पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( १९२ ) पञ्चतन्त्रम् ।
( १९२ ) पञ्चतन्त्रम् ।
जिस अहंकारयुक्तने प्रथम बहुत समयतक विलास किया है और जो उसी
स्थानमें दीन वचन कहे वह निन्दित होता है ॥ ४४५ ॥”
तस्य च गृहे लोहभारघटिता पूर्वपुरुषोपार्जिता तुला-
आसीत् । ताञ्च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा
देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया
भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच,-“भोः श्रेष्ठिन् !
दीयतां मे सा निक्षेपतुला” । स आह-“भो ! नास्ति सा
त्वदीया तुला मूषिकैर्भक्षिता” । जीर्णधन आह-“भोः
श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैः भक्षितेति । ईदृक्-
एवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति, परमहं नद्यां
स्नानार्थं गमिष्यामि, तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं
मया सह स्नानोपकरणहस्तं प्रेषय” इति । सोऽपि चौर्य्यभया-
त्तस्य शङ्कितः स्वपुत्रमुवाच-“वत्स ! पितृव्योऽयं तव स्नानार्थं
नद्यां यास्यति तद्गम्यतामनेन सार्द्धं स्नानोपकरणमादाय ”
इति । अहो ! साधु इदमुच्यते-
उस घरमें लोहभार वाली वृद्ध पुरुषोंकी उपार्जित एक तराजू थी उसको
किसी सेठके घरमें धरोहर रखकर देशन्तरको गया । और बहुतकालतक देशा-
न्तरमें यथेच्छ भ्रमण कर फिर अपने पुरमें आकर श्रेष्ठीसे वह बोला,-“भो
सेठ ! हमारी निक्षेपतुला (धरोहरकी तराजू) दो” वह बोला,-“भो वह तुम्हारी
तराजू नहीं है चूहोंने खाली” । जीर्णधन बोला,-“सेठजी ! इसमें आपका दोष
क्या यदि चूहोंने खाली, इसी प्रकारका यह संसार है कोई यहां निरन्तर रहनेवाला
नहीं है । परन्तु मैं नदीमें स्नान करने जाऊंगा । सो तुम अपने इस बालकधन-
देवको मेरे साथ स्नानीय द्रव्यके सहित भेज दीजिये,” वहभी चोरीके भयसे
शंकित हो अपने पुत्रसे बोला--“वत्स ! यह तुम्हारे चचा स्नानके निमित्त
नदीको जायंगे सो इनके साथ स्नानीय पदार्थ लेकर जाओ” इति । अहो ! यह
अच्छा कहा है-
न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः ।
मुक्त्वा भयं प्रलोभं वा कार्य्यकारणमेव वा ॥ ४४६ ॥
भाषाटीकासमेतम् । (१९३)
भक्तिसे कोई मनुष्य किसीका कुछ प्रिय नहीं करता है, भय, लोभ वा कार्य-
कारणको छोडकर (अन्य कारण नही है) ॥ ४४६ ॥
तथाच-
तैसेही-
अत्यादरो भवेद्यत्र कार्यकारणवर्जितः ।
तत्र शङ्का प्रकर्त्तव्या परिणामेऽसुखावहा ॥ ४४७ ॥
जहा कार्यकारणको छोडकर बहुत आदर होता है उस स्थानमे अवश्य
शंका करनी चाहिये परिणाममें बुरा है ॥ ४४७ ॥
अथ असौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमना-
स्तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा
तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलया आच्छाद्य
सत्वरं गृहमागतः पृष्टश्च तेन वणिजा,-"भो अभ्यागत !
कथ्यतां कुत्र मे शिशुर्यः त्वया सह नदीं गतः"। इति स आ-
ह,-"नदीतटात् स श्येनेन हतः" इति । श्रेष्ठ्याह,-"मिथ्या-
वादिन् ! किं कचित् श्येनो बालं हर्तुं शक्नोति ? तत् समर्पय
मे सुतमन्यथा राजकुले निवेदयिष्यामिः” इति । स आह,-
“भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका
अपि लोहभारघटितां तुलां न भक्षयन्ति, तत अर्पय मे
तुलां, यदि दारकेण प्रयोजनम्" । एवं तौ विवदमानौ द्वा-
वपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच-"भोः !
अब्रह्मण्यमब्रह्मण्यम् !! मम शिशुः अनेन चौरेण अपहृतः” ।
अथ धर्माधिकारिणः तमूचुः,-"भोः! समर्प्यतां श्रेष्ठिसुतः"।
स आह,-"किं करोमि, पश्यतो मे नदीतटात् श्येनेन अप-
हृतः शिशुः” । तच्छ्रुत्वा ते प्रोचुः,-"भो ! न सत्यमभिहितं
भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति ?” स आह,-
भो भोः ! श्रूयतां मद्वचः-
१३