सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ५१२ ) पञ्चतन्त्रम् ।

( ५१२ ) पञ्चतन्त्रम् ।
ऐसा कहकर अन्धेने जाकर उस पटहको स्पर्श किया । "भो ! मैं उस
कन्याको विवाहूंगा जो राजा मुझे कन्याको देगा"। तब उन राजपुरुषोंने राजा-
से जाकर कहा-"देव ! किसी अन्धेने वह घोषणाका बाजा छुआ है। सो
इसमें देवही प्रमाण है"। राजा बोला,-
अन्धो वा बधिरो वापि कुष्ठी वाप्यन्त्यजोऽपि वा ।
प्रतिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशजः ॥ ९९ ॥"
अन्धा, बहरा, कुष्ठी, अन्त्यज ( नीच ) कोईहो लाख अशरफी सहित
कन्याको ग्रहण करे और देशसे बाहर हो ॥ ९९ ॥"
अथ राजादेशात् तैः रक्षापुरुषैः तं नदीतीरे नीत्वा सुव-
र्णलक्षेण समं विवाहविधिना त्रिस्तनीं तस्मै दत्त्वा जल-
याने निधाय कैवर्त्ताः प्रोक्ताः-“भोः ! देशान्तरं नीत्वा
कस्मिंश्चित् अधिष्ठाने अन्धः सपत्नीकः कुब्जकेन सह
मोचनीयः” । तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चित्
अधिष्ठाने कैवर्त्तदर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन
कालं नयन्ति स्म, केवलम् अन्धः पर्य्यङ्के सुप्तः तिष्ठति ।
गृहव्यापारं मन्थरकः करोति, एव गच्छता कालेन त्रिस्त-
न्याः कुब्जकेन सह विकृतिः समपद्यत । अथवा साधु इद-
मुच्यते,-
तब राजाकी आज्ञासे उन राजपुरुषोंने उसे नदीके किनारे लेजाकर लाख
सुवर्णके साथ ही विवाह विधिसे वह तीन स्तनकी कन्या उसे देकर नावमें
बैठाय मल्लाहोंसे कहा-“भो ! इन्हें देशान्तरमें लेजाकर किसी स्थानमें स्त्रीसहित
अन्धे कुबडेको छोडदो” ऐसा करनेपर विदेशको प्राप्त हो कैवर्तकके दिखाये किसी
स्थानमें वे तीनों मूल्यके साथ घरको प्राप्त हुए सुखसे समयको बिताने लगे ।
केवल अन्धा पलंगके ऊपर सोताही रहता । घरका कार्य्य कुबडा करता इस
प्रकार समय जाते त्रिस्तनीके साथ लगडेका व्यभिचार प्रगट हुआ । अथवा
यह अच्छा कहा है-
यदि स्याच्छीतलो वह्निश्चन्द्रमा दहनात्मकः ।
सुस्वादुः सागरः स्त्रीणां तत्सतीत्वं प्रजायते ॥ १०० ॥
जो अग्नि शीतल चन्द्रमा जलनेवाला और सागर स्वादिष्ट हो तौ
कदाचित् स्त्रियोंमें सतीत्व होजाय ॥ १०० ॥

भाषाटीकासमेतम् । ( ५१३ )

अथ अन्येद्युः त्रिस्तन्या मन्थरोऽभिहितः। "भोः सुभग !
यदि एषः अन्धः कथञ्चिद्यापाद्यते तत् आवयोः सुखेन
कालो याति, तदन्विष्यतां कुत्रचित् विषं येन अस्मै तत्प्रदाय
सुखिनी भवामि” । अन्यदा कुब्जकेन परिभ्रमता मृतः
कृष्णसर्पः प्राप्तः। तं गृहीत्वा प्रहृष्टमना गृहमभ्येत्य तामाह,-
“सुभगे ! लब्धोऽयं कृष्णसर्पः । तदेनं खण्डशः कृत्वा प्रभूत-
शुण्ठ्यादिभिः संस्कार्य्य अस्मै विकलनेत्राय मत्स्यामिषं
भणित्वा प्रयच्छ येन द्राक् विनश्यति यतोऽस्य मत्स्यस्य
आमिषं सदा प्रियम्”। एवमुक्त्वा मन्थरो बाह्ये गतः ।
सापि प्रदीप्ते वह्नौ कृष्णसर्पं खण्डशः कृत्वा तक्रम् आदाय
गृहव्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच,-“आर्य्य-
पुत्र ! तव अभीष्टं मत्स्यमांसं समानीतं यतः त्वं सदा एव
तत् पृच्छसि । ते च मत्स्या वह्नौ पाचनाय तिष्ठन्ति । तद्या-
वत् अहं गृहकृत्यं करोमि तावत् त्वं दर्वीम् आदाय क्षणमेकं
तान् प्रचालय” । सोऽपि तदाकर्ण्य हृष्टमनाः सृक्वणी परि-
लिहन् द्रुतम् उत्थाय दर्वीं आदाय प्रमथितुमारब्धः । अथ
तस्य मत्स्यान् मथतो विषगर्भबाष्पेण संस्पृष्टं नीलपटलं चक्षु-
र्भ्याम् अगलत् । असौ अपि अन्धो बहुगुणं मन्यमानो
विशेषात् नेत्राभ्यां बाष्पग्रहणम् अकरोत् । ततो लब्धदृष्टि-
र्जातो यावत् पश्यति तावत्तक्रमध्ये कृष्णसर्पखण्डानि केव-
लानि एव अवलोकयति । ततो व्यचिन्तयत,-“अहो !
किमेतत् ? मम मत्स्यामिषं कथितमासीदनया, एतानि
तु कृष्णसर्पखण्डानि । तत् तावत् विजानामि सम्यक्
त्रिस्तन्याः चेष्टितं किं मम वधोपायक्रमः कुब्जस्य वा,
उताहो अन्यस्य वा कस्यचित् ?” एवं विचिन्त्य स्वाकारं
गृह्णन् अन्धवत् कर्म करोति यथा पुरा। अत्रान्तरे कुब्जः समा-
गत्य निःशंकतया आलिंगनचुम्बनादिभिः त्रिस्तनीं सेवि-
तुम् उपचक्रमे। सोऽपि अन्धः तम् अवलोकयन् अपि यावत् न
३३