श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
| ७२० | आनन्दरामायणे | [ सर्गः १४ |
|---|
परं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । अतः परं शृणुष्वान्यन्सीतायाः स्तोत्रमुत्तमम् ॥३५॥
यस्मिन्नष्टोत्तरशतं सीतानामानि संति हि । अष्टोत्तरशतं सीतासाम्नां स्तोत्रमनुत्तमम् ॥३६॥
ये पठंति नरास्त्वत्र तेषां च सफलो भवः । ते धन्या मानवा लोके ते वैकुंठं व्रजंति हि ॥३७॥
अस्य श्रीसीतानामाष्टोत्तरशतमंत्रस्य अगस्त्यऋषिः । अनुष्टुप् छन्दः । रमेति बीजम् । मातुलुंगीति शक्तिः । पद्माक्षजेति कीलकम् । अवनिजेत्यस्त्रम् । जनकजेति कवचम् । मूलकासुर-मर्दिनीति परमो मन्त्रः । श्रीसीतारामचन्द्रप्रीत्यर्थे सकलकामनासिद्ध्यर्थे जपे विनियोगः ।
अथांगुलिन्यासः । ॐसीतायै अंगुष्ठाभ्यां नमः ! ॐरमायै तर्जनीभ्यां नमः । ॐमातुलुङ्ग्यै
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १४] मनोहरकाण्डम् ७२१
रजोरूपा सत्वरूपा तामसी वह्निवासिनी । हेममृगापक्तचित्ता वाल्मीक्याश्रमवासिनी ॥४४॥
पतिव्रता महामाया पीतकौशेयवासिनी । मृगनेत्रा च विद्रोही धनुर्विद्याविशारदा ॥४५॥
सौम्यरूपा दशरथस्नुषा चामरवीजिता सुमेधादुहिता दिव्यरूपश त्रैलोक्यपालिनी ॥४६॥
अन्नपूर्णा महालक्ष्मीर्धीर्लज्जा च सरस्वती । शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥४७॥
वसन्तशीतला गौरा रसातलमृतप्लावना रसानासमग्रसंस्था हेमकेयूरमण्डिता ॥४८॥
सुरार्चिता धृतिः कीर्तिः स्मृतिमंधा विभावरी । लघुदरा वरारोहा हेमकुण्डलमण्डिता ॥४९॥
द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी । श्रीरामसेवनरता रत्नताटङ्कधारिणी । ५०।
रामवामांगसंस्था च राघवच्छेदकारणी शरयूरसक्रीडाकारिणी
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७२२ आनन्दरामायणे [ सर्गः १४
दानेन सदृशानीह तानि सर्वाणि भूसुर। स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥५८॥
एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम्। सीतानाम्नां पुण्यदं च श्रवणान्मङ्गलप्रदम् ॥५९॥
नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः। सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥६०॥
अन्यत्सीतातोषदानि व्रतादीनि महान्ति च। यानि संत्यत्र ते शिष्य तानि सम्यग्वदाम्यहम् ॥६१॥
नारीभिस्तु सदा कार्यं सीतायास्तुष्टिहेतवे। वसन्तशीतलागौरीस्नानं तथै तु तत्कृते ॥६२॥
यत्र सीताकृतं तीर्थं रामतीर्थं न वर्तते। तथा लक्ष्म्याश्च गौर्याश्च सरस्वत्यादियोषिताम् ॥६३॥
तीर्थेषु च सदा कार्यं तदभावे नदीषु च। यत्र यत्र रामतीर्थं तद्वामे जानकीकृतम् ॥६४॥
ज्ञेयं तीर्थं तु सर्वत्र
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १४ ] मनोहरकाण्डम् ७२३
सर्गः १४ ] मनोहरकाण्डम् ७२३
गन्धपुष्पधूपदीपनैवेद्यवसनादिकम् । सर्वं पृथगष्टविधं जानक्यै तु निवेदयेत् ॥७६॥
ततः स्त्रीभ्यो वायनानि वस्त्रालंकारसंयुभिः । कुंकुमादिपूरितानि देयानि विविधानि च । ७७॥
देयानि कांस्यपात्राणि पक्वान्नपूरितानि च । त्रयस्त्रिंशत्तथा ऽष्टाविंशतिर्देयानि शक्तितः । ७८॥
त्रयस्त्रिंशच्च युग्मानि भोजयेच्च प्रयत्नतः । अथवा ऽष्टौ यथाशक्त्या भोजनीयानि पट्टशैः । ७९॥
रात्रौ जागरणं कार्यं गीतवाद्यादिमङ्गलैः । प्रातःकाले तृतीयायां स्नात्वा सम्पूज्य जानकीम् ८०।
होमश्चापि प्रकर्तव्यः सीतामन्त्रेण यत्नतः । तिलाज्यैः पायसैश्चापि सहस्राण्यष्टभूसुरैः । ८१॥
मुद्गहीनं नवान्नं च ज्ञेयमशानमुत्तमम् । तन्मीतातोपदं ज्ञेयं तेन वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७२४ | आनन्दरामायणे | [ सर्गः १४ |
|---|
अकृतान्यत्र तस्माद्धि कर्तव्यं यत्नतस्त्विदम् । कृत्वा रमानामतभद्रं या पूजा मानवर्भुवि ॥९२॥
सा देव्यै तोषदा ज्ञेया तस्मान्कार्या प्रयत्नतः । पूर्वोक्तानि दैवतानि तान्येवात्र विचिन्तयेत् ॥९३॥
आवाहयेच्च मुद्रार्यां जानकीं रघुनन्दनम् । अन्यच्चशृणुष्व भो शिष्य सीतारामप्रपूजने ॥९४॥
रमानामतौभद्रं च कार्यं वा मानवर्भुवि । तच्चापि पूर्ववत्सर्वं कर्तव्यं मानवैर्धिया ॥९५॥
इदं सीतारामयोश्च पूजनाथं प्रकल्पयेत् रामनाम्ना रमानाम्ना इदं भद्रं महच्छुभम् ।९६॥
यत्र द्वयोर्नामनी च रमा रामेति चोभभे । रमागभतो भद्रं च तस्माच्छ्रेष्ठं प्रकल्पयेत् । ९७ ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १५ ] मनोहरकाण्डम् ७२५
पञ्चदशः सर्गः
(लक्ष्मण-भरत तथा शत्रुघ्नकवच)
सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं बिभ्रन्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरम् ।
बिभ्रतं रघुनायकस्य सुमहत्कोदण्डवामे करे वन्दे रत्नसलक्षणं जनकजावाक्ये सदा तत्परम् ॥ १ ॥
ॐ अस्य श्रीलक्ष्मणकवचमन्त्रस्य। अगस्त्यऋषिः। अनुष्टुप्छन्दः। श्रीलक्ष्मणो देवता। शेष इति बीजम्। सुमित्रानन्दन इति शक्तिः। रामानुज इति कीलकम्। रामदास इत्यस्त्रम्। रघुवंशज इति कवचम्। सौमित्रिरिति मन्त्रः। श्रीलक्ष्मणप्रीत्यर्थं सकलमनोऽभिलषितसिद्धयर्थं जपे विनियोगः। अथाङ्गुलिन्यासः। ॐ लक्ष्मणाय
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७२६ आनन्दरामायण [सर्ग १६
नासाग्रं मे सदा पातु सुमित्रानन्दवर्धनः । रामवक्त्रेक्षणः पातु सदा नेत्रे भुवि ममैव ॥१०॥
सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि । सौम्यरूपः पातु जिह्वामाननं पातु मे द्विजान् ॥११॥
चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरान्तकः । स्कन्धौ पातु जितारिर्भुजौ पङ्कजलोचनः ॥१२॥
करौ कङ्कणधारी च नखान् रक्तनखोऽवतु । कुक्षिं पातु जितेन्द्रारिर्मे वक्षः पातु जितेन्द्रियः ॥१३॥
पार्श्वं गरुडपृष्ठस्थः पृष्ठदेशं मनोज्ञपः । नाभिं गम्भीरनाभिस्तु कटिं च रूपवान्सदा ॥१४॥
गुह्यं पातु महासक्तः पातु लिंगं हरिप्रियः । ऊरू पातु विष्णुभक्तः समुद्गाढान्तु जानुनी ॥१५॥
नागेन्द्रः पातु मे जङ्घे गुल्फौ तूर्णार्चनक्षमः । पादपद्मद्वयोऽप्यत्र पादाङ्गानि सुलोचनः ॥१६॥
चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १५ ] मनोहरकाण्डम् ७२७
अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ २६॥
कैकेयीतनयं सदा रघुपतेर्नेत्रेक्षणं श्यामलं सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वक्ये रतम्
श्रीसीताधवलातपत्ननिकटे स्थित्वा वरं चामरं धृत्वा दक्षिण करेण भरतं संवीजयन्तं भजे ॥२७॥
ॐ अस्य श्रीभरतकवचमंत्रस्य अगस्त्यऋषिः । श्री भरतो देवता अनुष्टुप्छन्दः । शंख इति बीजम् । कैकेयीनन्दन इति शक्तिः । भरतखण्डेश्वर इति कीलकम् । रामानुज इत्यस्त्रम् । सप्तद्वीपेश्वराज्ञाम इति कवचम् रामांशज इति मन्त्रः श्रीभरतप्रीत्यर्थे सकलमनोरथसिद्धयर्थे जपे विनियोगः । अथाङ्गन्यासः ॐ भरताय अंगुष्ठाभ्यां नमः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७२८ आनन्दरामायणे [सर्ग १६
शिरश्मत्पिता पातु भालं पातु हरिप्रियः। भ्रुवोर्मध्यं जनकजादत्तकंकणपत्यवतु ॥३६॥
पातु जनकजामाता मम नेत्रे मदाऽव हि। कपोले मण्डलीकान्तः कर्णमूले स्मिताननः ॥३७॥
नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः। ओष्ठौ च सुमुखे पातु पातु प्राज्ञां जटाधरः ॥३८॥
पातु पुष्करनानेत्रो मे जिह्वां दन्तान् प्रथामयः। चिबुकं रत्नसद्भूषः कंठे पातु वराननः ॥३९॥
स्कन्धौ पातु जिताशनिसुतो शत्रुघ्नवंदितः। करौ कवचधारी च नखान खड्गगोऽवतु ॥४०॥
कुक्षौ रामानुजः पातु वक्षः श्रीरामवल्लभः। पार्श्वे सधनुषाम्रेड्यः पातु पृष्ठं शुभाषणः ॥४१॥
जठरं च धनुर्द्धारी नाभिं शङ्खगोवदतु। कटिं पट्टाम्बरः पातु गुह्यं रमैकमानसः ॥४२॥
राममित्रः पातु लिंगमूहं श्रीरामसेवकः। नादग्रामस्थितः पातु जानुनी
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १६ ] मनोहरकाण्डम् ७२९
लभन्ते मानवैरत्र सत्यं सत्यं वदाम्यहम् । तस्मात्सदा जपेनीयं रामोपासकमानवैः ॥५३॥
अथ शत्रुघ्नकवचम्
अथ शत्रुघ्नकवचं सुतीक्ष्ण शृणु सादरम् । सर्वकामप्रदं व्यर्थं रामभक्तिविवर्द्धनम् ॥५४॥
शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं प श्चे श्रीरामचन्द्रनस्य विनयाद्वामे स्थितं सुन्दरम् ।
रामं स्वीयकरेण तालदलजं धुन्वन्निमित्रं वरं सूर्य्यभ व्यजनं सभास्थितमहं तं वीजयन्तं भजे ॥५५॥
ॐ अस्य श्रीशत्रुघ्नकवचमंत्रस्य अगस्त्यऋषिः श्रीशत्रुघ्नो देवता । अनुष्टुप्छन्दः । सुदर्शन इति बीजम् । कैकेयीनन्दन इति शक्तिः । श्रीभरतानुज इति कीलकम् । भरतमंत्रीत्यस्त्रम् । श्रीरामदास इति कवचम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७३० | आनन्दरामायणे | [ सर्गः १० |
|---|
शार्दूलोग्र्यो रामबन्धुः पश्चिमे भरतानुजः । रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥६५॥
सर्वतः पातु मामत्र कैकेयीतोषवर्धनः । श्यामलांगः शिरः पातु भालं श्रीलक्ष्मणाग्रजः ॥६६॥
भ्रुवोर्मध्ये सदा पातु सुमुखोऽश्विनीसुते । श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥६७॥
कर्णौ कुण्डलकर्णोऽव्यान्नासाग्रं नृपवंशजः । मुखं मम युधा पातु वाणीं पातु स्फुटस्वरः ॥६८॥
जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् । चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥६९॥
स्कन्धौ पातु महातेजा भुजौ गन्धर्ववाक्यकृत् । करे मे कङ्कणधरः पातु खड्गं नखं मम ॥७०॥
कुक्षिं रामप्रियः पातु पातु वक्षो रघूत्तमः । पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥७१॥
जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः । कटिं भरतमन्त्री
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १५ ] मनोहरकाण्डम् ७३१
सर्गः १५ ] मनोहरकाण्डम् ७३१
आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभम् । ततः शत्रुघ्नकवचं पठनीयमिदं शुभम् ॥८२॥
पठनीयं भरतस्य कवचं परमं ततः । ततः सौमित्रिकवचं पठनीयं सदा नरैः ॥८३॥
पठनीयं ततः सीताकवचं भाग्यवर्द्धनम् । ततः श्रीरामचन्द्रस्य कवचं सर्वशोभनम् ॥८४॥
पठनीयं नरैर्भक्त्या सर्ववांछितदायकम् । एवं षट् कवचान्यत्र पठनीयानि सर्वदा ॥८५॥
पठनं षट्कवचानां श्रेष्ठ मोक्षैकसाधनम् । ज्ञात्वाऽत्र मानवैलैक्त्या कार्य यः पठनं सदा ॥८६॥
अशक्तेनात्र चत्वारि पठनीयानि सादरम् । मारुतेश्च सौमित्रेः सीताया राघवस्य च ॥८७॥
इमानि पठनीयानि चत्वारि कवचानि हि । चतुर्णां कवचानां च पठने मानवस्य च । ८८।
न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७१२ आनन्दरामायणे [ सर्गः १६
रामजयेति चोक्त्वा तु द्विवारं चाथ सुस्वरम्। रामेति द्वेऽक्षरे त्वन्ते सोक्त्वा वीणास्वरेण च ॥९९।
चतुर्दशाक्षराख्यं कीर्तनार्थं मयोदितः ॥१००॥
राम जय राम जय राम जय राम इति मनुः।
मंत्रशास्त्रेषु ये मंत्रास्ते जपार्थं प्रकीर्तिताः। इमे मंत्राः कीर्तनार्थं तावद्गीया मानवोत्तमैः ॥१०१।
एतेषामपि चेद्भक्त्या मंत्राणां च जपः कृतः। तदा भस्मीभवन्त्येति तेषां पापानि वै क्षणात् ॥१०२॥
अन्यान् मंत्रान् प्रवक्ष्यामि तान् शृणुष्व द्विजोत्तम, राजीवलोचनेत्युक्त्वा मेघश्याममिति वै ततः ॥१०३।
तथा सीतारञ्जनेति राजारामेति वै ततः। एकोनविंशद्वर्णश्च राममंत्रस्त्वयं स्मृतः ॥१०४।
राजीवलोचन मेघश्याम सीतारञ्जन राजाराम इति मन्त्रः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १८ ] मनोहरकाण्डम् ७३३
सप्तदशसुवर्णश्च राममन्त्रस्त्वयं शुभः। कीर्त्तनीयः सुस्वरं हि वीणावाद्यध्वनादिना ॥११३॥
रविकुलजातं वन्दे सुरगुरुगणितम् इति मनुः।
विष्णोदासशृणुष्वन्यान् राममंत्रान् शुभप्रदान्। येषां स्मरणमात्रेण महन्पापं लयं व्रजेत् ॥११४॥
कौसल्यासुतेत्युक्त्वाथ रामेति द्वयक्षरे तथा तथा सीताराजनेति मेघश्यामेति वै ततः ॥११५॥
षोडशाक्षरमंत्रोऽयं कीर्तनीयः शुभावहः। वीणास्वाद्यपूर्वकञ्च कलकण्ठेन सुस्वरः ॥११६॥
कौसल्यासुतराम सीताराजन मेघश्याम इति मनुः।
षोडशाक्षरमंत्रोऽयं कीर्तनीयः सदा नरैः। सर्वपापक्षयकरः सर्ववांछितदायकः ॥११७॥
दशरथनन्दनेति पूर्वमुक्त्वा ततः परम्। मेघश्याममिति वै चोक्त्वा सीतेति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७३४ | आनन्दरामायणम् | [ सर्गः १५ |
|---|
भजेति द्व्यक्षरे पूर्वं सीताराममिति क्रमात् ।
मानसेति ततश्चोक्त्वा भजेति द्व्यक्षरे पुनः ॥१२६॥
ततो राजाराम इति मंत्रः पञ्चदशाक्षरः ।
कीर्तनीयो मनुष्याय वीणावाद्येन सुस्वरः ॥१२७॥
भज सीताराम मानस भज राजारामम् इति मनुः ।
श्रीसीताराममित्युक्त्वा वन्दे चोक्त्वा ततः पुनः ।
श्रीराजाराममिति च कीर्तयेत्सुस्वरं मुहुः ॥१२८॥
द्वादशाक्षरमंत्रोऽयं कीर्तनीयः सदा जनैः ।
वीणावाद्यादिना पुण्यः सर्ववांछितदायकः ॥१२९॥
श्रीसीतारामं वन्दे श्रीराजारामम् इति मनुः ।
रावणमर्दनत्युक्त्वा रामेत्युक्त्वा ततः परम् ।
राघवति ततश्चोक्त्वा वाली चेति ततः क्रमात् ॥१३०॥
मर्दनेति पुनश्चोक्त्वा रमाठ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंद्वितीयोऽयं मया प्रोक्तो मंत्रो वै षोडशाक्षरः । १४०॥
सर्गः १५ ] मनोहरकाण्डम् ७३५
कीर्तनीयो मनुर्मर्त्यैः सर्वपातककृन्तनः। वीणावाद्यस्वरेणोच्चैः कलकंठेने सुस्वरः ॥१३९॥
मां पाह्यतिदीनं राघव त्वत्पदयुगलीन्मिति ।
द्वितीयोऽयं मया प्रोक्तो मंत्रो वै षोडशाक्षरः । १४०॥
जय जयेति वै चोक्त्वा राघवेति ततः परम् मप्ताक्षग्मनुश्चायं कीर्तनीयः सदा नरैः ॥१४१॥
जय जय राघव इति मनुः ।
जयजयेति संकीर्त्य तथा रघुवरेति च । अष्टाक्षरमनुश्चायं कीर्तनीयः सदा नरैः ॥१४२॥
जय जय रघुवर इति मनुः ।
त्वं मां पालयेत्युक्त्वा सीतारामेति वै पुनः । नवाक्षरमनुश्चामनुधायं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७१६ | आनन्दरामायणे | [ सर्गः १५ |
|---|
राम जय सीताराम राघवेति मनुः।
दशरथनदनेति रघुकुलेति वै ततः भूषणेति ततश्चोक्त्वा कौसल्येति ततः परम् ॥ १५०॥
विश्रामेति ततश्चोक्त्वा पंकजलोचनेति च रामेति द्व्यक्षरे चापि ह्यष्टाविंशाक्षरो मनुः ॥ १५१॥
अयं सदा कीर्तनीयो वीणावाद्येन सुस्वरः प्रोक्तः पातकविध्वंसी सर्वकामप्रदायकः ॥ १५२॥
दशरथनंदन रघुकुलभूषण कौसल्याविश्राम पंकजलोचन रामेति मनुः
सीताराम जयेत्युक्त्वा राघवेति ततः परम्। रामेति द्व्यक्षरे चापि मन्त्रस्त्वेकादशाक्षरः ॥ १५३॥
कीर्तनीयः सुस्वरेणैयं मन्त्रो वीणास्वरेण च। महापातकहन्त्रीकः सर्ववांछितदायकः ॥ १५४॥
सीताराम जय राघव रामेति मनुः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्ग १७] मनोहरकाण्डम् ७३७
कोदण्डभंजनेत्युक्त्वा रावणमर्दनेति च । कौसल्येति तथोक्त्वा विश्रामेति ततः परम् ॥१६२॥
सीतारंजनेति ततो राजारामेति वै ततः । सप्तविंशाक्षराख्यं मनु प्रोक्तः शुभप्रदः ॥१६३॥
कोदण्डभंजन रावणमर्दन कौसल्याविश्राम सीतारंजन राजारामेति मनुः ।
कोदण्डखंडनेत्युक्त्वा वालीताडन चेति वै । लङ्कादहनेति ततः पाषाणतारणेति च । १६४।
रावणमर्दनेत्युक्त्वा रविकुलेति वै ततः । भूपेति तथोक्त्वा कौसल्येति ततः परम् ॥१६५॥
विश्रामेति तथोक्त्वा सीतारंजन चेति वै । राजारामेति चोक्त्वा पञ्चाशदक्षरो मनुः । १६६॥
अयं सदा कीर्तनीयो वीणावाद्येन सुस्वरः । मन्त्रोऽयं हि नृणांऽत्रत्यं महापातकनाशनः ॥१६७॥
**कोदण्डखंडन वालीताडन लङ्कादहन पाषाणतारण रावणमर्दन रविकुलभूषण
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७३८ | आनन्दरामायणे | [ सर्गः १६ |
|---|
यथा वह्निस्तूलराशिं स्पर्शित्वाः कापनां विना । कामेन वा दहेत्येव क्षणात्तद्वन्न संशयः ॥१७६॥
मंत्रैः प्रबन्धैः काव्यैश्च नानाचारित्रवर्णनैः
अत्यशुद्धैः स्तुतो रामः कल्पितैरपि स्वेच्छया । तैश्च तुष्टो भवत्यत्र श्रीरामो नात्र संशयः ॥१७७।
विनाश्रयेण रामस्य यत्कृतं स्तवनादिकम् । तेनापि तुष्टः श्रीरामो भवत्येव न संशयः ॥१७८॥
आश्रयेणापि या निन्दा कृता श्रीराघवस्य च । सा भवेन्नरकायैव नात्र कार्या विचारणा ॥१७९।
किं शास्त्रैश्च पुराणैश्च पठितैः पाठितैरपि । यदि रामे रतिर्नास्ति तैर्भवेन्मानवस्य किम् ॥१८०॥
रामप्रीतिद्युतस्यात्र
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १६ ] मनोहरकाण्डम् ७३५
सर्गः १६ ] मनोहरकाण्डम् ७३५
एतैश्चैव समायुक्तं किंकिणीनादनादितम् । संपादितेश्च सम्यग्वै धेनुं दद्यात्पयस्विनीम् ॥ ४ ॥
ब्राह्मणान् भोजयेत्पश्चात् शतमष्टोत्तरं सुधीः । एवं कृते विधाने तन्महाकाव्यं फलप्रदम् ॥ ५ ॥
रामायणं भवेन्नूनं नात्र कार्या विचारणा । यस्मिन् रामस्य संस्थानं रामायणमथोच्यते ॥ ६ ॥
एवं त्वया यथा पृष्टं मया सर्वं निवेदितम् ।
विष्णुदास उवाच
किञ्चिद्व्रतं हनुमतस्त्वं मां वक्तुमिहार्हसि ॥ ७ ॥
श्रीरामदास उवाच
यदा रामस्त्रिकूटाद्रौ नागपाशैस्तु पीडितः । नारदस्य वचः श्रुत्वा सस्मार विनतासुतम् ॥ ८ ॥
तदाऽसौ काश्यपो वीरः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें