सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ३८२ ) पञ्चतन्त्रम् ।

( ३८२ ) पञ्चतन्त्रम् ।
धर्मानुसार उसका सम्बन्ध नहीं करना चाहिये तथा सदा उदासीन और अधर्मा-
चरणसे दूषित मनुष्यसे अलग रहना चाहिये ॥ २४० ॥
आसने शयने याने पानभोजनवस्तुषु ।
दृष्टादृष्टप्रमत्तेषु प्रहरन्त्यरयोग्रिरिषु ॥ २४१ ॥
आसन, शयन, यान, पान, भोजनकी वस्तुमें तथा दृष्ट अदृष्टमें प्रमत्त हुए
शत्रुमें शत्रु प्रहार करतेहैं ॥ २४१ ॥
तस्मात्सर्वप्रयत्नेन त्रिवर्गानिलयं बुधः ।
आत्मानमाहतो रक्षेत्प्रमादाद्धि विनश्यति ॥ २४२ ॥
इसकारण पंडित यत्नवान् होकर सब प्रकार धर्म अर्थ कामके आश्रयवाले
आत्माकी रक्षाकरे कारण कि असावधानतासे नाश होता है ॥ २४२ ॥
साधु चेदमुच्यते-
यह अच्छा कहाहै-
सन्तापयन्ति कमपथ्यभुजं न रोगा
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परिपीडयन्ति ॥ २४३ ॥
किस अपथ्य भोजी ( बद परहेजी ) को रोग नहीं सन्ताप देते ? किस कुमं-
त्रिको नीतिके दोष प्राप्त नहीं होते? लक्ष्मी किसको दर्प(गर्व) वाला नहीं करती?
मृत्यु किसको नहीं मारती? स्त्रीके किये व्यापार किसको पीडित नहीं करते? २४३
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २४४ ॥
लोभीका यश, चुगलकी मित्रता, नष्ट क्रियावालेका कुल, लोभीका धर्म,
कामासक्त पुरुषका विद्याफल, कृपणका सुख तथा प्रमत्तमंत्रीवाले राजाका राज्य
नष्ट होजाताहै ॥२४४॥
तत् राजन् ! असिधाराव्रतं मया आचारितमरिसंसर्गा-
दिति, यद्भवता उक्तं तन्मया साक्षात् एवानुभूतम् । उक्तञ्च-

भाषाटीकासमेतम् । ( ३८३ )
सो हे राजन् ! मैंने यह असिधाराव्रतका आचरण किया, जो शत्रुके सगमें
रहा । जो तुमने कहा वह मैंने साक्षात् अनुभव किया । कहा है कि-
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ २४५ ॥
अपमानको आगे मानको पीछे कर बुद्धिमान् आपना कार्य साधे स्वार्थका
भ्रष्ट होजानाही मूर्खता है ॥२४५॥
स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् ।
महता कृष्णसर्पेण मण्डूका बहवो हताः ॥२४६॥
समय प्राप्त होनेपर बुद्धिमान् शत्रुको कंधेपर चढावे एक बड़े काले सापसे
बहुत मेंडक मारे गये ॥२४६॥
मेघवर्ण आह-“कथमेतत् ?” स्थिरजीवी कथयति-
मेघवर्ण बोला-"यह कैसे ?" स्थिरजीवी कहने लगा-
कथा १५.
अस्ति वरुणाद्रिसमीपे एकस्मिन् प्रदेशे परिणतवया मन्द-
विषो नाम कृष्णसर्पः, स एवं चित्ते सञ्चिन्तितवान् “कथं
नाम मया सुखोपायवृत्त्या वर्त्तितव्यम्” इति । ततो बहुमंडूकं
ह्रदमुपगम्य धृतिपरीतमिव आत्मानं दर्शितवान् । अथ तथा
स्थिते तस्मिन् उदकप्रान्तगतेन एकेन मण्डूकेन पृष्टः,-“माम!
किमद्य यथापूर्वमाहारार्थं न विहरसि ?” सोऽब्रवीत्,-“भद्र!
कुतो मे मन्दभाग्यस्य आहाराभिलाषः । यत्कारणमद्य रात्रौ
प्रदोष एव मया आहारार्थं विहरमाणेन दृष्ट एको मण्डूकः ।
तद्ग्रहणार्थं मया क्रमः सज्जितः सोऽपि मां दृष्ट्वा मृत्युभयेन
स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभा-
वितो मया क्वापि गतः । तत्सदृशमोहितचित्तेन मया कस्य-
चिद् ब्राह्मणस्य सूनोः ह्रदतटजलान्तःस्थोऽङ्गुष्ठो दष्टः ।
ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेन
अहं शप्तः, यथा “दुरात्मन् ! त्वया निरपराधो मत्सुतो