पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४३८ ) पञ्चतन्त्रम् ।
( ४३८ ) पञ्चतन्त्रम् ।
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥६२॥”
जैसे मेरी पंडिताई है उससे दूनी तुम्हारी है केवल जार ( उपपति ) ही नहीं
परंतु भर्ता भी नहीं हे वसनरहिते क्या देखती है ॥ ६२ ॥ ”
वानर आह,-“कथमेतत् ?” मकरोऽब्रवीत्-
वानर बोला,-“यह कैसी कथा ?” मकर बोला-
कथा ९.
कस्मिंश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म ।
सा च हालिकभार्या पत्युर्वृद्धभावात् सदैव अन्यचित्ता न
कथञ्चिद् गृहे स्थैर्यमालम्बते, केवलं परपुरुषान् अन्वेषमाणा
परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूर्तेन सा
लक्षिता विजने प्रोक्ता च,-“सुभगे ! मृतभार्योऽहम् । त्व-
दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा,” ततः
तयाभिहितं,-“भो सुभग ! यदि एवं तदस्ति मे पत्युः प्रभूतं
धनं स च वृद्धत्वात् प्रचलितुमपि असमर्थः तत् । तद्धनमा-
दाय अहमागच्छामि । येन त्वया सह अन्यत्र गत्वा यथे-
च्छया रतिसुखमनुभविष्यामि” । सोऽब्रवीत्,-“रोचते
मह्यमपि एतत् । प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यं येन
शुभतरं किञ्चित् नगरं गत्वा त्वया सह जीवलोकः सफली-
क्रियते” । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं
गत्वा रात्रौ प्रसुप्ते भर्त्तरि सर्वं वित्तमादाय प्रत्यूषसमये तत
कथितस्थानमुपाद्रवत् । धूर्त्तोऽपि तामग्रे विधाय दक्षिणां
दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोः व्रजतोः
योजनद्वयमात्रेण अग्रतः काचित् नदी समुपस्थिता । तां
दृष्ट्वा धूर्त्तः चिन्तयामास, “किं अहमनया यौवनप्रान्ते वर्त्त-
मानया करिष्यामि । किंच कदापि अस्याः पृष्ठतः कोऽपि
समेष्यति, तन्मे महान् अनर्थः स्यात् ! तत् केवलमस्या
वित्तं आदाय गच्छामि” इति निश्चित्य तामुवाच,-“प्रिये !
भाषाटीकासमेतम्। (४३९)
सुदुस्तरा इयं महानदी। तदहं द्रव्यमात्रं पारे धृत्वा समा-
गच्छामि। ततः त्वां एकाकिनीं स्वपृष्ठमारोप्य सुखेन उत्ता-
रयिष्यामि”। सा प्राह-“सुभग! एवं क्रियताम्” इत्युक्तवा
अशेषं वित्तं तस्मै समर्पयामास। अथ तेन अभिहितं,-“भद्रे!
परिधानाच्छादनवस्त्रमपि समर्पय, येन जलमध्ये निःशंका
व्रजसि”। तथा अनुष्ठिते धूर्त्तो वित्तं वस्त्रयुगलंञ्च आदाय
यथाचिन्तितविषयं गतः। सापि कण्ठनिवेशितहस्तयुगला
सोद्वेगा नदीपुलिनदेशे उपविष्टा यावत् तिष्ठति, तावत् एत-
स्मिन्नन्तरे काचित् शृगालिका मांसपिण्डगृहीतवदना तत्र
आजगाम। आगत्य च यावत् पश्यति, तावत् नदीतीरे
महान् मत्स्यः सलिलात् निष्क्रम्य बहिःस्थित आस्ते। एतञ्च
दृष्ट्वा सा मांसपिण्डं समुत्सृज्य तं मत्स्यं प्रति उपाद्रवत्। अत्रा-
न्तरे आकाशात् अवतीर्य्य कोऽपि गृध्रस्तं मांसपिण्डमादाय
पुनः खमुत्पपात। मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश।
सा शृगालिका व्यर्थश्रमा गृध्रं अवलोकयन्ती तया नग्नि-
कया सस्मितं अभिहिता-
किसी स्थानमें हालिक स्त्री पुरुष रहते थे। वह हालिककी स्त्री पतिके वृद्ध
होनेसे सदा औरकी चिन्ता करती किसी प्रकारभी घरमें स्थिरताको प्राप्त न
होती। केवल परपुरुषको खोज कर स्थित थी। तब किसी पराया धन हरने-
वाले धूर्तने उसे देख कर एकान्तमें कहा-“सुभगे! मेरी स्त्री मरगई है। तेरे
दर्शनसे मै कामसे पीडित हुआ हू। सो मुझे रति दक्षिणा दो”। तब उसने
कहा-“भो सुभग! जो ऐसा है तो मेरे पतिके बहुत धन है वृद्ध होनेसे वह
चलनेको समर्थ नहीं है। सो उसका धन लेकर मै आती हू। जो तुम्हारे साथ
और स्थानमें जाकर रतिका सुख अनुभव करू”। उसने कहा-“यह बात
मुझेभी भली लगती है। प्रातःकाल इस स्थानमें तुम शीघ्र आना जिससे अच्छे
किसी नगरमें जाकर तुम्हारे सग जीवन सफल करू”। वहभी बहुत अच्छा
ऐसी प्रतिज्ञा कर हँसकर अपने घर जाय रात्रिमें पतिके सोजा नेपर सब धनको
लेकर कथित स्थानमें आई। धूर्तभी उसे आगे लेकर दक्षिण दिशाको आश्रय