पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ९६ ) पञ्चतन्त्रम् ।
( ९६ ) पञ्चतन्त्रम् ।
जो सूर्यपुत्र (शनि) इस लोकमें रोहिणी शकटको भेदन करे तो बारह
वर्षतक इन्द्र पृथ्वीमें वर्षा नहीं करता है ॥ २३३ ॥
तथाच-
और भी-
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थिशकलकीर्णा कापालिकमिव व्रतं धत्ते ॥ २३४॥
रोहिणीका शकट शनिसे भेदित होनेसे पृथ्वीमें पातक होता है । तथा पृथ्वी
भस्म अस्थिके खण्डसे व्याप्त होकर कापालिक व्रतको धारण करती है॥२३४॥
तथाच-
और देखो--
रोहिणीशकटमर्कनन्दनश्चेद्भिनत्ति रुधिरोऽथवाशशी ।
किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति संक्षयः २३५
जो रोहिणीके शकटको शनि मंगल अथवा चन्द्रमा भेदनकरे तो इस
अनिष्ट सागरको मैं क्या कहूँ सबही लोक क्षय होजांय ॥ २३५ ॥
रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः॥
चन्द्रमाके रोहिणी शकटमें स्थित होनेसे शरण रहित होके मनुष्य बालक-
मारकर खानेवाले तथा सूर्यके तापसे भेदको प्राप्त हुए जलके पीनेवाले
कहां जांय ॥ २३६ ॥
तदेतत्सरः स्वल्पतोयं वर्त्तते । शीघ्रं शोषं यास्यति अ-
स्मिन् शुष्के यैः सह अहं वृद्धिं गतः सदैव क्रीडितश्च ते सर्वे
तोयाभावात् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुमहमस-
मर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-
जलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते,
केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव
गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति
तेनाहं विशेषात् रोदिमि यद्बीजशेषमात्रमप्यत्र न उद्धरि-
ष्यति”। ततः स तदाकर्ण्य अन्येषामपि जलचराणां तत् तस्य
भाषाटीकासमेतम् । ( ९७ )
वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छ-
पप्रभृतयस्तमभ्युपेत्य पप्रच्छुः- "माम ! अस्ति कश्चिदुपायो
येनास्माकं रक्षा भवति?” । बक आह-“अस्ति अस्य जला-
शयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डम-
ण्डितं यच्चतुर्विंशत्यापि वर्षाणामवृष्ट्या न शोषमेष्यति।
तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि"। अथ
ते तत्र विश्वासमापन्नाः तात ! मातुल ! भ्रातः ! इति ब्रुवा-
णा अहं पूर्वमहं पूर्वमिति समन्तात् परितस्थुः । सोऽपि
दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे
शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि
जलाशयं समासाद्य जलचराणां मिथ्यावार्त्तासन्देशैर्मनां-
सि रञ्जयन्नित्यामिवाहारवृत्तिमकरोत् । अन्यस्मिन् दिने च
कुलीरकेणोक्तः--“माम ! मया सह ते प्रथमः स्नेहसम्भाषः
सञ्जातः। तत् किं मां परित्यज्य अन्यान्नयसि । तस्मादद्य
मे प्राणत्राणं कुरु”। तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान् ।
“निर्विण्णोऽहं मत्स्यमांसादनेन । तदद्य एनं कुलीरकं व्यञ्जन-
स्थाने करोमि”। इति विचिन्त्य तं पृष्ठे समारोप्य तां वध्य-
शिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शि-
लाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत्--“माम!
कियद्दूरे स जलाशयः ? मदीयभारेण अतिश्रान्तस्त्वं तत्
कथय” । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न
प्रभवतीति सस्मितमिदमाह--“कुलीरक ! कुतोऽन्यो जला-
शयः मम प्राणयात्रेयम्, तस्मात् स्मर्य्यतामात्मनोऽभीष्टदे-
वता । त्वामपि अस्यां शिलायां निक्षिप्य भक्षयिष्यामि”।
इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां
मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां
समादाय शनैः शनैः तज्जलाशयमाससाद । ततः सर्वैरव
७