श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
सर्गः ६ ] राज्यकाण्डम् (पूर्वार्द्धम्) ४२५
सर्गः ६ ] राज्यकाण्डम् (पूर्वार्द्धम्) ४२५
पूजितो दानमानैश्च नृपैः स्वनगरीं ययौ । तदा निनेदुर्वाद्वानि ननृतुश्चाप्सरोगणाः ॥६१॥
प्रत्युज्जगाम श्रीरामं यूपकेतुः समागतः । प्रासादशिखराङ्गलग्नाः पौरनार्यः सहस्रशः ॥६२॥
सीतां रामं निरीक्ष्याथ ववृषुः पुष्पवृष्टिभिः । ततो विवेश श्रीरामः सभां तां पार्थिवैः सह ॥६३॥
विवेश स्वीयगेहं सा जानकी तुप्रसन्नधीः । गेहे कायलजन्दैर्मात् रामो न्यवेशयत् ॥६४॥
एकदा राघवस्तुष्टः शत्रुघ्नाय हि तां दृढौ मंत्राउविमु पुरा न्यकर्मोभ नियमादिकान् ॥६५॥
मङ्गळ्ययामास मंत्रौस्तांश्चकार यथाविधि । उद्यापनन्यनेकानि सर्वेषा माङ्गळैर्मुदा ॥६६॥
एकदा मुनयः सर्वे यमुनातीरवासिनः । आजग्मु राघवं द्रष्टुं भयाल्लवणाक्षसः ॥६७॥
कुम्भाडग्रे तु मुनिश्रेष्ठ मार्गेपं च्यवनं द्विजाः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४२६ आनन्दरामायणे [ सर्गः ६
लवणं नाशयिष्यामि गच्छंतु विगतज्वराः । इत्युक्त्वा प्राह रामोऽपि शत्रुघ्नं सदसि स्थितम् ॥७८॥
अद्य त्वामभिषेक्ष्यामि मधुरागाज्यकारणात् । तद्रामवचनं श्रुत्वा शत्रुघ्नो वाक्यमब्रवीत् ॥७९॥
नाङ्गीकरोम्यहं राज्यं त्वं मा निजपदात्प्रभो । न दूरं कुरु राजेन्द्र प्रार्थयामीति ते मुहुः ॥८०॥
तत्तस्य वचनं श्रुत्वा शत्रुघ्नस्य रघूत्तमः । तथैव भरतं प्राह न सोऽप्यङ्गीचकार तत् ॥८१॥
ततो रामः सुबाहुं च यूपकेतुं द्विजैर्नृपैः । अभिषिच्याब्रवीद्वाक्यं शत्रुघ्नं पुरतः स्थितम् ॥८२॥
दत्त्वा तस्मै शरं दिव्यं निजनामाङ्कितं शुभम् । अनेनैव हि बाणेन लवणं लोककंटकम् ॥८३॥
हनिष्यसि क्षणादेव वृत्रं देवपतिर्यथा । स तु संपूज्य तं शूलं गेहे गच्छति काननम् ॥८४॥
भक्षणार्थं हि जंतूनां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] उत्तरकाण्डम् ( पूर्वार्द्धम् ) ४२७
सर्गः ६ ] उत्तरकाण्डम् ( पूर्वार्द्धम् ) ४२७
प्रेषयामास सैन्यैश्च दासीदासैश्च गोधनैः शत्रुघ्नोऽपि तथा चक्रे यथा रामेण शिक्षितः ॥९६॥
हत्वा तं लवणं वेगान्मधुशमकरोत्पुरीम् शान्तान् जनपदांश्चक्रे माथुरान्दानमानतः ॥९७॥
मधुरायां सुबाहुं तं स्थाप्य स्त्रीभ्यां सुतादिभिः । स्त्रीभ्यां पुत्रैश्च यूपकेतुं विदिशानगरे तथा ॥९८॥
संस्थाप्य सैन्यैः शत्रुघ्नो मथुरायां कियद्दिनम् । स्थित्वा सुबाहवे मूर्तिं तदा तुष्टो ददौ सुखम् ॥ ९९॥
अद्यापि मथुरायां सा मूर्तिस्तत्रैव वर्तते शत्रुघ्नोऽप्येततः सैन्यैः शीघ्रं रामांतिकं ययौ ॥१००॥
सर्वं वृत्तं राघवाय कथयामास सादरम् । अथैकदा स भरतः कैकेयीनन्दनो महान् ॥१०१॥
युधाजिता मातुलेन शाहूतोऽगात्समन्वितः । रामाज्ञया गतस्तत्र हत्वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४२८ आनन्दरामायणे [ सर्गः ७
अवनीं जेतुमुद्युक्तो मुहूर्त्तं तानपृच्छत। तत्तूर्तेर्गर्गकैर्दत्तो मुहूर्त्तः परमः शुभः ॥११४॥
तं श्रुत्वा तान् पुनः पूज्य सर्वान् रामो व्यसर्जयत् ।
ततो रामोऽब्रवीद्वाक्यं लक्ष्मणं पुनः स्थितम् ॥११५॥
अवनिस्थाञ्छत्रून् जेतुं साङ्गं गच्छासि पाथिवैः । विमानेनैव गच्छामि सेनां चोदय सत्वरम् ॥११६॥
नानास्त्राणि यन्त्राणि वाहनानि समन्ततः । स्थापयस्व विमानेऽद्य सनथ्यः शतशो नराः ॥११७॥
धनधान्यतृणादीनां संग्रहं कुरु पुष्पक । पुरीं गोप्तुं सुमन्त्रोऽस्तु सैन्येन परिवेष्टितः ॥११८॥
एवमाज्ञाप्य सौमित्रिं श्रीरामो जानकीगृहम् । ययौ चकार सौमित्रिर्यथा रामेण शिक्षितः ॥११९॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ७ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४२९
सर्गः ७ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४२९
रामाज्ञया तदा सर्वांस्तोषयन्ती वचोऽब्रवीत् । आगन्तव्यं मया साकं युष्माभिश्च न संशयः ॥ ७ ॥
गच्छध्वं स्वस्वगेहानि सर्वास्तूर्णं समज्ज्वलाः । एवं सीतावचः श्रुत्वा ताः सर्वाः कमलोचनाः ॥ ८ ॥
सीतां नत्वा ययुः सर्वाः सन्तुष्टा मुदिताननाः । स्वस्वगेहानि वेगेन रूपवत्पुत्रसंस्तुताः ९ ।
अथ रामस्तु तां रात्रिं निनाय सीतया सुखम् । ब्राह्मे मुहूर्त्ते श्रुत्वा स वन्दिगीतं मनीषिणाम् १०॥
रामः प्रबुद्धस्तु जपात्कृतशौचादिकक्रियः । स्नात्वा नित्यविधिं कृत्वा कृत्वा शम्भोः प्रपूजनम् ११॥
कथां पौराणिकीं श्रुत्वा दत्त्वा दानान्यनेकशः । कृत्वोद्योगविधिं च संस्तूय गणनायकम् ॥१२॥
कृत्वाऽभ्युदयिकं श्राद्धं घृतश्राद्धं यतिव्रतम् । कामधेनुं कल्पवृक्षं पुष्पकं च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४२० आनन्दरामायणे [ सर्ग ७
तैनातिपूजितो रामः शनैश्शनैर्न दक्षिणाम् । ययावब्धितटेनैव द्राविडं देशमुत्तमम् ॥२५॥
कृष्णातीरेप्रदेशांश्चान्वपश्यन् रामः शनैः शनैः । कांची ययौ विमानेन कंचुकंठोऽपि राघवम् ॥२६॥
पूजयामास विधिवत्स्वाद्याद्यैः सुहृदं निजम् । आरवारं महादेवं तथा तच्चोलमण्डलम् ॥२७॥
उल्लङ्घ्य श्रीरामस्तत्रस्थैः पूजितो नृपैः । ययौ स केरलान् ईशान्यैश्च कर्णाटकं ययौ ॥२८॥
पूजितो विजयेनापि विजयापुरस्वामिना । क्रौञ्चाख्यान्नृपान् जित्वा महाराष्ट्रं ययौ प्रभुः ॥२९॥
दुर्गं देवगिरिं नाम चकार स्ववशं क्षणात् । वश्यान्यान्यपि दुर्गाणि स्वाधीनान्यकरोद्विभुः ॥३०॥
कृत्वा विराट्देशं च देशान् विन्ध्याचलाश्रितान् । पश्यन् ययौ स रेवायास्तीरेणोङ्कारमीश्वरम् ॥३१॥
मालवस्थान्नृपान् जित्वा ययौ रामः स
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ८ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४३१
प्रययौ पुष्करं द्रष्टुं राज्यस्थं पुष्करावतीम् । ततो रामो विमानेन ययौ तक्षशिलाह्वये ॥४३॥
तक्षं दृष्ट्वा पदस्थं तं ययौ भरतमातुलम् । युधाजिता पूजितः स रामो राजीवलोचनः ॥४४॥
ययौ विहायसा शीघ्रं शकदेशं मनोरमम् । जित्वा यवनदेशस्थान्भूपतीन् सर्वान् रघूत्तमः । ४५।
पश्यन्नानाविधान् देशांस्ताम्रदक्ष ययौ ततः । ततो मायापुरीं गत्वा कलापग्राममाययौ ।४६॥
नरनारायणौ दृष्ट्वा चोपास्यौ रघुनन्दनः । उपागर्क नारदं च वर्षं भारतसंज्ञके ।४७।
ताम्रत्वाऽर्च्यं रघुश्रेष्ठस्तत्रस्थैः परिपूजितः । भारतनरेशं रणे हत्वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्दरामायणे [ सर्गः ८ ]
शिखरशिरोऽग्रमानं पुष्पकसधिष्ठितो रघुनाथ उपजगाम । ३ । अथ तृतीयं वर्षं नाम नवसहस्र-
योजनपरिमितं नृसिंहोपास्यप्रह्लादोपासकविराजमानमतिकमनीयं दाशरथस्तनयः समनुययौ । ४ ।।
तद्वर्षवासिनृपवरवृन्दतुङ्गसमग्राममप्यादितजयश्रीविपुलोक्षादिसहितनृपदयितागर्भनर्त्तनारिजननजनक-
जादाशितमानकीर्तुकध्वजतोरणतोरणघण्टाकिंकिणीविराजमानपुष्पकमधिष्ठितः श्रीरघुनन्दन उपज-
गाम ।। ५ ।। अथ निषधं नाम पर्वतं द्विसहस्रयोजनविपुलं नवनिंसहस्रायोजनदैर्घ्यमतिकमनीयं स
रघुनन्दनो नयनगोचरं चकार । ६ ।। अथ सुवर्णद्रिमंडनतश्चतुर्दिक्षु समानमानमिलावृतं नाम
चतुर्थं वर्षं चतुस्त्रिंशत्सहस्रयोजनपरिमितं स रघुनायक उपजगाम ।। ७ । तत्र ह वात्र मेरोराश्रय-
भूते मेरोर्दक्षिणदिक्स्थिते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ८ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ५३३
सर्गः ८ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ५३३
जनकजाजानिरुपययौ पश्चिमाभिमुखः ॥ १६ ॥ अथ मेरोः पश्चिमदिक्संस्थितं माल्यवन्तं
पर्वतं द्विसहस्रयोजनविस्तीर्णं चतुस्त्रिंशत्सहस्रयोजनदीर्घमतिक्रमणीयं स जनकजाजनो नयनगोचरं
चकार ॥ १७ ॥ ततश्चिमनः केतुमालं नाम षष्ठं वर्षं एकत्रिंशत्सहस्रयोजनविस्तीर्णं चतुस्त्रिंशत्स-
हस्रयोजनदीर्घं कामदेवोपास्यलक्ष्म्युपासिकाममर्षाणस्तमनोहरं स रामचन्द्रोऽनुजगाम ॥ १८ ।
तद्वर्षनृपसमूहमुकुटावतंसपरागपूजितचरणारविन्दयुगलः स रघुकुलदीपकः सीतया पुष्पकमण्डि-
तमुदमाप ॥ १९ ॥ अथ मेरोरुत्तरतः स नीलपर्वतं द्विसहस्रयोजनविस्तीर्णं नवतिसहस्रयोजनदीर्घं
रघुकुलतिलको नयनविषयं चकार । २० ॥ अथ रम्यकं नाम सप्तमं वर्षं नवसहस्रयोजनपरिमितं
मत्स्योपास्यमनूणामकशियानमधितिष्ठितः स रघुनन्दन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ४३४ | आनन्दरामायणे | [ सर्गः ८ |
|---|
तानि प्रियव्रतनृपपौत्रनामसूचितानि सन्ति । तेषु ये ये नृपा जायन्ते ते तद्वर्णनामयुक्ता एव
भवन्त्यतः सर्वेषां पृथक् नामानि मयाऽत्र नोच्यन्ते ॥ ३० ॥ एवं जम्बूद्वीपमायामविस्ताराभ्यां
लक्षयोजनपरिमितमनिकपनीयं समवर्तुलं पुष्करपत्रोपमं नववर्षमण्डितं स रघुनायकः स्ववशं चकार
॥ ३१ ॥ मेरुपर्वताग्रेऽष्टपुर्योऽष्टदिक्पालानां संति । तन्पालकाः मुग्धाश्चाग्नियमनिर्रतिवरुणवायु-
कुबेरेशास्ते सर्वे ममाज्ञां परिपालयन्विति निश्चित्य स रघुनायकस्मान प्रति जगाम ॥ ३२ ॥
ता अष्टपुर्यः पृथक् पृथक् सार्धद्विसहस्रयोजनपरिमाणेनायामविस्तारतो ज्ञातव्याः ॥ ३३ ॥
मेरुलक्षयोजनयुक्तो मूर्ध्नि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रयोजनविततश्चाधः षोडश-
सहस्रयोजनमितो भूम्यां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ९ ] | राज्यकाण्डम् ( पूर्वार्द्धम् ) | ४३५
| सर्गः ९ ] | राज्यकाण्डम् ( पूर्वार्द्धम् ) | ४३५ |
|---|
वर्षे सरिच्छैलाः सन्ति बहवः ॥ ४५ ॥ तद्यथा मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूटः ऋषभः कूटकः सह्यो देवगिरिर्ऋष्यमूकः श्रीशैलो वेंकटो महेंद्रो वारिधरो विंध्यः शक्तिमानृक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरित्यन्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च संत्यसंख्यताः ॥ ४७ ॥ चन्द्रवशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावती तुंगभद्रा कृष्णा वेणा भीमरथी निर्विन्ध्या पयोष्णी तापी मही सुरसा नर्मदा चर्मण्वती सिंधुः शोणश्च नदौ महानदी वेदस्मृतिः ऋषिकुल्या त्रिसामा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४३६ आनन्दरामायणे • [सर्गः ९
मेरोः पूर्वदिशायां वै तत्र वर्षं शिवाङ्गकम् । आदौ ययौ रामचन्द्रः क्षणादेव विहायसा ॥ ४ ॥
नदी यत्राऽरुणा नाम्नी सर्वपापप्रणाशिनी । तस्यां स्नात्वा रघुश्रेष्ठः शीघ्रं तद्वर्षपं ययौ ॥ ५ ॥
तेन वर्षाधिपेनैव युद्धमासीत्सुदारुणम् । तं जित्वा पञ्चमासेंश्च तैश्च पार्थिवसत्तमैः ॥ ६ ॥
पूजितो रघुनाथस्तु वज्रकूटाचलं ययौ । वज्रकूटं महाश्रेष्ठं द्वयोः सागरयोः स्थितम् ॥ ७ ॥
परस्परं वर्षयोश्च सीमाभूतं ददर्श सः । तं गिरि पृष्ठतः कृत्वा वर्षं पयसमं ययौ ॥ ८ ॥
नुम्णानदीजले स्नात्वा ययौ यावयसेश्वरम् । तेन सम्पूजितो रामस्ततस्तद्वर्षपार्थिवैः ॥ ९ ॥
सहितः पुष्पकैनैवमुपेंद्रसेनपर्वतम् । दृष्ट्वा कृत्वा पृष्ठतस्तं सुभद्रं वर्षमाययौ ॥ १० ॥
अगौग्मींनदीतोये स्नात्वा स
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ९] राज्यकाण्डम् (पूर्वार्द्धम्) ४३७
मेरोः पूर्वदिशामारभ्य सर्वत्र क्रम उच्यते सुलोचनं सौमनस्यं तथा रम्यकं शुभम् ॥२३॥
देववर्षं पारिभद्रमाप्यायनमनुत्तमम् । अविज्ञातं सप्तमं च सप्त वर्षाणि वै क्रमात् ॥ २४॥
अनुमती सिनीवाली तथैव च सरस्वती । कुहूश्च रजनी नन्दा च राका नद्यः प्रकीर्त्तिताः ॥२५॥
शतशृङ्गो वामदेवो कुन्दश्च कुमुदस्तथा । पुष्पवर्षः पदभ्रश्च सहस्रश्रुतिनभसः ।२६॥
स्वरसः पर्वता सप्त ज्ञेयाः सीमासु वै क्रमात् । एतेषु सप्तवर्षेषु वर्षपानान् विजित्य सः ॥२७॥
जित्वा द्वीपेश्वरं रामः सुबाहुं मुदमभ्ययात् । सुरोदं च चतुर्लक्षमितं तीर्त्वा पयोनिधिम् ॥२८॥
कुशद्वीपं महालक्षमितं रामो ययौ क्षणात् । तत्रोपास्यो जातवेदाः सर्वेषां द्वीपवासिनाम् ॥२९॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[४३८ आनन्दरामायणे [सर्गः ९
एतानि सप्त रूपाणि कृतवानुरुशक्तिभिः । वर्धमानो भोजनश्च तथोद्बर्हणो महान् ॥४१॥
नन्दश्च नन्दनश्चैव सर्वतोभद्र एव च । शुक्लाभ्रभाश्चलाः प्रोक्ता मण्डलायुः परन्तः शुभाः ॥४२॥
अमृता अमृतौघा च तथा वैरम्भिरामथा । ज्योतिष्मती रम्या वृष्टिरूपवती तथा ॥४३॥
पवित्रवन्ता सुपुण्या द्वे शुकोक्तं मत्र कीर्तिताः । सप्तद्वैपेषु नद्यश्च स्नानात्पातकनाशनाः ॥४४॥
एतेषु सप्तवर्षेषु पार्थिवेभ्यो निजं प्रभु । कन्यारत्नं मुदाऽऽच्छाद्य तैः सर्वैः परिपूजितः ॥४५॥
क्रौञ्चद्वीपपतिं युद्धे जित्वा तु शङ्खलोचनम् । हयकुञ्जररथतुरगं कोषाद्यैस्तेन पूजितः ॥४६॥
स्तुतो मागधवृन्दैश्च नितरां मुदमाप सः । ततस्तीर्त्वा तु क्षीरोदं क्रौञ्चद्वीपसमं मुदा ॥४७॥
शाकद्वीपं ययौ रामो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ९ ] राज्यकाण्डम् ( पूर्वार्द्धम् ) २३९
अपरं तद्गतञ्चैतत्स्वरूपान्नं ते कङ्कणोपमम् तद्वर्षपौ नृपौ जित्वा ततो द्वीपेश्वरं नृपम् ॥ ६०॥
उत्तराङ्गाह्वयं रामः परां मुदमवाप सः । ददर्श पुष्करं तत्र द्वीपसंज्ञाकारकं वरम् ॥६१॥
कमलासनम्य यज्ज्ञेयं ब्रह्मणः परमासनम् तत्र कूर्म्ममयं लिंगं ब्रह्मलिंगं जनोऽर्चयत् ॥६२।
वर्षयोर्बहुला नद्यः पापहन्त्रीरुनत्तमाः दशलक्षप्रमानेन प्रागुत्तंगः स पर्वतः ॥६३॥
तस्मिन् गिरी पूर्वभागे पुरी मद्यवतः शुभा । देवभाविति नाम्ना सा मनोज्ञा ज्वलनप्रभा ॥६४॥
गिरीतस्मिन् दक्षिणस्यां दिशि संयमनी पुरी। यमराज्ञस्य सा ज्ञेया मनोज्ञा ज्वलनप्रभा ॥६५॥
पश्चिमे वरुणस्याथ पुरी निम्लोचनी स्मृता । उत्तरस्यां तु कौबेरी पुरी ख्याता
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४९० आनन्दरामायणे [ सर्गः ९
सकलाकाशावस्थानहेतवः ॥ ७६ ॥ तस्मिन्नेव गिरिवरे भगवान् परममहापुरुषो महाविभूतिपतिः
सकललोकहिताय आस्ते । ७७ । ततः परस्ताद्योगेश्वराणां विशुद्धामुदाहरन्ति ॥ ७८ ॥ एव पञ्चा-
शत्कोटिगुणिता भूगोलोऽयं ज्ञेयः । ७९ ।। एवं पञ्चविंशतिकोटिमितां भूमिं लोकालोकमध्यवर्तिनीं
स रघुनन्दनः स्ववशां कृत्वाऽऽकाशपथा परिक्रम्य सर्वान् द्वीपान् पूर्ववत्पश्यन् जंबुद्वीपं भारत-
वर्षमध्यगतां स्वां राजधानीमोध्यां सप्तद्वीपेश्वरैः परिवेष्टितोऽनुययौ । ८० । ततो रामोऽयोध्या-
निकटं गत्वा दूतैः स्वागमनं सुमंत्रं सूचयामास । ८१ ।
समायातं रामचंद्रं श्रुत्वा स मंत्रिसत्तमः । अयोध्यां भूषयामास पताकाध्वजतोरणैः । ८२ ।
वारणेन्द्रं पुरस्कृत्य पौरैर्जानपदैः सह ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १० ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४४१
सर्गः १० ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४४१
जम्बुद्वीपपतिं रामश्चकार स्वसुतं लवम् । लवोऽपि विजयं स्वीयसचिवं चाकरोन्मुदा ॥९३॥
नवस्वपि च वर्षेषु यातायातं पुनः पुनः। चकार विजयेनैव पुनः कार्यार्थमादरात् ॥९४॥
शत्रुघ्नो यौवराज्ये स्वे भरतेनाभिषेचितः । यौवराज्यपदे स्वेऽपि कृत्वा रामः कुशं सुतम् ॥९५।
चकार लक्ष्मणं मुख्यं सचिवेषु सुमन्त्रणम्। सप्तद्वीपपतिः श्रीमान्स्वयमासीद्रघूत्तमः ॥९६॥
स्वस्वकार्येषु सर्वे ते रामन् तत्परमानसाः । ततः सर्वांन्नृपान्पूज्य ददावाज्ञां रघूद्वहः ॥९७॥
ततस्ते राघवं न्त्वा ययुः स्वं स्व स्थलं मुदा । ततो भारतवर्षस्य परामर्शं सदा मुदा ॥९८॥
चकार भरतः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४४२ आनन्दरामायणे [ सर्गः १०
किं दुःखं सारमेयस्य प्रष्टव्यं मत्पुरस्त्वया । तथेति लक्ष्मणो दूतानब्रवीत्सम्भ्रमान्वितः ॥७॥
समामाकारणीयः श्वा युष्माभिस्त्वथ सादरम् । तथेति रामदूतास्ते सारमेयं वचोऽब्रुवन् ॥८॥
आकारितोऽसि रामेण त्वमेहि राघवांतिकम् । त्वद्यैवं फलितं चाद्य पूर्वपुण्योदयेन हि ॥९॥
रामदूतवचः श्रुत्वा तुष्टः श्वा तान्यचोऽब्रवीत् । देवगृहे यज्ञवाटहोमशालासु वै तथा ॥१०॥
वृन्दावने सभायां च मठे पार्थिवसद्गृहे । गोष्ठे पुण्यस्थले पुण्ये तीर्थे देवालयोऽपि च ॥११॥
पाकस्थाने रतिस्थाने स्नानसंध्यास्थलादिषु । गन्तु नार्हा वयं पापयोनित्वाद् बाह्यनां प्रभुः ॥१२॥
तत्रस्ते विस्मयाविष्टास्तद्वाक्यं राममब्रवन् । राघवस्तद्वचः श्रुत्वा विहस्य सम्भ्रमेण च । १३॥
आनीयतां पादुके मे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १० ] राज्यकाण्डम् ( पूर्वार्द्धम् ) ४४१
तद्रामवचनं श्रुत्वा यतिः प्राह रघूत्तमम् । भिक्षार्थं भ्रमतो मार्गे भिक्षात्रं स्पृशितं मम ॥२५॥
शुनाऽनेन राघवेंद्र मध्याह्ने क्षुधितस्य च । मयाऽतः क्रोधचित्तेन शुनेऽस्मै अपराधिने ॥२६॥
अर्पितं लोष्टकं क्षिप्तेन भिन्नं पदं शुनः । तद्यतेर्वचनं श्रुत्वा पुनस्तं प्राह राघवः ॥२७॥
ज्ञानहीनः पशुश्चायं भक्ष्यं दृष्ट्वायं निर्दोष च । स्वाभाविकी तस्य दोषो नैवार्य वेद्मयहं यते ॥२८॥
स्वमेवास्यैवापराधी तद्दण्डं प्राप्तुमर्हसि । इत्युक्त्वा मारगेयं तु राघवो वाक्यमब्रवीत् ॥२९॥
यदिश्रायं तैऽपराधी तत्र हस्तेऽर्पितो मया । यं त्वमिच्छसि वै कर्तुं तस्मै दण्डं सुखं कुरु ॥३०॥
तद्रामवचनं श्रुत्वा सारमेयोऽब्रवीत् प्रभुम् । शिवालयस्याधिपत्ये च स्थापनीयो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१४ आनन्दरामायणे [ सर्ग० १०
नृपगेहे प्रविष्टानां याचकानां निवारिणः । परद्रव्यपहर्तारः प्रत्यशिनाञ्चिकारिणः ॥४१॥
विप्रभोजनद्रव्यस्य होमद्रव्यस्य हारिणः । बहुद्रव्यापहर्त्तारश्चैते सर्व्वेऽप्यन्यन्मनि ॥४२॥
गच्छन्ति वै शुनो योनिं मत्समेतद्वचा मम । मया मठाधिपत्याञ्च लब्धा योनिः शुनः स्वयम् ॥४३॥
अतो मयाऽद्य यतये दित्सितं पदमीरितम् । इति तद्वाक्यमाकर्ण्य नागरादिच्छिन्नसंशयाः ॥४४॥
ते ययुः स्वीयगेहानि यथौवाऽपि निजस्थलम् । ईदाने स यतिजीतः शुनो योनौ स्वकिल्विषत् ॥४५॥
आप्तमश्चाशुभां मुक्ति भुक्त्वाऽसौ स्वीयकिल्विषम् । न तस्योऽयं यतिः शिष्य मार्केनेऽत्र मृतस्त्विति॥४६
स्थलान्तरे मृतश्चायं शतैः कार्यार्थमान्नरः । अयोध्यायां मृतानां च पुनर्जन्म न विद्यते ॥४७॥
क्व यतिः सारमेयत्वं क्व स श्वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें