पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 498, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४८३ )
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥”
यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मैं एक-
बुद्धि निर्मल जलमें क्रीडा करता हूं ॥ ५१ ॥”
अतोऽहं ब्रवीमि-“न एकान्ते बुद्धिरपि प्रमाणम्” । सुव-
र्णसिद्धिः आह-“यद्यपि एतदस्ति तथापि मित्रवचनम् अनु-
ल्लंघनीयम् । परं किं क्रियते । निवारितोऽपि मया न स्थितोऽ-
तिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,-
इससे मैं कहता हूं-“निरी बुद्धिकाही प्रमाण नहीं है” सुवर्णसिद्धि बोला-
“यद्यपि ऐसा है तथापि मित्रके वचन उल्लङ्घन करने नहीं चाहिये परन्तु क्या
कियाजाय, मेरे निवारण करनेपरभी तौ चञ्चळतासे न ठहरे तथा विद्याका अह-
ङ्कार किया । अथवा यह अच्छा कहा है-
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥”
धन्य मामा ! धन्य ! मेरे कहनेपरभी गीतप्रिय होनेके कारण आप स्थित न
हुए तिससे यह अपूर्व मणि बांधकर गीतका पुरस्कार प्राप्त किया ॥ ५२ ॥”
चक्रधरः प्राह,-“कथमेतत् ?” सोऽब्रवीत-
चक्रधर बोला-“यह कैसे ?” सुवर्णसिद्धि बोला-
कथा ७.
कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म ।
स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्य्य-
टति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आ-
याति । रजकोऽपि ततस्तं बन्धने न नियुनाक्ति । अथ तस्य
रात्रौ पर्य्यटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री
सञ्जाता । स च पीवरत्वात् वृत्तिभंगं कृत्वा कर्कटिकाक्षेत्रे
शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभ-
क्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित्
तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-