पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( १९४ ) पञ्चतन्त्रम् ।
( १९४ ) पञ्चतन्त्रम् ।
चटकाने कहा,-"यह सत्यहै परन्तु दुष्ट हाथीने मदसे मेरी सन्तान क्षय
करडाली सो यदि तुम मेरे सत्य सुहृद् हो तो इस नीच हाथीका कोई वधोपाय
चिन्तन करो जिसके करनेसे मेरी सन्ताननाशका दुःख दूरहो । कहाहै-
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ३६६ ॥”
जिसने आपत्तिमें बुरा किया, दुःखदशामें जिसने हास्य किया उन दोनोंका
अपकार करके मैं मनुष्यका फिर जन्म होना मानता हूं ॥ ३६६ ॥"
काष्ठकूट आह-"भगवति ! सत्यमभिहितं भवत्या। उक्तञ्च-
खुटबढई बोला--"भगवति ! तुमने सत्य कहा । कहा भी है--
स सुहृद्व्यसने यः स्यादन्यजात्युद्भवोऽपि सन् ।
वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ॥ ३६७ ॥
चाहे अन्य जातिका है पर दुःखमें जो सहाय करे वही सुहृद् है वृद्धिमें सब
देहधारियोंके सब मित्र होते हैं ॥ ३६७ ॥
स सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् ।
स भृत्यो यो विधेयज्ञः सा भार्य्या यत्र निर्वृतिः ॥३६८॥
वही सुहृद् है जो दुःखमें साथ दे, वही पुत्र है जो भक्तिमान् है, वही भृत्य
है जो विधिका जाननेवाला है और वही भार्य्या है जिससे सुख हो ॥ ३६८ ॥
तत्पश्य मे बुद्धिप्रभावं, परं ममापि सुहृद्भूता वीणारवा
नाम मक्षिका अस्ति । तत् तामाहूय आगच्छामि येन स
दुरात्मा दुष्टगजो वध्यते'। अथ असौ चटकया सह मक्षि-
कामासाद्य प्रोवाच-"भद्रे ! मम इष्टा इयं चटका केनचिद्
दुष्टगजेन पराभूता अण्डस्फोटनेन तत्तस्य वधोपायमनुति-
ष्ठतो मे साहाय्यं कर्तुमर्हसि"। मक्षिकापि आह-"भद्र !
किमुच्यतेऽत्र विषये । उक्तञ्च-
सो मेरी बुद्धिके प्रभावको देखो, परन्तु मेरी एक मित्रभूत वीणारवा नामक
मक्खी है उसको बुलाकर आता हूं जिससे वह दुरात्मा दुष्ट हाथी मरे"। तब यह
चटकाके सहित मक्षिकाको प्राप्त होकर बोला,-"भद्रे ! मेरी सुहृद् यह चटका
किसी दुष्ट हाथीने अण्डे नष्ट कर तिरस्कृत की है। सो इसके वधोपायका अनु-
भाषाटीकासमेतम् । ( १५५ )
ष्ठान करनेमें मेरी सहायता करो” । मक्षिका बोली,-“भद्र ! इस विषयमें क्या
कहते हो । कहा है-
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत्पुनर्मित्रमित्रस्य कार्य मित्रैर्न किं कृतम् ॥ ३६९ ॥
फिर प्रत्युपकारके लिये मित्रोंका प्रिय किया जाता है फिर मित्रोंका कार्य
मित्र कौनसा नहीं करते सब करते हैं ॥ ३६९ ॥
सत्यमेतत् परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति,
तमपि आहूय यथोचितं कुर्मः । उक्तञ्च-
यह सत्य है, परन्तु मेरा मित्र एक मेघनाद नामक मेंडक है सो उसेभी
बुलाकर यथोचितकार्य करें, कहा है-
हितः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः ।
कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३७० ॥”
हितकारी अच्छे आचरणवाले शास्त्रज्ञाता बुद्धिमान् विद्वानोंका विचारा हुआ
कभी अन्यथा नहीं होता ॥ ३७० ॥”
अथ ते त्रयोऽपि गत्वा मेघनादस्य अग्रे समस्तमपि
वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-“कियन्मात्रोऽसौ
वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः
कर्त्तव्यः । मक्षिके ! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य
गजस्य कर्णे वीणारवसदृशं शब्दं कुरु, येन श्रवणसुखला-
लसो निमीलितनयनो भवति । ततश्च काष्ठकूटचंच्वा स्फो-
टितनयनोऽन्धीभूतः तृषार्त्तो मम गर्त्ततटाश्रितस्य सपरिक-
रस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्त्तमा-
साद्य पतिष्यति पञ्चत्वं यास्यति च । इति । एवं समवायः
कर्त्तव्यो यथा वैरसाधनं भवति” । अथ तथा अनुष्ठिते स
मत्तगजो मक्षिकागेयसुखात् निमीलितनेत्रः काष्ठकूटहतचक्षुः
मध्याह्नसमये भ्राम्यन् मण्डूकशब्दानुसारी गच्छन् महतीं
गर्त्तामासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि“चटका काष्ठ-
कूटेन” इति ।