पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 458, कुल 536 में से
संदर्भ में पढ़ें[page-header]
भाषाटीकासमेतम्। (४४३)
[/page-header]
सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ६८ ॥”
जो मदसे सत्पुरुषोंके कहे वचन नहीं करता है वह घण्टा बन्धे ऊँटकी समान
शीघ्र नाशको प्राप्त होता है ॥ ६८ ॥”
मकर आह,-“कथमेतत् ?” सोऽब्रवीत्-
मकर बोला,-“यह कैसे ?” वह बोला-
कथा १०.
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव-
सति स्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्-
“अहो ! धिक् इयं दरिद्रता अस्मद्गृहे । यतः सर्वोऽपि जनः
स्वकर्मणि एव रतः तिष्ठति । अस्मदीयः पुनर्व्यापारो न
अत्र अधिष्ठाने अर्हति । यतः सर्वलोकानां चिरन्तनाः चतु-
र्भूमिका गृहाः सन्ति । मम च नात्र, तत् किं मदीयेन रथ-
कारत्वेन प्रयोजनम्” इति चिन्तयित्वा देशात् निष्क्रान्तः ।
यावत् किञ्चित् वनं गच्छति तावत् गहराकारवनगहनमध्ये
सूर्य्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमा-
नां उष्ट्रीमपश्यत, स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्था-
नाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां
बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानय-
नार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि
पल्लवानि छित्वा शिरसि समारोप्य तस्या अग्रे निचिक्षेप ।
तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवभक्षण-
प्रभावादहर्निशं पीवरतनुः उष्ट्री सञ्जाता । सोऽपि दासे-
रको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा
स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वात् दासे-
रकग्रीवायां महती घण्टा प्रतिबद्धा । पश्चात् रथकारो व्य-
चिन्तयत,-“अहो ! किमन्यैः दुष्कृतकर्मभिः यावत् मम