श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
सर्गः १२ ] सारकाण्डम् १४५
सर्गः १२ ] सारकाण्डम् १४५
शिखाबंधनमोक्षार्थं शबरी भवबंधनात् । कृता मुक्ता तु रामेण जलस्पर्शनहेतवे ॥१८८॥
नेत्रयोर्निहतो वाली दत्तं तद्रुधिरं तदा । काथिलंकार्युरी दग्धा कुंभकर्णस्तथौदनः । १८९॥
पक्वान्नमिंद्रजिज् ज्ञेयः शाकार्थं राक्षसा हताः । वरान्नं सारणो ज्ञेयः प्रहस्तो वटकः स्मृतः ॥१९०॥
निकुंभः पर्पटो ज्ञेयः कुंभस्तु लवणं स्मृतः । पायसार्थं कालनेमिस्त्वतिकायः स शर्करः ॥१९१॥
क्षीरमैरावणो ज्ञेयो घृतं मैरावणः स्मृतः । दध्योदनः समाम्नौ तु आहवे च स रावणः ॥१९२॥
हत्वा निवेदितः पात्रे तस्य कालानलस्य च । उच्छिष्टवलिमत्यागः केशत्वक्थिक्षसादिनाम् ॥१९३॥
संत्यागोऽत्र रणे ज्ञेयस्तदा तृप्तो बभूव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१४६
आनन्दरामायणे
[ सर्गः १३
त्रयोदशः सर्गः
( अगस्त्य-रामसंवाद )
श्रीशिव उवाच
एकदा राघवं द्रष्टुं मुनिभिः कुम्भसम्भवः। ययौ रामेण सन्मानमानितः स उपाविशत् ॥ १ ॥
उपविष्टाः प्रहृष्टाश्च मुनयो रामपूजिताः। संसृष्टकुशलाः सर्वे रामं कुशलमब्रुवन् ॥ २ ॥
कुशलं ते महाबाहो सर्वत्र रघुनंदन। दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिंदम ॥ ३ ॥
दिष्ट्या त्वया हताः सर्वे मेघनादादयोऽसुराः। हन्वा रक्षोगणान्सर्वान् कृतकृत्योऽद्य जीवसि ॥ ४ ॥
इति तेषां वचः श्रुत्वा रामस्तानाह सुस्मितः। किमर्थमादौ युष्माभिर्मेघनादोऽद्य कीर्तितः ॥ ५ ॥
इति रामवचः श्रुत्वाऽगस्तिस्तैस्त्ववलोकितः। कुंभयोनिस्तदा रामं प्रीत्या वचनमब्रवीत् ॥ ६ ॥
शृणु राम यथा वृत्तं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३] सारकाण्डम् १४७
कस्मिश्चिच्च काले हि सुमालीनाम राक्षसः । दुहित्रा व्यचरद्भूमा पुण्यकेतुं ददर्श सः ॥१६॥
हिताय चिन्तयामास राक्षसानां महामनाः । कैकसीं तनयामाह गच्छ विश्रवसं मुनिम् ॥१७॥
वरयस्व मुनेस्तेजःप्रतापात्ते सुताः शुभाः । भविष्यन्ति धनाध्यक्षतुल्या नो हितकारिणः ॥१८॥
सा संध्यायां ययौ शीघ्रं मुनेरग्रे व्यवस्थिता । लिखन्ती भुवि पादाङ्गुष्ठेन चाधोमुखी स्थिता ॥१९॥
तामपृच्छन्मुनिः का त्वं साऽऽह त्वं वेत्तुमर्हसि । ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत ॥२०॥
ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्ससि । दारुणायां तु वेलायामागताऽसि सुमध्यमे ॥२१॥
अतस्ते दारुणौ पुत्रौ राक्षसौ संभविष्यतः । साऽब्रवीन्मुनिशार्दूलं त्वत्तोऽप्येवंविधौ सुतौ ॥२२॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १६८ | आनन्दरामायणे | [ सर्गः १३ |
|---|
शिरः संयोज्य हस्तेन शिवोक्तं तं न्यवेदयत् । तच्छ्रुत्वा रावणश्चापि समतिक्रम्य तां निशाम् ॥३३॥
चकार पूर्ववद्गानं द्वितीयदिवसे पुनः । नन्दिना शंकरश्चापि पूर्ववत्तं न्यवेदयत् ॥३४॥
इत्थं दश दिनान्येव गतानि रावणस्य च । अथ तत्कर्मणा तुष्टः शङ्करो गायनेन च ॥३५॥
भूत्वा प्रसन्नस्तं प्राह वरं वरय चेति वै । दृष्ट्वा शंभुं रावणोऽपि शिरासा तेन संधितः ॥३६॥
वरयामास मन्मात्रे ह्यात्मलिंगं तथा मम । पत्न्यर्थं पार्वतीं देहि तथेत्युक्त्वा ददौ शिवः ॥३७॥
गृहीत्वा गंतुकामं तं पुनः प्राह हरस्तदा । मतोपार्थं त्वया वीर दशवारं निजं शिरः ॥३८॥
खङ्गेन छेदितं यस्मात्तस्मात्तेऽद्य शिरांसि हि । दश विंशद्भुजाश्चापि भविष्यन्ति गिरो मम ॥३९॥
ततः स
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १२ ]
सर्गः १२ ]
सारकाण्डम्
१४९
पंचवर्षसहस्राणि पादांगुष्ठेन तस्थिवान्। दिव्यवर्षसहस्रं तु धूमाह रो दशाननः ॥४८॥
पूर्णे वर्षसहस्रे स्वं शीर्षमग्नौ जुहाव सः। एवं वर्षसहस्राणि नव दशानिश्चक्रमुः॥४९॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः। छेत्तुकामस्य धर्मात्मा प्रत्यक्षोऽभूत्प्रजापतिः॥५०॥
उवाच वचनं ब्रह्मा वरं वरय वांछितम्। ततोऽब्रवीद्दशास्यन्ममदत्त्वञ्च कुतोप्यहम्॥५१॥
सुपर्णनागयक्षेभ्यो देवेभ्यश्चासुरादपि। त्वत्तः शभोर्महाविष्णोर्मानुषा मे तृणोपमाः ॥५२॥
तथेत्युक्त्वा विधिस्तस्मै दश शीर्षाणि संददौ। विभीषणाय सद्बुद्धिममरत्वं ददौ मुदा ॥५३॥
विमोहितं सरस्वत्या देवेन्द्रपदकांक्षिणम्। कुंभकर्णं विधिः प्राह वरं वरय वांछितम् ॥५४॥
सोऽपि तं वरयामास निद्रां षण्मासिकीं शुभाम्। षण्मासीये
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १५० | आनन्दरामायणे | [सर्ग १३] |
|---|
वैरोचनस्य दौहित्रीं वृत्तज्वालेति विश्रुताम् । स्वयंदत्तां मुदोद्वाह कुम्भकर्णाय रावणः ॥६५॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । विभीषणस्य भार्यार्थे सरमां स मुदाऽवहत् ॥६६॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । जातमात्रस्तु यो नादं मेघवत्प्रचकार ह ॥६७॥
तः सर्वऽप्यदन्मेघनादोऽयमिति वै जनाः गुहायां कुम्भकर्णोऽपि निद्राव्याप्तो विनिद्रितः ॥६८॥
ततः स रावणश्चापि देवगन्धर्वकिन्नरान् हत्वा क्रोधोद्धतान्नागान् स्त्रियस्तेषामपाहरत् ॥६९॥
धनदोऽपि च तच्छ्रुत्वा रावणस्याक्रमं तदा । अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥७०॥
ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहार तस्य पुष्पकम् ॥७१॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] उत्तरकाण्डम् १५१
सर्गः १३ ] उत्तरकाण्डम् १५१
इन्द्रजिन्नाम तस्याभून्नराधिप शृणुष्व तत् । रावणादपि यश्चासीद्वलिष्ठः समरप्रियः ॥८२॥
मेघनादादयश्चेति तस्मान्प्रोक्तं तवाग्रतः । एतन्मुनीश्वरैः पूर्वं तन्निमित्त मयेरितम् ॥८३॥
रावणो विजयी लोकान्सर्वान् जित्वा क्रमेण तु । जित्वा वह्निं निरृतिं च वायुमीशं ययौ मुदा ॥८४॥
कैलासं तोलयामास बाहुभिः परिघोपमैः । तदा भीता शिवं देवी दोर्भ्यां सा परिषस्वजे ॥८५॥
शिवोऽपि वामपादाङ्गुष्ठेन कैलासमुद्धर्नि । भारं दत्त्वा गिरिं त्वेवं चकाराधः शनैः शनैः ॥८६॥
तदा तद्गिरिमग्नप्रबलिसन्धिषु दोर्लताः । विंशत्यपि रावणस्य न ता अगमन्बहिः क्षणात् ॥८७॥
स तेनाक्रन्दयामास स्तम्भसम्बद्धचोरवत् । तदा नन्दीश्वरेणापि शप्तोऽयं राक्षसेश्वरः ॥८८॥
यच्चलं कर्म यस्यास्ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६२ आनन्दरामायणे [ सर्गः १२
किष्किन्धां स्वां ययौ वेगादग्रे दृष्ट्वांगदं शिशुम्। प्रीत्या तं चुंबनं दातुं दोर्भ्यां कण्ठे न्यवेशयत् ॥९८॥
तदा बाहोश्चलनात्काक्षाद्यः पतितो भुवि। तं दृष्ट्वा स्वजनान् स्वीय दर्शयामास वै मुदा ॥९९॥
प्रेङ्खस्योपरि पुत्रस्य बबन्धाधोमुखं चिरम्। आत्मानमाङ्कदमूत्रस्य धारामीशाननोऽसुरः। १००॥
स्वयमेव ततो बाली बहुकाले गते मयि। ददवाज्ञां दशान्याय तेन सख्यं चकार सः। १०१॥
रावणः स पुनः स्थित्वा पुष्पंके व्यचरत्सुखम्। पश्यन्नानाविधान्वीरान् ययौ पातालमुत्तमम्॥ १०२॥
तत्र दृष्ट्वा पुरं रम्यं बलेः कोटिरविप्रभम्। तत्तजसाहतेऽहस्तत्पुष्पकं न चचाल वै ॥१०३॥
ततः स्वयं ययौ तूर्णामक एव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ]
सारकाण्डम्
१५४
अश्वानां शकृतं नीत्वा क्षिपत्प्रत्यहं बहिः । एकदा द्वारे गत्वा प्रार्थयामास त्वां मुहुः ॥ ११४ ॥
त्वया स्वपादलग्नः स्वपदांगुष्ठेन खेडितः । तदाऽतिमुदितो लंकां चिरकालेन रावणः ॥ ११५ ॥
ययौ मेने निजं जन्म द्वितीयं जातमद्य वै । रावणः परमप्रीत एव लोकान्मनावशन् ॥ ११६ ॥
कर्तुं वांस्त्वनवशाञ्जिग्ये व्यभ्राम पुष्पकस्थितः ।
दृष्ट्वैकदाऽत्र साकेते पूर्वजं तव दीक्षितम् ॥ ११७ ॥
अनरण्यं संगरेण चकार पतितं रणे ।
तदा शप्तोऽनरन्येन मद्वंशे रघुनन्दनः ॥ ११८ ॥
भूत्वा त्वां सगरेणैव सकुटुम्बं बधिष्यति इत्युक्त्वा स गतो नाकं रावणोऽपि पुरीं ययौ ॥ ११९ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५४ आनन्दरामायणे [ सर्गः १३
एकदा नारदं दृष्ट्वा नत्वा पप्रच्छ रावणः ।१२६॥
भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः ।
योद्धुमिच्छामि बलिभिस्त्वं जानासि जगत्त्रयम्॥१२७॥
मुनिर्ध्यात्वा चिरञ्चाह श्वेतद्वीपनिवासिनः । महाबला महाकायास्तत्र याहि महामते ॥१२८॥
विष्णुपूजारता ये वै विष्णुना निहताश्च ये । त एव तत्र सजाता अजेयाश्च सुरासुरैः ॥१२९॥
तच्छ्रुत्वा रावणो वेगात्सन्त्रिभिः पुष्पकेण तैः ।
योद्धुकामो ययौ गर्वाच्छ्वेतद्वीपान्तिकं मुदा ॥१३०॥
तत्प्रभाहतनेत्रार्कं पुष्पकं नाचलत्पुरः ।
त्यक्त्वा विमानं प्रययौ स्वयमेव दशाननः ॥१३१ ।
प्रविशन्नेव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] उत्तरकाण्डम् १५५
सर्गः १३ ] उत्तरकाण्डम् १५५
वानवेवं महाशर्मा स अहोरात्रनीसुताम् ।
मातृवत्पालयामास स्वतः काङ्क्षन्वधं निजम् ॥ १३९॥
श्रीरामचन्द्र उवाच
वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि नन्मुखात् । स्वीयौ वानरकारौ जाताव इति तच्छ्रुतम् ॥ १४०॥
अगस्त्य उवाच
मेरौ स्वर्णमये पूर्वं सभायां ब्रह्मणः कदा । नेत्राभ्यां पतितं दिव्यमानंदाश्रुजलं तदा ॥ १४१॥
तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किंचिनदधस्त्यजत् ।
भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥ १४२॥
तमाह द्रुहिणो वत्स त्वमत्र वस सर्वदा ।
एवं बहुतिथे काले गतेर्षवरिङ्गः सुधीः ॥ १४३॥
कदाचित्पर्यटन्मेरौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१५६ आनन्दरामायणे [ सर्गः १३
मृतेऽर्क्षरजस्याभूद्वाली पूर्वी कपीश्वरः । एवं ते कथितं राम यथा पृष्टं त्वया मम ॥१५२॥
श्रीरामचन्द्र उवाच
यदाऽसौ वालिना बंधुः किष्किन्धाया बहिष्कृतः ।
तदा तस्यैव सचिवः श्रीमत्पवननंदनः ॥१५३॥
न वेद किं बलं नैजं वालितुल्यपराक्रमः । इति रामवचः श्रुत्वा पुनस्तं मुनिरब्रवीत् ॥१५४॥
अगस्त्यउवाच
केसरीनाम विख्यातः कपिरंजनपर्वते ।
तस्यास्तां च शुभे पत्न्यो वानयर्विकटा गिरौ ॥१५५॥
प्लवंगस्याञ्जनीनाम्नी स्थिता तावच्च खात्तदा ।
पपात पायसमयः पिंडो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] | सारकाण्डम् | १५७
| सर्गः १३ ] | सारकाण्डम् | १५७ |
|---|
योजनानां पंचशतं वायुवेगेन मारुतिः । राहुस्तस्मिन्दिने दर्शे ययौ सूर्यं रघूत्तम ॥१६५॥
तावद्दृष्ट्वा भर्तुकामं रखेरग्रे कपिं स्थितम् । तदा राहुर्भयादेव रविं मुक्त्त्वेंद्रमाययौ ॥१६६॥
राहुः प्राह शचीनाथ सत्र पीडां करोम्यहम् ।
दत्तः पूर्वं त्वया सूर्यः पीडां कर्तुं सुरेश्वर ॥१६७॥
अत्र विघ्नं समुत्पन्नं तन्मे शीघ्रं निवारय । तद्राहुवचनादिंद्रः समारुह्य गजोपरि ॥१६८॥
देवैर्वृतो ययौ वेगाद्ददर्श प्लवगं पुरः तदा मुमोच तं वज्रं मघवा मारुतिं प्रति ॥१६९॥
वज्रपातान्मारुतिः खात् पपात गिरिकन्दरे ।
तदा भग्ना हनुस्तस्य हनुमानिति वै यतः ॥१७०॥
ख्यातिं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १५८ | आनन्दरामायणे | सर्गः १२ |
|---|
श्रीराम उवाच
देवेन्द्रेण कथं दत्तो रविस्तस्मै स राहवे । तत्सर्वं विस्तरेणैव कथयस्व ममाग्रतः ॥१७९॥
अगस्तिरुवाच
सुधापानादयं राहुर्देत्योऽभूदमरः स्वयम् । ग्रहोऽष्टमोऽभवन्सोऽपि यदाऽवांछद्दूषं सुरान् ॥१८०॥
पीडां कर्तुं तदा देवाः सूर्य सोमं ददुस्तु तं । ज्ञात्वा धर्मैर्जनाः सर्वे निजकर्मादिहेतवे ॥१८१॥
मोचयिष्यन्ति राहोश्च शशिनं भास्करं प्रति । यदा यदा भविष्यत्यापरागों जगतीतले ॥१८२॥
तदा तदा जना धर्मैर्निजप्रत्यर्थमादरात् ।
तोषयित्वा सदा राहुं तौ तस्मान्मोचयन्ति हि । १८३।।
एतत्सर्वं मया प्रोक्तमुपरागस्य कारणम् । जन्म कर्म
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ] सारकाण्डम् १५१
सर्गः ११ ] सारकाण्डम् १५१
श्रीशिव उवाच
स्तुत्वैवं राघवं तेन पूजितः कुंभसंभवः । स्वाश्रमं मुनिभिः सार्धं प्रययौ गुप्तविग्रहः ॥१९२॥
विन्ध्याचलं निजं रूपं स मुनिर्नैव दर्शयन् । पुनरुत्थास्यति गिरिर्श्वेति मन्वा तु तद्भयात् ॥१९३॥
रामस्तु सीतया सार्द्धं भ्रातृभिः सह मंत्रिभिः ।
संसारीव रमानाथो रममाणोऽभवद्गृहे ॥१९४॥
अनासक्तोऽपि विषयान् बुभुजे प्रियया सह । हनुमत्प्रभृतैः सद्भिवानरैः परिसेवितः ॥१९५॥
राघवे शासति भुवं लोकनाथे रमापतौ । वसुधा सस्यसंपन्ना फलवंतश्च भूरुहाः ॥१९६॥
जनाः स्वधर्मनिरताः पतिभक्तिपराः स्त्रियः । नापश्यन्पुत्रमरणं कश्चिद्राजनि राघवे ॥१९७॥
समारुह्य विमानाग्र्यं राघवः सीतया सह । वानरैर्भ्रातृभि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६० आनन्दरामायणे [ सर्गः १३
युक्ता सं रञ्जयामास राजानं राघवं मुदा । एवं गिरीन्द्रजे प्रोक्तं रामराज्योत्तरोद्भवम् ॥२०८॥
चरितं रघुनाथस्य यथा पृष्टं त्वया मम । श्रवणात्सर्वपापघ्नं महामंगलकारकम् । २०९॥
सारकांडमिदं देवि ये शृण्वन्ति नरोत्तमाः ।
तेषां मनोरथाः सर्वे परिपूर्णा भवन्ति हि । २१० ॥
इति श्रीशतकोटिरामचरितांतर्गते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें॥ श्रीरामचन्द्रो विजयतेतराम् ॥
श्रीवाल्मीकिमहामुनिकृतशतकोटिरामचरितान्तर्गतं
आनन्दरामायणम्
'ज्योत्स्ना'ऽऽह्वया भाषाटीकयाऽऽटीकितम्
यात्राकाण्डम्
प्रथमः सर्गः
( रामायणकी उत्पत्तिका वृत्तान्त )
श्रीपार्वत्युवाच
सारकाण्डं त्वया शंभो कीर्तितं बहुपुण्यदम् । मया श्रुतं तु पृच्छामि यत्तद्वक्तुं त्वमर्हसि ॥ १ ॥
कथं कृता वाजिमेधा राघवेण
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १६२ | आनन्दरामायणे | [ सर्गः १ |
|---|
वाल्मीकिस्त्वेकदा स्नातुं जगाम तमसां नदीम् । शिष्येण सहितो गत्वा भूमौ स्थाप्य कमण्डलुम् ॥९॥
आवश्यकं तु संपाद्य कृत्वा शौचविधिं ततः । यावच्चलति स्नानार्थं दर्भपाणिः स वै मुनिः ॥१०॥
तावद्ददर्श तमसातीरे कौतुकमुत्तमम् । क्रौञ्चयुग्मे हतः क्रौञ्चो निषादेन पतत्त्रिणा ॥११॥
क्रौञ्ची शोकसमाविष्टा विललापातिदुःखिता । वियुक्ता पतिना तेन द्विजेन सहचारिणा ॥१२॥
ताम्रशीर्षेण मत्तेन पत्रिणा मा हतेन च । तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ॥१३॥
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समजायत । ततः करुणयाऽऽविष्टस्त्वधर्मोऽयमिति द्विजः ॥१४॥
निशम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् । मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ॥१५॥
यत्क्रौञ्चमिथुनादेकमवधीः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः २ ] बालकाण्डम् १५३
चतुर्मुखं महातेजा द्रष्टुं तं मुनिपुंगवम् । भार्यादित्यं तं दृष्ट्वा सहसोत्थाय वाग्यतः ॥२४॥
प्रांजलिः प्रयतो भूत्वा तस्थौ परमविस्मितः । पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ॥ २५॥
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् । अथोपविश्य भगवान्त्ससने परमाविरे ॥ २६॥
महर्षये वाल्मीकये सन्दिदेशासनं ततः । ब्रह्मण समनुज्ञातः सोऽप्युपाविशदासने ॥२७॥
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे । तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ॥ २८॥
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना यस्तादृशं चारुरवं क्रौंच हन्यादकारणम् ।२९॥
शोचन्नेव पुनः कौञ्चीमुपश्लोकमिमं जगौ पुनरंतर्गतमना भूत्वा शोकपरायणः ॥३०॥
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् । श्लोक एष त्वया
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १६४ | आनन्दरामायणे | [ सर्गः २ |
|---|
तावदूर्ध्वमधश्च त्वं मन्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा स्वयं रामस्य धीमतः । ३९॥
चरित्रं श्रावयामास वेदवाक्यैः सुपुण्यदैः । ततः संपूजितो ब्रह्मा तत्रैवान्तरधीयत ॥४०॥
ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ । तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ॥४१॥
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः । समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
शोचन्नुव्याहृतोऽभूद्यः शोकः श्लोकत्वमागतः । ४२॥
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥४३॥
उदारवृत्तार्थपदैर्मनोगर्भैस्सदाऽस्य रामस्य चकार
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें