सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ७ ) पञ्चतन्त्रम् ।

( ७ ) पञ्चतन्त्रम् ।
ज्ञात्वा च तं मन्मथपाशबद्धं
ग्रस्तामिषं मीनमिवोद्धरन्ति ॥ २०५ ॥
जबतक यह मनुष्यको प्रसक्त नहीं जानती तबतक प्रिय करतीहैं और पीछे
उसे कामके वशीभूत जानकर मांस ग्रहण करनेवाली मछलीकी समान उठा-
लेती हैं ॥ २०५ ॥
समुद्रवीचीव चलस्वभावाः
सन्ध्याभ्ररेखेव मुहूर्त्तरागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थ
निष्पीडितालक्तकवत्त्यजन्ति ॥ २०६ ॥
समुद्रकी तरंगोंकी समान चंचल स्वभाव संध्याकालके मेघरेखाकी समान
मुंहूर्तमात्रको रागवाली स्त्रिये सिद्धकाम होकर निर्धन पुरुषको निचोडे महावरकी
समान त्याग देती हैं ॥ २०६ ॥
अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशौचं निर्दयत्वञ्च स्त्रीणां दोषाः स्वभावजाः ॥ २०७ ॥
झूठ, साहस, माया, मूर्खत्व, अतिलोभ, अपवित्रता, निर्दयता यह स्त्रियोंके
स्वाभाविक दोषहैं ॥ २०७ ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वामनयना न समाचरन्ति ॥ २०८ ॥
मोहित करती, मदकरती, प्रसन्न करती, वंचित करती, घुडकती, रमती और
विषादित करती हैं, बहुत क्या यह कुटिल नेत्रवाली पुरुषोंके सरल हृदयोंमें
प्रवेश करके क्या क्या नहीं करती हैं ॥ २०८ ॥
अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ २०९ ॥”
यह भीतरसे विषमयं और बाहरसे मनोरम, चोंटलीके फलकी समान स्त्रियें
किसने निर्मित की हैं ? ॥ २०९ ॥”
एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेण
अतिचक्राम। सा च दूतिका छिन्ननासिका स्वगृहं गत्वा

भाषाटीकासमेतम् । ( ७५ )
चिन्तयामास । "किमिदानीं कर्तव्यम् । कथमेतत् महच्छिद्रं
स्थगयितव्यम्" । अथ तस्या एवं विचिन्तयन्त्या भर्त्ता कार्य-
वशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदे-
शस्थः विविधपौरकृत्योत्सुकतया तामाह-"भद्रे ! शीघ्रमा-
नीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि" । सापि
छिन्ननासिका गृहमध्यस्थितैव कार्य्यकरणापेक्षया क्षुरभा-
ण्डात्क्षुरमेकं समाकृष्य तस्य अभिमुखं प्रेषयामास । नापि-
तोऽपि उत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तद-
भिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टा उर्द्ध्व-
बाहू विधाय फूत्कर्तुमना गृहात् निष्चक्राम । "अहो ! पापेन
अनेन मम सदाचारवर्त्तिन्याः पश्यत नासिकाच्छेदो विहितः।
तत्परित्रायतां परित्रायताम्" । अत्र अन्तरे राजपुरुषाः सम-
भ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्ध्वा
तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यान्
ऊचुः-"शृण्वन्तु भवन्तः सभासदः । अनेन नापितेन अपराधं
विना स्त्रीरत्नमेतद्व्यङ्गितं तदस्य यत् युज्यते तत् क्रिय-
ताम्" । इति अभिहिते सभ्या ऊचुः- "रे नापित ! किमर्थं
त्वया भार्य्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः, उत
स्वित् प्राणद्रोहः कृतः, किंवा चौर्य्यकर्म आचरितम् । तत्
कथ्यतामस्या अपराधः १" । नापितोऽपि प्रहारपीडिततनु-
र्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनः सभ्या ऊचुः-
"अहो ! सत्यमेतत् राजपुरुषाणां वचः पापात्मा अयम् ।
अनेन इयं निर्दोषा वराकी दूषिता । उक्तञ्च-
यह विचार करते उस सन्यासीको वह रात बडे कष्टसे बीती और वह नाक-
कटी दूती अपने घर जाकर विचार करने लगी कि, "अब मैं क्या करू । किस
प्रकार यह महाछिद्र छिपाना चाहिये" । उसके यह विचार करतेही उसका
स्वामी किसी कार्य्यके वशसे राजकुलमें रहाहुआ प्रातःकाल निज घरमें आकर
द्वारपर स्थित हुआही बहुतसे नगरवासियोंके कार्य्यकी उत्कठासे उससे बोला-