय, कीदृशोऽसौ वृत्तान्तः,” अथ सोऽब्र-
वीत्,-“प्राप्तव्यमर्थं लभते मनुष्यः”इति । राजकन्या स्मृत्वा
प्राह,-“देवोऽपि तं लंघयितुं न शक्तः” । ततो दण्डपाशक-
सुता अब्रवीत्,-“तस्मान्न शोचामि न विस्मयो मे” इति ।
तमखिललोकवृत्तान्तमाकर्ण्य वणिक्सुताऽब्रवीत्,-“यद्-
स्मदीयं न हि तत्परेषाम्” इति । अभयदानं दत्त्वा राज्ञा
पृथक् पृथग् वृत्तान्तान् ज्ञात्वा अवगततत्त्वः तस्मै प्राप्तव्यम-
र्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वालं-