पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 502, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (४८७)
“धन्य मामा ! मेरे कहे हुए गीतसेभी आप यथेष्ट स्थित न हुए यह अपूर्व
मणि वाव ली भला गीतका लक्षण प्राप्त हुआ ॥ ६० ॥”
तद्भगवानपि मया वार्यमाणोऽपि न स्थितः ” । तत्
श्रुत्वा चक्रधर आह,-“भो मित्र ! सत्यमेतत् । अथवा साधु
इदमुच्यते-
इसी कारण तुमभी मेरे निवारण करनेसे स्थित न हुए”। यह सुन चक्रधर
बोला,-“भो मित्र ! यह सत्य है । अथवा यह अच्छा कहा है-
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थरकौलिकः ॥ ६१ ॥”
जिसको स्वयं बुद्धि नहीं और मित्रका कहा नहीं करता है वह मन्थर कौलि-
ककी समान निधनको प्राप्त होता है ॥ ६१ ॥”
सुवर्णसिद्धिः आह-“कथमेतत् ?” सोऽब्रवीत्-
सुवर्णसिद्धि बोला-“यह कैसे ?” वह बोला-
कथा ८.
कस्मिंश्चित् अधिष्ठाने मन्थरो नाम कौलिकः प्रति-
वसति स्म, तस्य कदाचित् पट्टकर्माणि कुर्वतः सर्वपट्टकर्म-
काष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं
गतः । स च समुद्रतटं यावत् भ्रमन् प्रयात:, ततश्च तत्र शिं-
शपापादपस्तेन दृष्टः। ततः चिन्तितवान् “महान् अयं वृक्षो
दृश्यते । तदनेन कर्त्तितेन प्रभूतानि पट्टकर्मोपकरणानि भवि-
ष्यन्ति”। इति अवधार्य्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ
तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित आसीत् । अथ तेन
अभिहितं-“भो ! मदाश्रयोऽयं पादपः, सर्वथा रक्षणीयो,
यतोऽहम् अत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनात
शीतवायुना आप्यायितः”। कौलिक आह-“भोः ! किमहं
करोमि, दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते ।
तस्मात् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्त्तयिष्यामि”।
व्यन्तर आह-“भोः ! तुष्टः तव अहम् । तत् प्रार्थ्यताम् अ-