सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 102, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 102

भाषाटीकासमेतम् । ( ८७ )

वातायनस्थो गगनासक्तदृष्टिः यावत्तिष्ठति तावत्तस्मिन्
समये गरुडारूढं तं शंखचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं
व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावितमिव
आत्मानं मन्यमानः तामुवाच-“प्रिये ! नास्ति अन्यो धन्य-
तरो लोके मत्तस्त्वत्तश्च, यत्प्रसूतिं नारायणो भजते । तत्सिद्धाः
सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि
वसुमतीं वश्यां करिष्यामि”। एव निश्चित्य सर्वैः सीमाधिपैः
सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण
वर्त्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रा
न्तरे स राजा देवीमुखेन तां दुहितरमुवाच-“पुत्रि ! त्वयि
दुहितरि वर्त्तमानायां नारायणे भगवति जामातरि स्थिते तत्
किमेवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति। तत्
सम्बोध्योऽद्य त्वया निजभर्त्ता यथा मम शत्रून् व्यापादयति”
ततः तया स कौलिको रात्रौ सविनयमभिहितः-“भगवन् !
त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न
युक्तम् । तत्प्रसादं कृत्वा सर्वान् तान् शत्रून् व्यापादय ” ।
कौलिक आह-“सुभगे ! कियन्मात्रास्तु एते तव पितुः शत्रवः।
तद्विश्वस्ता भव क्षणेनापि सुदर्शनचक्रेण सर्वान् तिलशः
खण्डयिष्यामि”। अथ गच्छता कालेन सर्वदेशं शत्रुभिः
उद्वास्य स राजा प्राकारशेषः कृतः, तथापि वासुदेवरूपधरं
कौलिकमजानन् राजा नित्यमेव विशेषतः कर्पूरागुरुकस्तू-
रिकादिपरिमलविशेषान् नानाप्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रै-
षयन् दुहितृमुखेन तमूचे-“भगवन् ! प्रभाते नूनं स्थान-
भङ्गो भविष्यति, यतो यवसेन्धनक्षयः सञ्जातः तथा सर्वोऽपि
जनः प्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः, प्रचुरो मृतश्च ।
तदेवं ज्ञात्वा अत्र काले यदुचितं भवति तद्विधेयम्” इति ।
तच्छ्रुत्वा कौलिकोऽपि अचिन्तयत् । “यत् स्थानभङ्गे जाते मम
अनया सह वियोगो भविष्यति । तस्मात् गरुडमारुह्य