सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)

Srimad Ananda Ramayana Hindi

महर्षि वाल्मीकि / अज्ञात द्वारा

स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariHindipublished811 पृष्ठ

सर्गः १८ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ७०५

पृष्ठ 521 स्कैन

सर्गः १८ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ७०५


ययुस्ते राघवं द्रष्टुमयोध्यायां मुदान्विताः । २३ ।
गन्धर्वराजगेहे स भोजनं कर्तुमुद्यतः । स्नात्वा तत्र सुहृद्गेहे सीतया बन्धुभिः सुखम् ॥२४॥
पुत्राभ्यां भोजनं कर्तुमशने संस्थितोऽभवत् । गन्धर्वराजः श्रीरामं पूजयामास सादरम् ॥ २५॥
परिवेषितानि पात्राणि सुहृत्स्त्रीभिस्तदा ऽभवत् । दिव्यान्र्नैर्मधुरैः श्रेष्ठैः पक्वान्नैर्विविधैरपि ॥२६॥
एतस्मिन्नन्तरे विप्रा रामनाथपुरस्थिताः, सुहृद्गेहे गतं रामं श्रुत्वा तत्र बभूवुस्ते ॥२७॥
गन्धर्वराजद्वारस्थैर्दूतैः श्रीरामवाय हि । भूसुराणामागमनं तदा शीघ्रं निवेदितम् ॥२८॥
तद्दूतवचनं श्रुत्वा राघवश्चातिसम्भ्रमात् । प्रत्युद्गम्य स्वयं विप्रान्ननाम शिरसा प्रभुः । २९॥
गन्धर्वराजगेहे तांश्चात्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 522 स्कैन
६०६आनन्दरामायणे[ सर्गः १८

तत्तेषां वचनं श्रुत्वा फलभागान्विचारितान् । पुरस्तात्स्थापयामास विप्राणां वरमद्गतः ॥ ४१ ॥
उवाच मधुरं वाक्यं राघवः स्मितपूर्वकम् । फलानीमानि भो विप्रा भक्षयध्वं यथासुखम् ॥ ४२ ॥
लेखयित्वा शिलायां हि यदा मुद्रां करोम्यहम् । तदाऽशनादिकं कर्म सर्वमन्यत्करोम्यहम् ॥ ४३ ॥
क्षणं वित्तं क्षणं चित्तं क्षणिकं च स्वजीवितम् । यमोऽतिनिर्दयः सोऽस्ति धर्मं शीघ्रमथाचरेत् ॥ ४४ ॥
शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् । लक्षं त्यक्त्वा तु दातव्यं कोटिं त्यक्त्वा शिवं भजेत् ॥ ४५ ॥
कोटिविघ्नानि गीतायां दशकोटानि जाह्नवीम् । शतकोटानि जायन्ते दाने विघ्नानि भूसुराः ॥ ४६ ॥
अतः कार्या त्वरा दाने सर्वदा तु नरोत्तमैः । निद्रायाः पूर्वकाले तु निद्रायाः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 523 स्कैन

सर्गः १८ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५०७


रामनाथेन यद्दत्तं पुरदानं द्विजोत्तमान् । रामनाथपुरं चेति तदारभ्य प्रथां गतम् ॥५७॥
तस्य ब्रह्मपुरमिति नाम प्राथमिकं स्मृतम् । रामनाथपुरं चेति तस्यैवाख्याऽपरा स्मृता ॥५८॥
शिलामारोपितं द्रव्यं दक्षिणार्थं निधाय सः । तां शिलां पूज्य विप्रेभ्यः श्रीरामः सीतया ददौ ॥५९॥
ततोऽब्रवीद्वायुपुत्रं भोजनोत्तरं त्वया । विमानेन शिला नेया रामनाथपुरं द्विजैः ॥६०॥
कम्बुकण्ठं ततः पत्रं लेखयामास राघवः । ब्राह्मणानां त्वया कार्यं साहाय्यं सर्वदेति वै ॥६१॥
ततस्तुष्टा द्विजाः सर्वे ददुराशीः सहस्रशः । चकार भोजनं रामस्ततस्तैः परिवेष्टितः ॥६२॥
ततः सर्वे विमानेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 524 स्कैन
५०८आनन्दरामायणे[सर्गः १८

मासेनेकेन पत्रं ते दर्शयिष्यामहे वयम् । ततो मुमोच तान्राजा तेऽपि तूष्णीं पुरं ययुः ॥७२॥
तटाकस्य तटं भित्त्वा प्रवाहाः शतशस्ततः । मोचयामासुः सर्वत्र नांतं तस्य जलस्य ते ॥७३॥
ददृशुः सकला विप्रास्ततस्ते प्राणसंकटम् । साग्न्या तत्र निराहारा निषेदुः सङ्गमस्तटे ॥७४॥
राघवं परमात्मानं चिंतयामासुरादरात् । एवं मासे व्यतिक्रांन्ते वर्षं कृत्वाऽमनो नृपात् ॥७६॥
भयात्प्राणांस्त्यक्तुकामाश्चासन्स्तस्मिन जलाशये । तदा तेषां स्त्रियः पुत्राश्चक्रुः कोलाहलं महत् ॥७७॥
तान्सर्वात्सांत्वयामासुर्नानानीत्युत्तरैर्द्विजाः । स्वयं स्नात्वा द्विजाः सर्वे ददुर्दानान्यनेकशः ॥७८॥
चक्रुः प्रदक्षिणाः सप्त तटाकायोत्तराणनाः । ऊर्ध्वदीर्घस्वरेणैव प्रबद्धकरांसंपुटाः ॥७९॥
हे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 525 स्कैन

सर्गः १८ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५०९


जगाम दृष्ट्वाज्ञांतं दर्शयामास तां शिलाम् । समुद्रः कण्ठबद्धां लिपिं राजाऽपरो द्विजः ॥ ९०॥
तं तदा रोपयामास शृङ्गाग्रं वायुजो भुवि । तस्मिंश्च तटाके ह्यत्र विप्राः स्थिताः पुरा ॥९१॥
नृपं मोचयितुं ये ये सन्तापाः समागताः , तांश्चापि वायुपुत्रेणैव शमायितः ॥९२॥
द्विजहृत्तापशमनाद्भूत्तदाप्रभृतीदं तीर्थं नाम्ना तापशमं यत्र भ्रान्त्युद्भवत्पुनः ॥९३॥
राज्यदानेन रामस्यौदार्यं लोकान्वयोजितुम् । उक्तस्तीर्थसमीपस्थः शम्भुः संस्थापितः शुभः ॥९४॥
उद्धारेश्वरवेति नाम्ना मूर्तिः प्रकीर्त्तिता ।
स्नानं दिना तस्मिंस्तु नृणां तापत्रयं न हि ॥९५॥
ततः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 526 स्कैन

५१० आनन्दरामायणे [ सर्गः १९

एकोनविंशः सर्गः

( रामकी दिनचर्या )

श्रीरामदास उवाच

शृणु शिष्य वदाम्यद्य रामराज्ञः शुभावहा । दिनचर्या राज्यकाले कृता लोकान् हि शिक्षितुम् ॥ १ ॥
प्रभाते गायकैर्गीतैर्बोधितो रघुनन्दनः । नववाद्यनिनादांश्च सुभ्रं शुश्राव सीतया ॥ २ ॥
ततो ध्यात्वा शिवं देवीं गुरुं दशरथं सुरान् । पुण्यतीर्थानि मानुषं देवताभवनानि च ॥ ३ ॥
नानाक्षेत्राण्यरणानि पर्वतान्सागरांस्तथा । नदींश्चैव ह्रदां: पुण्यांस्ततः सीतां ददर्श सः ॥ ४ ॥
प्रणमन्ती समुत्थाप्य धृत्वा सीताकरं प्रभुः मञ्चकादवतीर्याथ दासीभिः परिवेष्टितः ॥ ५ ॥
बहिः कत्तां शनैर्गत्वा सम्पाद्यावश्यकं प्रभुः । ययौ पुनः प्रदाशीभिः क्रीडाशालां पृथक्तमः ॥ ६ ।
कृत्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 527 स्कैन

सर्गः १९ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) [ ५११


संप्पूज्य मुकुटं रामः पूजयामास मञ्चकम् । दीपिकां दर्पणं पूज्य पुस्तकादीनपूजयत् ॥१८॥
पुनः संपूज्य स्वगुरुं पूर्वं विप्रेषु पूजितम् । उच्चासनस्थितं नत्वा कथां शुश्राव सन्मुखात् ॥१९॥
पुत्राभ्यां बन्धुभिः पत्न्या पण्डितैः परिवेष्टितः । ततः प्रप्रार्थितो रामः सीतया स मुहुर्मुहुः ॥२०॥
विप्रादिभ्योऽप्यथाहारं चकार स्वयमात्मनः । कामधेनूद्भवैरन्नैः कल्पवृक्षसमुद्भवैः ॥२१॥
मणित्रयविनिर्मैथ वह्नी शांतकृतेरपि । ततो भुक्त्वा हि तांबूलं बिभ्रद्रामोगिराभवः ॥२२॥
वस्त्राणि कटिं दिव्यवस्त्रैः शय्याोपरि दधात नः । एतस्मिन्नन्तरे पूर्वं समाहूतो ययौ भिषक् ॥२३॥
गणकोऽपि राघवस्य प्रत्युद्गम्यातिमानितौ । निषेदतु राघवस्य पूजयामास तौ प्रभुः ॥२४॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 528 स्कैन

५१२ आनन्दरामायणे [सर्गः १९

ऐन्द्रयोगो महान्द्य सत्राऽयं वर्णं शुभम् कर्कीटस्थोऽथ चन्द्रोऽस्ति द्वितीयेऽन्तेऽधुनेम ॥३२॥
मासोऽयं चैत्रमासोऽस्ति वसन्तश्च प्रपद्यते। सदा कुरुष्व राज्यं त्वं चिरं निहतकण्टके ॥३३॥
सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः। ततोऽद्यापि पठन्त्युच्चैर्द्वादशाम्राश्वलायनान् ॥३४॥
एवं ज्योतिर्विदा गीतं पप्रच्छ रघुनन्दनः। दत्वा तेभ्यो दक्षिणां दद्यात्सार्द्धवस्त्रांस्तदाऽह्लादम् ॥३५॥
ततो गद्यं ययौ वेतन्ब्राह्मणेभ्यो मनोरथान् समग्रे... दंष्ट्रान्स्नातानूपुष्पदान्गन्धवेदयत् ॥३६॥
शमनान्सकलेभ्यश्च दत्त्वाऽभिष्टान्वरं प्रभुः। पुनस्नापयदात्मानं गन्धाद्भिर्गन्धवर्चस्करैः ॥३७॥
एतस्मिन्नन्तरे रामं नापितः प्रयतो जवात्। मुकुरं दर्शयामास रत्नमन्वन्तमोजिनम् ॥३८॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 529 स्कैन

सर्गः १९ ] राघवानन्दम् ( उत्तरार्द्धम् ) ५१३


ततश्च रत्नकक्षायां नृपान्पौरान्सुहृज्जनान् । समागतान्ददर्शनार्थं ददर्श रघुनन्दनः ॥५१॥
ततः पञ्चमकक्षायां पुष्पञ्च पुष्पवाटिकाः । दूतन्ददर्श भोगांश्च शस्त्रहस्तान्सहस्रशः ॥५२॥
दशां च षष्ठकक्षायामश्वाष्ट्राञ्छतशस्तथा । वीरान्ददर्श भोगांश्च प्रबद्धकरसम्पुटान् ॥५३॥
ततः सप्तमकक्षायां ययौ रामः सभां प्रति । शिबिकायाश्चावतीर्य शनैः सिंहासनं ययौ ॥५४॥
सभ्यं कृत्वा नमस्कृत्य सोपानैः स शनैः प्रभुः । सिंहासनमारुरोह वरच्छत्रसुशोभितम् ॥५५॥
दधार छत्रं सौमित्रिश्चामरं भरतस्तदा । शत्रुघ्नो व्यजनं रम्यं पादुके वायुनन्दनः ॥५६॥
सुग्रीवो जलपात्रं च ह्यदर्शं विभीषणः । दधार हस्ते ताम्बूलपात्रं स वालिनन्दनः ॥५७॥
वस्त्रकोशं जाम्बवांश्च दधार वेगवत्तरः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 530 स्कैन
५१४आनन्दरामायणे[ सर्गः १९

प्रत्युद्गम्य तोयहस्ता तन्प्रतीक्षां चकार सा । रामोऽपि पूर्वलोकान्नमस्कृत्यत्वनुक्रमात् ॥ ६९॥
प्रविशन्मकलानात्रो ददौ ताम्मान्स्वनोपयत् । ततोऽग्रे बन्धुभिर्गेहं पृथाभ्यां संविवेश सः ॥७०॥
ददर्श जानकीं रामः पीतकौशेयधारिणीम् । साऽपि शर्म ययौ सीता लज्जायाऽवनतानना ॥७१॥
वक्रनेत्रकटाक्षैश्च मोहयन्ती रघूत्तमम् । नानालङ्कारसंयुक्ता वन्नूपुरनिःस्वना ॥७२॥
ततो रामो जलं स्पृष्ट्वा धृत्वा सीताकरं मुदा । लक्ष्मणादीन्विमृज्यैवं सीतागेहं विवेश सः ॥७३॥
बहिर्दृष्टं श्रुतं वाऽथ यद्यत्कौतुकमुत्तमम् । तन्मवं जानकीं प्राह तोषयामास तां मुहुः ॥७४॥
ततः सर्वान् समाहूय भोजनार्थं समुद्यतः । स्नानं कृत्वा स मध्याह्नकर्म चक्रे रघूत्तमः ॥७५॥
तर्पयित्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

सर्गः १९ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५१५

पृष्ठ 531 स्कैन

सर्गः १९ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५१५


जनागमान्वितां दृष्ट्वा दृष्ट्वेष्यांडिरिङ्गिताम् । शनैर्ययौ प्रभुर्गोष्ठं नानाधेनूर्ददर्श सः ॥८६॥
तां सम्प्रेक्ष्य गृहं मातुः स्वदासीपरिवेष्टिताम् । द्वारान्निर्गत्य ययौ रामस्तत्र ते लक्ष्मणादयः ॥८७॥
चक्रुः प्रणामं श्रीरामे तैः सहैव शनैः शनैः । वाजिशालां ययौ रामो दृष्ट्वा तत्र स वाजिनः ॥८८॥
गजशालामुष्ट्रशालां दृष्ट्वा रामः शनैः शनैः । ददर्श शस्त्रागारांश्च व्याघ्रशालां प्रभुर्ययौ ॥८९॥
दृष्ट्वाऽथ शिविकाशालां माहिषेयीं विलोक्य च । महिषादृष्टवानां च रथशालां ददर्श सः ॥९०॥
आरुह्य स्यन्दने रामः शनैः सर्वैरनिर्ययौ । सप्तकक्षाः समुल्लङ्घ्य तत्रस्थाः पूर्ववज्जनैः ॥९१॥
सर्वैर्युक्तब्रह्मचर्य्यां तां श्रेष्ठां कक्षां ददर्श सः । तत्र

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 532 स्कैन

५१६ आनन्दरामायणे [ सर्गः १२

सायंकाले ततः संध्यां कृत्वा हुत्वा यथाविधि । गंधाद्यैरुपचारैश्च शिवं सम्पूज्य भक्तितः ॥१०३॥
कृतोपहारं निर्वेद्य पुत्राभ्यां बन्धुभिः सह । शिविकायां पुनः स्थित्वा देवयानेषु च ॥१०४॥
साकेतस्थेषु श्रीरामोगत्वा नत्वा शिवादिकान् । नानाविधान्देवगणान् फलैः पुष्पैर्ह्यपूजयत् ॥१०५॥
देवालयेषु सर्वेषु सुराणां तेषु राघवः । शृण्वन्नानाकीर्तनानि वारस्त्रीनर्तनान्यपि ॥१०६॥
पश्यन्नानाकौतुकानि परां मुदमवाप सः । वाहना रूढ देवान् मपश्यत्कौतु कानि च ॥१०७॥
ततो ययौ ब्राह्मणेन दृढमार्गेण राघवः । रत्नदीपप्रकाशैश्च विवेश निजमंदिरम् ॥१०८॥
क्षणे नानागथाभिश्च वार्त्ताभिः पुत्रबन्धुभिः । सार्द्धयामां निशां नीत्वा रतिगेहे विवेश सः ॥१०९॥
एतस्मिन्नन्तरे तत्र सीताऽग्रे रतिमन्दिरे ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 533 स्कैन

सर्गः १९ ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५१७


दौहित्रार्था कदाचित्तु यथा नेत्रे भुजौ यथा । यथा तौ मणिसूनू च यथाऽहं लक्ष्मणस्तथा ॥१२१॥
तथापि अङ्कौ द्वौ पुत्रौ माऽभूद्भूयोऽपि सन्ततिः । अतः परं पुनः संविन्न जाता दुहितापि वा ॥१२२॥
एकादपि कारणं तत्र कियदिति तदुच्यते मया । तस्यास्तद्वचनं श्रुत्वा जानकीं प्राह राघवः ॥१२३॥
स्वकन्या च मया कस्मै देयाऽत्र जगत्त्रये । मत्समो नृपः कोऽत्र मन्त्रीशाऽर्कनिखण्डनात् ॥१२४॥
यस्य पादौ नृपाः सर्वे शिरसा नम्रतां गताः । को योग्यः सन्न मे जामातुश्चरणेऽमृतात् ॥१२५॥
मद्दानवाणां चरणीं विनाऽहं यस्य वै ददाम् । अतस्त्वं सर्वलोकेऽस्मिन्मातृणाम् परा प्रिये ॥१२६॥
कुशादीनां तु याः कन्याश्चामन्द्रे कन्यकेव नित्यशः । किं यावन्मदङ्गात् प्राप्ताऽसि भुवि ले ॥१२७॥
आश्चर्यं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 534 स्कैन

An exact transcription of the page into clean Markdown in Unicode Devanagari:


५१८ आनन्दरामायणे [ सर्गः २०

कन्यामपि तथैकां तेऽहं दास्यामि न संशयः । तदा ते बहुपुत्रैश्च तारुण्यं स्वास्यते न हि ॥ १३७॥
अत स्त्रीणां सहस्राणि षोडशैकशतं पुनः । तथा मुख्याष्टम्यश्च नार्यस्त्वया सह करीम्यहम् ॥१३८॥
तदा बहूनां पुत्राणां स्नुषाणां त्वं सुखं भज । अहं चापि बहुस्त्रीणां तदा सौख्यं भजामि वै ॥१३९॥
इति रामवचः श्रुत्वा तदा सीता स्मितानना । राघव हर्षिता प्राह वाक्चातुर्यं कृतः प्रभो ॥१४०॥
एतल्लक्ष्ण त्वया राम येन रञ्जयसीह माम् । एवं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

सर्गः २० ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५१९

पृष्ठ 535 स्कैन

सर्गः २० ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५१९

न देहेन न निष्कामं तपश्चर्याव्रतं कृतम् । न देहः श्रमितस्तस्य शीतोष्णसहनादिभिः ॥ ९ ॥
एतादृशस्तस्य देहो बहुब्राह्मणहिंसकः । लङ्कायां ज्वलनेऽद्यापि निष्पापां भूयतेऽग्रसः ॥ १० ॥
ज्वालानां भस्त्रवच्छब्दो यः पृष्टो मां त्वया लव । जनशब्दादिने नैव श्रूयतेऽत्र जनैः सदा ॥ ११ ॥
चितायां यस्य चाद्यापि वायुपुत्रेण प्रत्यहम् । काष्ठभारशतं नीत्वा लङ्कायां क्षिप्यते मुहुः ॥ १२ ॥
यदा तस्याघशान्तिः स्यात्तदा भस्मीभविष्यति । अन्यत्ते कारणं वच्मि तच्छृणुष्व द्विजो लव ॥ १३ ॥
देहान्ते रावणेनापि रामाय याचितो वरः । वरेण येन लोकानां स्मरणं मे भविष्यति ॥ १४ ॥
न त्वया मे वरो देयस्तच्छ्रुत्वा राघवोऽब्रवीत् । त्वद्देहज्वलिनी ज्वालाशब्दः सर्वे जना भुवि ॥ १५ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 536 स्कैन

५७० आनन्दरामायणे [ सर्गः २०

किं सुखं ह्यवतारोऽयं हि तिर्यग्योनावपि मयि । अतश्चास्मिन्नवतारे न स्थितं हि चिरं मया ।२६।
ततः समुद्रमथने मज्जन्तं मन्दराचलम् । दृष्ट्वा धृत्वा कूर्मरूपं स्वपृष्ठे पर्वतो धृतः ॥२७॥
तत्रापि गर्हितं रूपं मया ैव विचार्य तत् । किं चाग्निरजस्त्वां हि सुखं तत्र भवेज्जले ॥२८।
ततो दृष्ट्वा सागरे हि मज्जन्तीं पृथिवीं मया । क्रोडरूपं महत्कृत्वा दंष्ट्रायामवनिर्धृता ॥२९॥
मम पृथ्वीति मन्यधी हिरण्याक्षो मया हतः किं सुखं पशुयोन्यौ हि गदितायां भवेज्जले ॥३०।
अतश्चास्मिंश्चावतारे न लब्धं ह सुखं मया । प्रह्लादवचनात्स्तम्भाच्चाऽनिसिंहस्वरूपधृक् ॥३१।
अवतीर्णस्त्वहं भूम्यां हिरण्यकशिपुः क्षणात् मया तदा हतः क्रोधात्तद्वयमतिभास्वरम् ।३२।
यद्द्रष्टुन्निकटे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 537 स्कैन

सर्गः २० ] राज्यकाण्डम् ( उत्तरार्द्धम् ) ५२१


नेदृशं तत्र भोक्ष्यामि सुखं शृणुत विस्तरात् । कारागृहस्थितिः पित्रोर्जन्मन्दावेव मे भवेत् ॥४३॥
मातृपितृविहीनश्च तदा स्थास्यामि शैशवे । परकीये नन्दगेहे वृद्धिं गच्छामि गोकुले ॥४४॥
गोपवेषस्य किं सौख्यं गोरक्षे भ्रमणं मम । स्त्रीगोनागाश्वपश्यादि बहूँस्तत्र निहन्म्यहम् ॥४५॥
देवपत्नीवरान्कुर्यां वस्त्रौघमयनादिकम् । जनार्यचोरि दुष्कर्म कृत्वाहं गोकुले ततः ॥४६॥
मथुरायां हनिष्यामि सजं कंसमातुलम् । तत्र दास्या रतिं कुर्यां नैष्ठुर्यं गोपिकादिषु ॥४७॥
सङ्कोचा गोपिकाः सर्वा रामो बन्धुर्मोक्ष्यति । अन्यच्च बाल्यवनशयान्मे हि पराश्रयः ॥४८॥
न पराश्रयतो दुःखं किञ्चिदस्ति जगत्त्रये । ततोऽहं स्वस्थलं त्यक्त्वा तटाके सागरस्य च ॥४९।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 538 स्कैन
५२२आनन्दरामायणे[ सर्गः २०

ततो दैत्यान्यज्ञकर्मसक्तान्दृष्ट्वा पुनस्त्वहम् । कलावग्रे बुद्धरूपं धरिष्याम्यतिमोहनम् ॥५९॥
निजवाक्यैर्मतिंस्तेषां दैत्यानां यज्ञकर्मतः । परावर्त्य कियत्कालं स्थास्यामि जगतीतले ॥६०॥
तदाऽहं मौनमाश्रित्य मलिनः केशलोञ्चकः । यूकादिजीवधारी च सर्वेषामुपदेशकत् ॥६१॥
अहिंसनंवनं सर्वान् दर्शयिष्याम्यहं जनान् । तज्जन्मन्यतिदुःखं मे केशयूकामलादिना । ६२॥
ततोऽग्रेऽहं धरिष्यामि कल्किरूपं महन्मखेः । अंते दृष्ट्वा जनानां च सर्वत्र वर्णसंकरम् ॥६३॥
भूत्वाऽत्र विप्रदेहेन खङ्गधारी हयस्थितः । संहारं क्षणमात्रेण दुष्टानां हि करोम्यहम् ॥६४॥
सोऽवतारो नातिचिरं मम स्थास्यति भूतले । न तत्र सुखलेशोऽपि मे भविष्यति भूसुराः ॥६५॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

सर्गः २० ] गव्यकाण्डम् (उत्तरार्द्धम्) ५२३

पृष्ठ 539 स्कैन

सर्गः २० ] गव्यकाण्डम् (उत्तरार्द्धम्) ५२३

सुमेधासदृशी यत्र मे श्वश्रूः स्नेहवर्धिनी। विद्रुहः शमुग यत्र विवादो यत्र गाधिनः ॥७७॥
लक्ष्मणो यत्र मे मन्त्री सरयूश्च मे नदी। पार्षदा छत्रपाद्याश्च चतुरन्तो गजो महान् ॥७८॥
द्विजेच्छानुरूपं यत्र मन्नं मेऽङ्गुष्ठितं सदा। इदं वैकुण्ठसदृशं गृहं यत्राणिमागुणः ॥७९॥
चिन्तामणिलकारो हृदये यत्र वर्तते । एकादश सहस्राणि वर्षाण्यायुश्चिरं मम । ८० ।
अनशं मे शिरच्छेदं केषामप्यवनीभृताम्। एष मया सुख भुक्तमिह जन्मनि भूयसः ॥८१॥
नाऽल्पा बाष्पपुरिवाऽस्ति सुगेच्छा मम भूतले । जनएवायतारो ऽयं पूर्णकाममया धृतः ॥८२॥
भूतनाम्भावनाय चे तेऽंशादेव मया धृताः । यदन तु बने पूर्वं सीतया बन्धुना यया ॥८३॥
तच्च लोकोपदेशार्थं भूभारहरणाय च । जनोपदेशः कीदृक् म कृतस्तं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 540 स्कैन
६२४आनन्दरामायणे[ सर्गः २०

सुख दुःखं समं ज्ञेयं सुखं हर्षो न मानयेत् ।
शोकः कार्यो विपत्तौ न चेति लोकान् प्रदर्शितम् ॥९४॥

राज्यभोग्यं मया त्यक्त्वा भुक्ताः क्लेशास्सदा वने।
कामक्रोधां रिपूणां च दुष्टानां हि वशो भुवि ॥९५॥

जनैः कार्यं सदा चेति ह्युपदेशं मया वने।
बहवो निहतास्तत्र राक्षसा मुनिहिंसकाः ॥९६॥

स्त्रीसङ्गः सर्वदा त्याज्यस्त्वेकाकी च तपेश्चरेत्।
नाभक्त निस्रुतिश्च हि स्त्रीषु कार्यं नरैः सदा ॥९७॥

इत्थं मयोपदिशता सीतयाऽथ तदा वने ।
वियोगो दर्शितो लोकान् मत्तो भिन्ना न जानकी ॥९८॥

कदापि जायते विप्राः सत्यं चेदं ब्रवीम्यहम् ।
आर्त्तस्य रक्षणं कार्यं कार्यो दुष्टस्य निग्रहः ॥९९॥

मयोपदिशता चेत्थं जनान्सूर्य्यसुतस्तथा।
दृप्तौ निहतौ वालिरावणावितरे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें