सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( ३५२ ) पञ्चतन्त्रम् ।

( ३५२ ) पञ्चतन्त्रम् ।
अरिमर्दनः प्राह,-“कथमेतत् ?” वक्रनासः कथयति-
अरिमर्दन बोला,-“यह कैसे ?” वक्रनास कहने लगा-
कथा ९.
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणःप्रति-
ग्रहधनः सततविशिष्टवस्त्रानुलेपनगन्धमाल्यालङ्कारताम्बू-
लादिभोगपरिवर्जितः प्ररूढकेशश्मश्रुनखरोमोपचितः शीतो-
ष्णवातवर्षादिभिः परिशोषितशरीरः । तस्य च केनापि
यजमानेन अनुकम्पया शिशुगोयुगं दत्तम्। ब्राह्मणेन च बाल-
भावात् आरभ्य याचितघृततैल्यवसादिभिः संवर्द्धय सुपुष्टं
कृतम् । तच्च दृष्ट्वा सहसा एव कश्चित् चौरः चिन्तितवान्,
“अहमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि” । इति
निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत् प्रस्थितःताव
दर्द्धमार्गे प्रविरलतीक्ष्णदन्तपङ्क्तिः उन्नतनासावंशो प्रकट-
रक्तान्तनयन उपचितस्नायुसन्ततिर्नतगात्रः शुष्ककपोलः सुहु-
तहुतवहपिङ्गलश्मश्रुकेशशरीरः कश्चित् दृष्टः । दृष्ट्वा च तं
तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत्-“को भवानिति ?”स आह-
“सत्यवचनोऽहं ब्रह्मराक्षसः । भवान् अपि आत्मानं निवेद-
यतु”सोऽब्रवीत्-“अहं क्रूरकर्मा चौरः। दरिद्रब्राह्मणस्य गोयुगं
हर्तुं प्रस्थितोऽस्मिः” । अथ जातप्रत्ययो राक्षसोऽब्रवीत्-
“भद्र ! षष्ठान्हकालिकोऽयं, अतः तमेव ब्राह्मणमद्य भक्षयि-
ष्यामि । तत् सुन्दरमिदमेककार्यों एव आवाम्” । अथ तौ
तत्र गत्वा एकान्ते कालमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे
तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-“भद्र ! नैष
न्यायः, यतो गोयुगे मया अपहृते पश्चात् त्वमेनं ब्राह्मणं
भक्षय " । सोऽब्रवीत्-“ कदाचिदयं ब्राह्मणो गोशब्देन
बुध्येत, तदा अनर्थकोऽयं मम आरम्भः स्यात्” । चौरोऽपि
अब्रवीत्-“तव अपि यदि भक्षणाय उपस्थितस्यान्तर एकोपि

भाषाटीकासमेतम् । (३५३)

अन्तरायः स्यात् तदाहमपि न शक्नोमि गोयुगमपहर्तुम् ।
अतः प्रथमं मया अपहृते गोयुगे पश्चात् त्वया ब्राह्मणो भक्ष-
यितव्यः” । इत्थं च अहमहमिकया तयोर्विषदतोः समुत्पन्ने
द्वैधे प्रतिरववशाद् ब्राह्मणो जजागार। अथ तं चौरोऽब्रवीत्-
“ब्राह्मण ! त्वामेव अयं राक्षसो भक्षयितुमिच्छति”। राक्षसो-
ऽपि आह-“ब्राह्मण ! चौरोऽयं, गोयुगं ते अपहर्तुमिच्छति”।
एवं श्रुत्वा उत्थाय ब्राह्मणः सावधानो भूत्वा इष्टदेवतामन्त्रा-
ध्यायेन आत्मानं राक्षसाद् उद्गूर्णलगुडेन चौरात् गोयुगं ररक्ष।
अतोऽहं ब्रवीमि-
किसी स्थानमें दरिद्र द्रोणनाम ब्राह्मण प्रतिग्रह मात्र जीविकावाला निरन्तर
श्रेष्ठ वस्त्रानुलेपन गंध माला अलकार ताम्बूलादि भोगसे हीन बढेहुए केश
दाढी मूछ नखरोमसे युक्त शीत उष्ण वात वर्षासे शोषित शरीर था । उसको
किसी यजमानने कृपाकर दो बछडे दिये । ब्राह्मणने उन दोनो बछडोंको बाल्यक-
पनसेही मागे हुए घी तेल घास आदिसे बढाकर पुष्ट किया । उनको देख सह-
साही कोई चोर विचारने लगा—“मैं इस ब्राह्मणके दोनो बछडे चुराऊगा” ।
ऐसा विचार रात्रिमें बन्धनरज्जु लेकर जब चला तब तक आधे मार्गमें पृथक्
तीक्ष्ण दांतोंकी पंक्तिवाला, ऊंचे नासिका वशसे युक्त, उज्ज्वल लाल नेत्र, पुष्ट हैं
नाडीसमूह जिसका ऐसा, नत शरीर, सूखे कपोल, सम्यक् हुत हुए अग्निके सदृश
पिङ्गल दाढी मूछों और शरीरवाला कोई देखा । देखतेही उसको बडे भयसे
व्याकुल हुआभी चोर बोला,—“तुम कौनहै ?” वह बोला—“मैं सत्य वचन
ब्रह्मराक्षस हू । तुमभी अपनेको कहो”। वह बोला--“मैं क्रूर कर्मा चोर हूं। दरिद्र
ब्राह्मणके दो बैल चुराने जाता हूं”। तब विश्वासको प्राप्तहो राक्षस बोला-
“भद्र ! मैं छठे समय भोजन करनेवाला हू । इस कारण आज उसी ब्राह्मणको
भक्षण करूंगा । यह अच्छी बात है जो हम तुम दोनो एकही कार्यमें हैं” ।
तब वे दोनो वहा जाकर एकान्तमें समय देखते स्थित रहे । ब्राह्मणके सोनेपर
उसके भक्षणके निमित्त जाते हुए राक्षसको देखकर चोर बोला,—“भद्र ! यह
न्याय नहीं है । जो कि मेरे बैलोंको हरण करनेके पीछे तुम इस ब्राह्मणको भक्षण
२३