पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( २६४ ) पञ्चतन्त्रम् ।
( २६४ ) पञ्चतन्त्रम् ।
सोमिलक आह–"यद्यपि भोगो नास्ति तथापि तद्भवतु । उक्तञ्च–
सोमिलक बोला–"यद्यपि भोगनहीं है तथापि धनहो । कहा है–
कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जितः सदा ।
सेव्यते स नरो लोके यस्य स्याद्वित्तसञ्चयः ॥ १४५ ॥
कृपण, अकुलीन, सज्जनोंसे सदा वर्जितभी धनी मनुष्यको लोकमें सब कोई
सेवन करते हैं ॥ १४५ ॥
तथाच–
ओर देखो–
शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥
हे भद्रे ! मैंने पन्द्रहवर्षतक शिथिल दृढ पतित होते अपतित वृषण
देखे हैं ॥ १४६ ॥
पुरुष आह–"किमेतत् ?" सोऽब्रवीत्–
पुरुष बोला,–"यह कैसी कथा ?" वह बोला–
कथा ६.
कस्मिंश्चित् अधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः
प्रतिवसति स्म, स च मदातिरेकात् परित्यक्तनिजयूथः
शृङ्गाभ्यां नदीतटानि विदारयन् स्वेच्छया मरकतसदृशानि
शष्पाणि भक्षयन् अरण्यचरो बभूव । अथ तत्र एव वने
प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्वभा-
र्य्यया सह नदीतीरे सुखोपविष्टः तिष्ठति । अत्रान्तरे स
तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य
लम्बमानौ वृषणौ अवलोक्य शृगाल्या शृगालोऽभिहितः–
"स्वामिन् ! पश्य अस्य वृषभस्य मांसपिण्डौ लम्बमानौ
यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं
ज्ञात्वा भवता पृष्ठमनुयायिना भाव्यम्" । शृगाल आह–
"प्रिये ! न ज्ञायते कदा एतयोः पतनं भविष्यति वा न वा ।
भाषाटीकासमेतम् । (२६६)
तत् किं वृथा श्रमाय मां नियोजयसि । अत्रस्थः तावज्जला-
र्थमागतान् मूषकान् भक्षयिष्यामि समं त्वया मार्गोऽयं यतः
तेषाम् । अपरं यदि त्वां मुक्त्वा अस्य तीक्ष्णविषाणस्य वृष-
भस्य पृष्ठे गमिष्यामि तदा आगत्य अन्यः कश्चिदेतत् स्थानं
समाश्रयिष्यति । न एतत् युज्यते कर्तुम् । उक्तञ्च-
किसी एक स्थानमें तीक्ष्ण शृङ्गनामवाला बैल रहता था वह मदकी अधि-
कतासे अपने यूथको त्यागने किये शृंगोंसे नदीतटको विदीर्ण करता हुआ
अपनी इच्छासे मरकतमणीकी समान घास खाता वनचारी भया । उसी वनमें
प्रलोभक नाम शृगाल रहता था । वह कभी अपनी भार्याके सहित नदीके
किनारे सुखसे बैठाथा, इसी समय तीक्ष्णशृङ्ग जलपानके निमित्त नदीके तटपर
आया । तब उसके लम्बायमान अण्डकोष देखकर शृगालीने शृगालसे कहा,-
“स्वामिन् ! इस वृषभके मासपिण्ड लम्बायमान होते हुए देखो । सो यह एकही
क्षणसे अथवा प्रहारसे गिर जायगे । ऐसा विचार कर तुम इसके पीछे फिरो” ।
शृगाल बोला- “प्रिये ! नहीं जाना जाता कि, कव इन दोनोंका पतन होगा
वा नहीं । सो क्यों वृथा श्रममें मुझको नियुक्त करती है । यहीं पर स्थित हुआ
जलपानके निमित्त आये हुए मूपकोको तेरे साथ भक्षण करूगा कारण कि, यह
उनका मार्ग है । और यदि तुझको छोडकर इस तीक्ष्णशृङ्गवाले वृषके पीछे
जाऊगा तो, आनकर और कोई इस स्थानको ग्रहण कर लेगा, सो यह करना
उचित नहीं । कहा है-
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १४७ ॥”
जो विद्यमानको छोड़कर अविद्यमानका सेवन करता है उसके ध्रुव कार्य नष्ट
होते हैं और अध्रुव नष्ट हैं हीं ॥ १४७ ॥”
शृगाली आह- “भोः कापुरुषस्त्वं यत्किञ्चित् प्राप्तं तेनापि
सन्तोषं करोषि । उक्तञ्च-
शृगाली बोली,- “भो ! कापुरुष (डरपोक) तू जो कुछ प्राप्त हुआ है उसीसे
सन्तोष करता है । कहा है-