पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४८६ ) पञ्चतन्त्रम् ।
( ४८६ ) पञ्चतन्त्रम् ।
तत् कथं भगिनीसुत ! माम् अनभिज्ञं वदन् निवार-
यसि ?” । शृगाल आह,-“माम ! यदि एवं तदहं तावद्
वृतेः द्वारस्थितः क्षेत्रपालम् अवलोकयामि । त्वं पुनः
स्वेच्छया गीतं कुरु” । तथा अनुष्ठिते रासभरटनम् आकर्ण्य
क्षेत्रपः क्रोधात् दन्तान् घर्षयन् प्रधावितः । यावत् रासभो
दृष्टः तावत् लगुडप्रहारैः तथा हतो, यथा प्रताडितो
भूपृष्ठे पतितः । ततश्च सच्छिद्रम् उलूखलं गले बद्धा क्षेत्र-
पालः प्रसुप्तः । रासभोऽपि स्वजातिस्वभावात् गतवेदनः
क्षणेन अभ्युत्थितः ।
हे मान्जे ! सो तू मुझे अनभिज्ञ किस प्रकार कहकर निवारण करता
है” । शृगाल बोला,-“जो ऐसा है तो मैं वृति के द्वार पर स्थित हुआ क्षेत्रपाल को
अवलोकन करूं । तू अपनी इच्छा से गीत का गान कर” । ऐसा करने पर
गधे का शब्द सुनकर क्षेत्रपाल क्रोध से दांत पीसता धावमान हुआ और गधे को
देखते ही इस प्रकार लगुड प्रहार से ताडन किया कि वह ताडित हो पृथ्वी पर
गिर पड़ा । तब सछिद्र उलूखल को उसके गले में बांधकर क्षेत्रपाल सो गया ।
और गधा भी जातिस्वभाव से वेदना रहित हो क्षणमात्र में उठ बैठा ।
उक्तञ्च-
कहा है-
“सारमेयस्य चाश्वस्य रासभस्य विशेषतः ।
मुहूर्तात्परतो न स्यात्प्रहारजनिता व्यथा ॥ ५९ ॥”
“कि कुत्ता घोडा और विशेष कर गधा एक मुहूर्त से पीछे इनको प्रहार की
व्यथा नहीं होती है ॥ ५९ ॥”
ततः तदेव उलूखलम् आदाय वृतिं चूर्णयित्वा पलायि-
तुम् आरब्धः । अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मि-
तम् आह-
इस कारण उसी उलूखल को लेकर उस वाड को तोड भागने लगा । इसी
समय शृगाल भी दूर से उसे देख हँसता हुआ बोला,-
“साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ६० ॥”
भाषाटीकासमेतम् । (४८७)
“धन्य मामा ! मेरे कहे हुए गीतसेभी आप यथेष्ट स्थित न हुए यह अपूर्व
मणि वाव ली भला गीतका लक्षण प्राप्त हुआ ॥ ६० ॥”
तद्भगवानपि मया वार्यमाणोऽपि न स्थितः ” । तत्
श्रुत्वा चक्रधर आह,-“भो मित्र ! सत्यमेतत् । अथवा साधु
इदमुच्यते-
इसी कारण तुमभी मेरे निवारण करनेसे स्थित न हुए”। यह सुन चक्रधर
बोला,-“भो मित्र ! यह सत्य है । अथवा यह अच्छा कहा है-
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थरकौलिकः ॥ ६१ ॥”
जिसको स्वयं बुद्धि नहीं और मित्रका कहा नहीं करता है वह मन्थर कौलि-
ककी समान निधनको प्राप्त होता है ॥ ६१ ॥”
सुवर्णसिद्धिः आह-“कथमेतत् ?” सोऽब्रवीत्-
सुवर्णसिद्धि बोला-“यह कैसे ?” वह बोला-
कथा ८.
कस्मिंश्चित् अधिष्ठाने मन्थरो नाम कौलिकः प्रति-
वसति स्म, तस्य कदाचित् पट्टकर्माणि कुर्वतः सर्वपट्टकर्म-
काष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं
गतः । स च समुद्रतटं यावत् भ्रमन् प्रयात:, ततश्च तत्र शिं-
शपापादपस्तेन दृष्टः। ततः चिन्तितवान् “महान् अयं वृक्षो
दृश्यते । तदनेन कर्त्तितेन प्रभूतानि पट्टकर्मोपकरणानि भवि-
ष्यन्ति”। इति अवधार्य्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ
तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित आसीत् । अथ तेन
अभिहितं-“भो ! मदाश्रयोऽयं पादपः, सर्वथा रक्षणीयो,
यतोऽहम् अत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनात
शीतवायुना आप्यायितः”। कौलिक आह-“भोः ! किमहं
करोमि, दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते ।
तस्मात् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्त्तयिष्यामि”।
व्यन्तर आह-“भोः ! तुष्टः तव अहम् । तत् प्रार्थ्यताम् अ-