पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ३२२ ) पञ्चतन्त्रम् ।
( ३२२ ) पञ्चतन्त्रम् ।
श्रुतिका अर्थ नहीं जानते। वहां तो ऐसा कहा है अजोंसे यज्ञ करना चाहिये।
सो अज नाम सप्तवर्षीय व्रीहिधान्यका हे नकि पशुविशेषका। कहा है-
वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम्।
यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥ १०७ ॥
वृक्षोंका छेदन, पशुओंका मारण कर उनके रुधिरकी काच करनेसे यदि
स्वर्ग होता है तो नरक कौनसे कर्मोंसे होता है ॥ १०७॥
तन्न अहं भक्षयिष्यामि । परं जयपराजयनिर्णयं
करिष्यामि । किन्तु अहं वृद्धो दूराद्युवयोः भाषान्तरं
सम्यक् न शृणोमि । एवं ज्ञात्वा मम समीपवर्त्तिनौ
भूत्वा मम अग्रे न्यायं वदतम् । येन विज्ञाय विवादपरमार्थं
वचो वदतो मे परलोकबाधो न भवति । उक्तञ्च यतः-
सो मैं भक्षण नहीं करूंगा। परन्तु जय पराजयका निर्णय कर दूंगा।
किन्तु मैं वृद्ध हूं दूरसे तुम दोनोंके भाषणको भली प्रकार नहीं सुन सकता।
ऐसा जानकर मेरे निकटवर्ती होकर मेरे आगे अपना न्याय कहो जिसको जान-
कर विवादका परमार्थ वचन कहते हुए मुझे परलोककी बाधा नहो। कहाहै-
मानाद्वा यदि वा लोभात्क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥ १०८ ॥
मान, लोभ, क्रोध या भयसे जो न्यायको अन्यथा कहताहै वह मनुष्य नर-
कको जाता है ॥ १०८ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यान्ृते हन्ति सहस्रं पुरुषानृते ॥ १०९ ॥
मनुष्यके पशु विषयक झूठ बोलनेमें पांच पुरुषकी, गौके निमित्त दशकी,
कन्याके निमित्त सौकी, पुरुष विषयक मिथ्या कहनेमें सहस्र पुरुषकी हत्या
लगतीहै ॥ १०९ ॥
उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
तस्माद्दूरेण स त्याज्यो न्यायो वा कीर्त्तयेद्ऋतम् ॥ ११० ॥
सभाके बीचमें स्थित होकर जो पुरुष स्पष्ट वचन नहीं बोलता है उसको
वहांसे निकालदे अथवा वह सत्य कहदे ॥ ११० ॥
भाषाटीकासमेतम् । (३२३)
तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम्” ।
किं बहुना, तेन क्षुद्रेण तथा तौ तूर्णं विश्वासितौ, यथा तस्य
उत्सङ्गवर्तिनौ सञ्जातौ ततश्च तेनापि समकालमेव एकः
पादान्तेन आक्रान्तः, अन्यो दंष्ट्राक्रकचेन च । ततो गत-
प्राणौ भक्षितौ इति । अतोऽहं ब्रवीमि-
- इस कारण निडर होकर मेरे कानके निकट स्फुट वचन कहो” । बहुत
कहनेसे क्या उस क्षुद्रने उन दोनोंको शीघ्र इस प्रकार विश्वासमें कर लिया कि,
वे उसकी गोदीमें आ बैठे । तब उसनेभी एकही समय एकको चरणमे आक्रमण
किया और दूसरेको डाढरूपी कैंचीमे । इस प्रकार प्राणरहित कर दोनोंको
खागया । इससे मैं कहता हू-
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ ।
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ १११ ॥
क्षुद्र अर्थपतिको प्राप्त होकर न्यायकी खोजमे तत्पर शशक ओर कपिंजल
दोनोंही क्षयको प्राप्त हुए ॥ १११ ॥
भवन्तोऽपि एनं दिवान्धं क्षुद्रमर्थपतिमासाद्य रात्र्यन्धाः
सन्तः शशकपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं
तद्विधेयमतःपरम्” अथ तस्य तत् वचनमाकर्ण्य “साधु
अनेन अभिहितम्” इति उक्त्वा भूयोऽपि पार्थिवार्थं समेत्य
मन्त्रयिष्यामहे” इति ब्रुवाणाः सर्वे पक्षिणो यथामितं जग्मुः
केवलमवशिष्टो भद्रासनोपविष्टः अभिषेकाभिमुखो दिवान्धः
कृकालिकया सह आस्ते । आह च-“ कः कोऽत्र भोः !
किमद्यापि न क्रियते ममाभिषेकः ”? इति श्रुत्वा कृकालि-
कया अभिहितम्-“भद्र! तव अभिषेके कृतोऽयं विघ्नो वाय-
सेन । गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलमेकोऽयं
वायसोऽवशिष्टः केनापि हेतुना तिष्ठति तत् त्वरितमुत्तिष्ठ
येन त्वां स्वाश्रयं प्रापयामि” । तत् श्रुत्वा सविषादमुलूको
वायसमाह,-“भो भो दुष्टात्मन् ! किं मया ते अपकृतम् ?