पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 208, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (१९३)
भक्तिसे कोई मनुष्य किसीका कुछ प्रिय नहीं करता है, भय, लोभ वा कार्य-
कारणको छोडकर (अन्य कारण नही है) ॥ ४४६ ॥
तथाच-
तैसेही-
अत्यादरो भवेद्यत्र कार्यकारणवर्जितः ।
तत्र शङ्का प्रकर्त्तव्या परिणामेऽसुखावहा ॥ ४४७ ॥
जहा कार्यकारणको छोडकर बहुत आदर होता है उस स्थानमे अवश्य
शंका करनी चाहिये परिणाममें बुरा है ॥ ४४७ ॥
अथ असौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमना-
स्तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा
तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलया आच्छाद्य
सत्वरं गृहमागतः पृष्टश्च तेन वणिजा,-"भो अभ्यागत !
कथ्यतां कुत्र मे शिशुर्यः त्वया सह नदीं गतः"। इति स आ-
ह,-"नदीतटात् स श्येनेन हतः" इति । श्रेष्ठ्याह,-"मिथ्या-
वादिन् ! किं कचित् श्येनो बालं हर्तुं शक्नोति ? तत् समर्पय
मे सुतमन्यथा राजकुले निवेदयिष्यामिः” इति । स आह,-
“भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका
अपि लोहभारघटितां तुलां न भक्षयन्ति, तत अर्पय मे
तुलां, यदि दारकेण प्रयोजनम्" । एवं तौ विवदमानौ द्वा-
वपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच-"भोः !
अब्रह्मण्यमब्रह्मण्यम् !! मम शिशुः अनेन चौरेण अपहृतः” ।
अथ धर्माधिकारिणः तमूचुः,-"भोः! समर्प्यतां श्रेष्ठिसुतः"।
स आह,-"किं करोमि, पश्यतो मे नदीतटात् श्येनेन अप-
हृतः शिशुः” । तच्छ्रुत्वा ते प्रोचुः,-"भो ! न सत्यमभिहितं
भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति ?” स आह,-
भो भोः ! श्रूयतां मद्वचः-
१३