सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 484, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 484

भाषाटीकासमेतम् । ( ४६९ )
महान्त एव महतामर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ॥ ३५ ॥"
महान् पुरुषही महान् अर्थोंको साधनेमें समर्थ होते हैं समुद्रके बिना वडवा-
नल धारण करनेको कौन समर्थ हो सकता है ? ॥ ३५ ॥"
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्त्तिचतुष्टयं
कृत्वा अर्पयत् । आह, च-"गम्यतां हिमालयदिशि, तत्र
सम्प्राप्तानां यत्र वर्त्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं
प्राप्स्यथ, तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुष्य-
ताम्” । तथा अनुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद्व-
र्त्तिर्निपपात । अथ असौ यावत् तं प्रदेशं खनति तावद्
ताम्रमयी भूमिः । ततः तेन अभिहितम्-"अहो ! गृह्यतां
स्वेच्छया ताम्रम्” । अन्ये प्रोचुः, - "भो मूढ ! किमनेन
क्रियते ? तत् प्रभृतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ
अग्रतो गच्छामः” । सोऽब्रवीत्,- “यान्तु भवन्तो न अहमग्रे
यास्यामि” । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा
प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चि-
न्मात्रं गतस्य अग्रेसरस्य वर्त्तिः निपपात । सोऽपि यावत्
खनितुम् आरब्धः तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः
प्राह, - "यत् भो ! गृह्यतां यथेच्छया रूप्यम् । न अग्रे गन्त-
व्यम्” । तौ ऊचतुः-"भोः ! पृष्ठतः ताम्रमयी भूमिरग्रतो
रूप्यमयी । तत् नूनम् अग्रे सुवर्णमयी भविष्यति । तदनेन
प्रभूतेनापि दारिद्र्यनाशो न भवति । तत् आवाम् अग्रे या-
स्यावः” । एवमुक्त्वा द्वौ अपि अग्रे प्रस्थितौ । सोऽपि स्वशक्त्या
रूप्यम् आदाय निवृत्तः । तयोरपि गच्छतोः एकस्य अग्रे
वर्त्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्ण-
भूमिं दृष्ट्वा द्वितीयं प्राह,-"भो ! गृह्यतां स्वेच्छया सुवर्णम्
सुवर्णादन्यत् न किञ्चित् उत्तमं भविष्यति” । स प्राह,-
"मूढ ! न किञ्चित् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः