पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ९० ) पञ्चतन्त्रम् ।
( ९० ) पञ्चतन्त्रम् ।
( सूर्यके अमावस्थाको ) चन्द्र मण्डलमें स्थित होते यदि राहु सूर्य-
को ग्रहण करता है तो यह शरणागतके संग विरक्ति तेजस्वियोंको श्लाघनी-
य है ॥ २३७॥”
एवं निश्चित्य प्रत्यूषे दन्तधावनं कृत्वा तां प्रोवाच-“सु-
भगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं च आस्वादयिष्यामि ।
किं बहुना त्वयापि सह सङ्गमं ततः करिष्यामि । परं
वाच्यस्त्वया आत्मपिता यत् प्रभाते प्रभूतेन सैन्येन सह
नगरात् निष्क्रम्य योद्धव्यम्, अहं च आकाशस्थित एव
सर्वान् तान् निस्तेजसः करिष्यामि पश्चात्सुखेन भवता
हन्तव्याः । यदि पुनरहं तान् स्वयमेव सूदयामि तत्तेषां
पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्त्तव्या
यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति” । सापि
तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् ।
राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय सुसन्नद्ध-
सैन्यो युद्धार्थं निष्चक्राम । कौलिकोऽपि मरणे कृतनिश्चय-
श्चापपाणि र्गगनगतर्गरुडारूढो युद्धाय प्रस्थितः । अत्रान्तरे
भगवता नारायणेन अतीतानागतवर्त्तमानवेदिना स्मृतमात्रो
वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-“भो गरुत्मन् ! जानासि
त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राज-
कन्यां कामयते?”। सोऽब्रवीत्-“देव ! सर्वं ज्ञायते तच्चेष्टितम्।
तत् किं कुर्मः साम्प्रतम्” श्रीभगवानाह-“अद्य कौलिको
मरणे कृतनिश्चयो विहितनियमो युद्धार्थं विनिर्गतः । स
नूनं प्रधानक्षत्रियशराहतो निधनमेष्यति । तस्मिन् हते सर्वो
जनो वदिष्यति यत्प्रभूतक्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च
निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति ।
ततस्त्वं द्रुततरं तत्र दारुमयगरुडे संक्रमणं कुरु । अहमपि
कौलिकशरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्याप्राद-
यति । ततश्च शत्रुवधात् आवयोर्माहात्म्यवृद्धिः स्यात्” ।
भाषाटीकासमेतम् । ( ९१ )
अथ गरुडे तथेति प्रतिपन्ने श्रीभगवान् नारायणस्तच्छरीरे
संक्रमणमकरोत् । ततो भगवन्माहात्म्येन गगनस्थः सः
कौलिकः शंखचक्रगदाचापचिह्नितः क्षणादेव लीलयैव सम-
स्तानपि प्रधानक्षत्रियान् निस्तेजसश्चकार । ततस्तेन राज्ञा
स्वसैन्यपरिवृतेन संग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः ।
जातश्च लोकमध्ये प्रवादो यथा- "अनेन विष्णुजामातृप्रभावेण
सर्वे शत्रवो निहताः" इति । कौलिकोऽप तान् हतान् दृष्ट्वा
प्रमुदितमना गगनादवतीर्णः सन् यावद्राजामात्यपौर-
लोकास्तं नगरवास्तवं कौलिकं पश्यन्ति ततः पृष्टः किमे-
तदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्वृत्तान्तं न्यवेदयत्।
ततश्च कौलिकसाहसानुरञ्जितमनसा शत्रुवधात् अवाप्तते-
जसा राज्ञा सा राजकन्या सकलजनप्रत्यक्षं विवाहविधिना
तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्द्धं
पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभवन् कालं निनाय ।
अतस्तूच्यते-"सुप्रयुक्तस्य दम्भस्य"-इति ।
यह निश्चयकर प्रात.काल दतोन कर उससे वाला- "सुभगे ! आज सम्पूर्ण शत्रु-
ओको मारकर मैं अन्नपान सेवन करूंगा। बहुत कहनेसे क्या तेरे साथ भी समागम
तभी होगा, परन्तु तू अपने पितासे कह कि, प्रात'कालही बहुत सेनाके साथ
नगरसे निकलकर युद्ध करे । और मैं आकाशमे स्थित हुआही उन सत्रको निस्तेज
करदूगा, फिर तुम सुखसे उनको मारडालना और यदि मैं स्वयं ही उनको
मारूंगा तो वे पापी बैकुण्ठको जायगे, इस कारण ऐसा करना चाहिये कि,
भागते मारे हुए वे स्वर्गको न जाय" । वहभी यह सुन पिताके समीप जाय सब
वृत्तान्त कहती हुई । राजाभी उसके वाक्यमें श्रद्धा कर प्रातःकाल उठ सेना
तयार कर युद्धके लिये निकला, कौलिकभी मरणमे निश्चयकर धनुष ले
आकाशमें गरुडपर चढ युद्धको निकला । इसी अवसरमें भगवान् नारायण
भूतमविष्यवर्तमान गति जाननेवाले स्मरण करतेही प्राप्तहुए गरुडको
कहने लगे कि- "हे गरुड ! क्या तुम जानतेहो ? कि, हमारे रूपसे कौलिक
काठके गरुडपर चढा राजकन्यासे रमताहै" वह बोला-"देव ! सब उसको