सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ८६ ) पञ्चतन्त्रम् ।

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

( ८६ ) पञ्चतन्त्रम् ।
नदी और नारियोंका समान प्रभाव होताहै, उनके दोनो किनारे और कन्याके
मातृ पितृ कुल समान हैं, नदी जलसे और नारी दोषसे अपने कुलको नष्ट
करती हैं ॥ २२३ ॥
तथाच-
और देखो-
जननीमनो हरति जातवती परिवर्द्धते सह शुचा सुहृदाम् ।
परसात्कृतापि कुरुते मलिनं दुरातिक्रमा दुहितरो विपदः ॥”
कन्या उत्पन्न होतेही माताका मन हरती है, सुहृज्जनोंके शोचके सहित
बढ़ती है, पराये आधीन करनेपर भी मलीन करती है, कन्यारूपी विपत् तरी
नहीं जाती ॥ २२४ ॥”
एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाच-“देवि ! ज्ञायतां
किमेते कञ्चुकिनो वदन्ति । तस्य कृतान्तः कुपितो येन
एतदेवं क्रियते” । देवी अपि तदाकर्ण्य व्याकुलीभूता सत्वरं
कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरा-
वयवां दुहितरमपश्यत् । आह च-“आः पापे ! कुलकलङ्का-
रिणि ! किमेवं शीलखण्डनं कृतम् । कोऽयं कृतान्तावलो-
कितः त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम्” इति
कोपाटोपविशङ्कटं वदन्त्यां मातरि राजपुत्री भयलज्जानताननं
प्रोवाच-“अम्ब ! साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि
समायाति । चेदसत्यं मम वाक्यम् । तत् स्वचक्षुषा विलो-
कयतु निगूढतरा निशीथे भगवन्तं रमाकान्तम्” । तत् श्रुत्वा सा
अपि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं गत्वा राजा-
नमूचे-“देव ! दिष्ट्या वर्द्धसे । नित्यमेव निशीथे भगवान्
नारायणः कन्यकापार्श्वेऽभ्येति तेन गान्धर्वविवाहेन सा वि-
वाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां
निशीथे द्रष्टव्यो, यतो न स मानुषैः सह आलापं करोति” ।
तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिद्
जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा

भाषाटीकासमेतम् । ( ८७ )

वातायनस्थो गगनासक्तदृष्टिः यावत्तिष्ठति तावत्तस्मिन्
समये गरुडारूढं तं शंखचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं
व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावितमिव
आत्मानं मन्यमानः तामुवाच-“प्रिये ! नास्ति अन्यो धन्य-
तरो लोके मत्तस्त्वत्तश्च, यत्प्रसूतिं नारायणो भजते । तत्सिद्धाः
सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि
वसुमतीं वश्यां करिष्यामि”। एव निश्चित्य सर्वैः सीमाधिपैः
सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण
वर्त्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रा
न्तरे स राजा देवीमुखेन तां दुहितरमुवाच-“पुत्रि ! त्वयि
दुहितरि वर्त्तमानायां नारायणे भगवति जामातरि स्थिते तत्
किमेवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति। तत्
सम्बोध्योऽद्य त्वया निजभर्त्ता यथा मम शत्रून् व्यापादयति”
ततः तया स कौलिको रात्रौ सविनयमभिहितः-“भगवन् !
त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न
युक्तम् । तत्प्रसादं कृत्वा सर्वान् तान् शत्रून् व्यापादय ” ।
कौलिक आह-“सुभगे ! कियन्मात्रास्तु एते तव पितुः शत्रवः।
तद्विश्वस्ता भव क्षणेनापि सुदर्शनचक्रेण सर्वान् तिलशः
खण्डयिष्यामि”। अथ गच्छता कालेन सर्वदेशं शत्रुभिः
उद्वास्य स राजा प्राकारशेषः कृतः, तथापि वासुदेवरूपधरं
कौलिकमजानन् राजा नित्यमेव विशेषतः कर्पूरागुरुकस्तू-
रिकादिपरिमलविशेषान् नानाप्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रै-
षयन् दुहितृमुखेन तमूचे-“भगवन् ! प्रभाते नूनं स्थान-
भङ्गो भविष्यति, यतो यवसेन्धनक्षयः सञ्जातः तथा सर्वोऽपि
जनः प्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः, प्रचुरो मृतश्च ।
तदेवं ज्ञात्वा अत्र काले यदुचितं भवति तद्विधेयम्” इति ।
तच्छ्रुत्वा कौलिकोऽपि अचिन्तयत् । “यत् स्थानभङ्गे जाते मम
अनया सह वियोगो भविष्यति । तस्मात् गरुडमारुह्य