सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृच्छत्,–“भो मित्र ! पश्य मे मन्दभाग्यताम् । यत् सम्प्रति

यः पृष्ट्वा कुरुते कार्य्यं प्रष्टव्यानस्वहितान्गुरून् ।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ६७ ॥
जो अपने पूछनेमें योग्य हितकारी गुरुओंसे पूछकर कार्य करता है उसको
किसी काममें विघ्न नहीं होता है ॥ ६७ ॥”
एवं सम्प्रधार्य्य भूयोऽपि तमेव जम्बुवृक्षमारूढं कपिम-
पृच्छत्,–“भो मित्र ! पश्य मे मन्दभाग्यताम् । यत् सम्प्रति
गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्या-
गतः । कथय किं करोमि ? । सामादीनाम् उपायानां मध्ये
कस्य अत्र विषयः”। स आह–“भोः कृतघ्न ! पापचारिन् !
मया निषिद्धोऽपि किं भूयो मामनुसरसि, नाहं तव मूर्खस्य
उपदेशमपि दास्यामि”। तच्छ्रुत्वा मकरः प्राह–“भो मित्र !
सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि,” वानर
आह–“न अहं ते कथयिष्यामि । यत् भार्य्यावाक्येन भवता
अहं समुद्रे प्रक्षेप्तुं नीतः, तदेवं न युक्तं यद्यपि भार्य्या सर्व-
लोकादपि वल्लभा भवति तथापि न मित्राणि बान्धवाश्च
भार्य्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशः
तव मया प्रागेव निवेदित आसीत् । यतः–
ऐसा विचार फिर भी उस जामुनके वृक्षपर चढ़े वानरसे पूछने लगा--“भो
मित्र ! मेरी मन्दभाग्यता तो देखो कि, इस समय घर भी मेरा बलवान् मकरने
ग्रहण करलिया । सो मैं तुझसे पूछनेको आया हूं कह क्या करूं ? सामादि उपायोंमें
इस समय कौन उचित है”। वह बोला,--“भो कृतघ्न पापिष्ठ ! मुझसे निषेधको
प्राप्त हुआ भी फिर मुझसे क्यों पूछता है । मैं तुझ मूर्खको उपदेशभी नहीं दूंगा”।
यह सुनकर मकर बोला,–“भो मित्र ! मैं अपराधीहूं पर मेरा पूर्वस्नेह स्मरण कर
हितोपदेश दे”। वानरने कहा,–“मैं तुझसे नहीं कहूंगा । जो भार्यावाक्यसे
तुम मुझे समुद्रमें डालनेको लेगये थे सो युक्त नहीं किया । यद्यपि भार्या सर्व
लोकसे भी प्यारी होती है तथापि मित्र और बन्धु भार्याके वाक्यसे सागरमें
नहीं डाले जाते हैं सो मूर्ख ! मूढ होनेसे तेरा नाश मैंने प्रथमही कह दियाथा।
क्यों कि-

[page-header]
भाषाटीकासमेतम्। (४४३)
[/page-header]

सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ६८ ॥”
जो मदसे सत्पुरुषोंके कहे वचन नहीं करता है वह घण्टा बन्धे ऊँटकी समान
शीघ्र नाशको प्राप्त होता है ॥ ६८ ॥”
मकर आह,-“कथमेतत् ?” सोऽब्रवीत्-
मकर बोला,-“यह कैसे ?” वह बोला-
कथा १०.
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव-
सति स्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्-
“अहो ! धिक् इयं दरिद्रता अस्मद्गृहे । यतः सर्वोऽपि जनः
स्वकर्मणि एव रतः तिष्ठति । अस्मदीयः पुनर्व्यापारो न
अत्र अधिष्ठाने अर्हति । यतः सर्वलोकानां चिरन्तनाः चतु-
र्भूमिका गृहाः सन्ति । मम च नात्र, तत् किं मदीयेन रथ-
कारत्वेन प्रयोजनम्” इति चिन्तयित्वा देशात् निष्क्रान्तः ।
यावत् किञ्चित् वनं गच्छति तावत् गहराकारवनगहनमध्ये
सूर्य्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमा-
नां उष्ट्रीमपश्यत, स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्था-
नाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां
बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानय-
नार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि
पल्लवानि छित्वा शिरसि समारोप्य तस्या अग्रे निचिक्षेप ।
तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवभक्षण-
प्रभावादहर्निशं पीवरतनुः उष्ट्री सञ्जाता । सोऽपि दासे-
रको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा
स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वात् दासे-
रकग्रीवायां महती घण्टा प्रतिबद्धा । पश्चात् रथकारो व्य-
चिन्तयत,-“अहो ! किमन्यैः दुष्कृतकर्मभिः यावत् मम