सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 170, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 170

भाषाटीकासमेतम् । ( १५५ )
ष्ठान करनेमें मेरी सहायता करो” । मक्षिका बोली,-“भद्र ! इस विषयमें क्या
कहते हो । कहा है-
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत्पुनर्मित्रमित्रस्य कार्य मित्रैर्न किं कृतम् ॥ ३६९ ॥
फिर प्रत्युपकारके लिये मित्रोंका प्रिय किया जाता है फिर मित्रोंका कार्य
मित्र कौनसा नहीं करते सब करते हैं ॥ ३६९ ॥
सत्यमेतत् परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति,
तमपि आहूय यथोचितं कुर्मः । उक्तञ्च-
यह सत्य है, परन्तु मेरा मित्र एक मेघनाद नामक मेंडक है सो उसेभी
बुलाकर यथोचितकार्य करें, कहा है-
हितः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः ।
कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३७० ॥”
हितकारी अच्छे आचरणवाले शास्त्रज्ञाता बुद्धिमान् विद्वानोंका विचारा हुआ
कभी अन्यथा नहीं होता ॥ ३७० ॥”
अथ ते त्रयोऽपि गत्वा मेघनादस्य अग्रे समस्तमपि
वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-“कियन्मात्रोऽसौ
वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः
कर्त्तव्यः । मक्षिके ! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य
गजस्य कर्णे वीणारवसदृशं शब्दं कुरु, येन श्रवणसुखला-
लसो निमीलितनयनो भवति । ततश्च काष्ठकूटचंच्वा स्फो-
टितनयनोऽन्धीभूतः तृषार्त्तो मम गर्त्ततटाश्रितस्य सपरिक-
रस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्त्तमा-
साद्य पतिष्यति पञ्चत्वं यास्यति च । इति । एवं समवायः
कर्त्तव्यो यथा वैरसाधनं भवति” । अथ तथा अनुष्ठिते स
मत्तगजो मक्षिकागेयसुखात् निमीलितनेत्रः काष्ठकूटहतचक्षुः
मध्याह्नसमये भ्राम्यन् मण्डूकशब्दानुसारी गच्छन् महतीं
गर्त्तामासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि“चटका काष्ठ-
कूटेन” इति ।