सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 519, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 519

( ५०४ ) पञ्चतन्त्रम् ।

सुवर्णसिद्धि बोला,-“भो ! यह सत्य है यदि सुगम स्थानमें शक्ति होती
है तो । और यह तो मनुष्योंको अगम्य स्थान है किसीमें भी तुझे छुडानेकी
शक्ति नहीं है । और ज्यो ज्यों चक्रके भ्रमणकी वेदनासे तेरे मुखका विकार
देखता हूं त्यों त्यों मैं यह जानता हू कि, शीघ्र जाऊ जिससे कोई मेरे ऊपर
अनर्थ नहो । क्योकि-
यादृशी वदनच्छाया दृश्यते तव वानर
विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ८९ ॥”
हे वानर ! जैसी तेरे मुखकी छाया दीखती है इससे जानता हूं तूभी विप-
रीत समय ( दुर्भाग्य ) से आक्रान्त हुआ है जो इस संकटसे भागे वह जिये ८९”
चक्रधर आह-“कथमेतत् ?” सोऽब्रवीत्-
चक्रधर बोला,-“यह कैसे ?” वह बोला-
कथा ११.
कस्मिंश्चित् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म ।
तस्य सर्वलक्षणसम्पन्ना रत्नवती नाम कन्या अस्ति । तां
कश्चित राक्षसो जिहीर्षति रात्रौ आगत्य उपभुङ्क्ते । परं
कृतरक्षोपधानां हर्तुं न शक्नोति । सापि तत्समये रक्षः
सान्निध्यजामवस्थां अनुभवति कम्पादिभिः । एवम् अति-
क्रामति काले कदाचित स राक्षसो मध्यनिशायां गृहकोणे
स्थितः । सापि राजकन्या स्वसखीम् उवाच,-“सखि !
पश्य एष विकालः समये नित्यमेव मां कदर्धयति अस्ति
तस्य दुरात्मनः प्रतिषेधोपायः कश्चित ?” । तच्छ्रुत्वा राक्ष-
सोऽपि व्यचिन्तयत-“नूनं यथा अहं तथा अन्योपि कश्चित
विकालनामा अस्या हरणाय नित्यमेव आगच्छति । परं
सोऽपि एनां हर्तुं न शक्नोति । तत् तावत् अश्वरूपं कृत्वा
अश्वमध्यगतो निरीक्ष्यामि किंरूपः स किम्प्रभावश्च ”
इति । एवं राक्षसोऽश्वरूपं कृत्वा अश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथसमये राजगृहे कश्चित अश्वचौरः प्रविष्टः।
स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञाय
अधिरूढः। अत्रान्तरे राक्षसः चिन्तयामास-“नूनमेष विका-