श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
६९४ आनन्दरामायणे [सर्गः ११
शृणु विप्र प्रवक्ष्यामि पूर्ववृत्तं मया कृतम् । रामनाथपुरे चाहं कावेर्या उत्तरे तटे ॥१६६॥
विप्रः परमदुर्वृत्तः सर्वशास्त्रपराङ्मुखः । लक्ष्मीभ्रमदाक्रान्तः पण्यस्त्रीभोगकारकः ॥१६७॥
एकदा सुहृदा चाहं भोजनार्थं निमन्त्रितः । श्राद्धार्हे मधुमासे हि शुक्ले श्रीनवमीदिने ॥१६८॥
मया भुक्तं सुहृद्गेहे नवम्यां द्विजसत्तम । तेन पापेन जातोऽस्म्य करिणीर्ना न संशयः ॥१६९॥
सर्वदा प्रतिमासेऽपि नवम्यां न हि भोजनम् । कार्यं विशेषतो रामनवम्यां त्रिदिनं च तत् ॥१७०॥
इदानीं न हि जानामि केन पुण्येन तेऽत्र वै । संगतिश्च वने जाता सर्वपापप्रणाशिनी ॥१७१॥
इति तस्य वचः श्रुत्वा शत्रुघ्नोऽपि विचिन्तयत् । ज्ञात्वा मातङ्गपुण्यं तु प्रोवाच करिणं द्विजः ॥१७२॥
शृणु मातङ्ग वक्ष्यामि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ]
मनोहरकाण्डम्
६१९
ददर्शान्यपथा यान्तं श्रेष्ठं कार्पटिकोत्तमम् । वहन्तं रामलिंगार्थं श्रेष्ठं भागीरथीजलम् ॥ १८४॥
शम्भुः पप्रच्छ तं नत्वा नम्रं कार्पटिकोत्तमम् । कुतः समागतं विप्र गम्यते काधुना वद ॥१८३॥
कार्पटिक उवाच
प्रयागादागतं विद्धि मां त्वं भूसुरमत्तम । मधुमासेऽवगाहार्थमयोध्यां प्रति गम्यते ॥ १८४॥
इदानीं त्वं निजं वृत्तं वद ब्राह्मणसत्तम । कुतः समागतं काथ गम्यते क्वाधुना वद । १८५॥
इति तद्वचनं श्रुत्वा शम्भुः प्रोवाच तं तदा । शिवकाञ्च्याः समायातमयोध्यां प्रति गम्यते ॥१८६॥
चैत्रमासेऽवगाहार्थं गम्यते कथितं मया । इति शम्भुवचः श्रुत्वा पुनः कार्पटिकोत्तमः । १८७॥
पप्रच्छ द्विजवर्य्याय
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६९६ आनन्दरामायणे [सर्गः ११
तस्माज्जाता पूर्वजन्मस्मृतिस्तस्य शुभावहा । त्राहि त्राहीति मां प्राह मया पृष्टः स वै पुनः ॥ १९८ ॥
कस्मात्पिशाचदेहे त्वं जानंस्तद्वद मन्मथम् । इति मे वचनं श्रुत्वा पिशाचः प्राह मां पुनः ॥ १९९ ॥
काञ्चीपुर्यां द्विजश्चाहं दुण्डिनामा पुरा स्थितः । नान्नदानं मया पूर्वं कृतं स्वल्पमपि क्वचित् ॥ २०० ॥
तस्मात्पिशाचदेहत्वं प्राप्तं कार्पटिकोत्तम । इति तस्य वचः श्रुत्वा पुनः प्रोक्तः स वै मया ॥ २०१ ॥
कथं पिशाचयोन्यास्तु ते मुक्तिश्च भविष्यति । ततः पुनः स मां प्राह यदि मे तनयः सुधीः ॥ २०२ ॥
चैत्रे दर्शो ममोद्देशादन्नदानं करिष्यति । भविष्यति ममोद्धारस्तत्क्षणात्रात्र संशयः । २०३ ।
इति तद्वचनं श्रुत्वा पुनः प्रोक्तः स वै मया । वर्तते क्व सुतस्ते हि किंनामा वद मां प्रति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ] मनोहरकाण्डम् १९७
सर्गः ११ ] मनोहरकाण्डम् १९७
प्रोक्तं गोत्रादिभिर्लिङ्गैर्वर्तते चेद्वदस्व माम् । इति शंभुः पितुर्दुःखं श्रुत्वा मूर्छां जगाम ह ॥२१६॥
आश्वासितश्च भिल्लेन विप्रः प्रोवाच तं पुनः । भो भोः कर्पटिकश्रेष्ठ न ममोऽस्ति नरोऽधमः ॥२१७॥
यस्त्वया पृच्छ्यते शम्भुः सोऽहं विद्धि न संशयः । मया पुत्रेण न कृतं स्वपितुर्मुक्तिदायकम् ॥२१८॥
जन्नदानादिकं कृत्यं विधिषङ्गेमेऽयं वृथा भवः । इदानीं तव वाक्येन दास्याम्यत्र मया पितुः ॥२१९॥
एवं शम्भुः कर्पटिकाय चोक्तवाऽयोध्यां रम्यां दृष्ट्वे वै ददर्श ।
ते प्रणेमुर्जनां दम्पतीर्थाथभिल्लास्ततः शंभुश्चावदन्कर्पशं सः ॥२२०॥
शंभुरुवाच
पश्य पश्य महाप्राज्ञ मद्यायोध्यापुरीं शुभाम् । यस्यां स्नातुं समयाता दृश्यन्ते कोटिशो जनाः ॥२२१॥
जनीघानां ध्वनिरियं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३९८ आनन्दरामायणे [ सर्गः ११
ते द्विजाः कस्य नो वन्द्या अयोध्यानागरीस्थिताः । औदार्ये कल्पतरवो गांभीर्ये सागरा इव ॥२३२॥
क्षमया क्षमया तुल्या जंगमा निगमा इव । दैन्यग्राहमहाग्रामाधिपामगस्त्यमहर्षयः ॥२३३॥
निवसंति द्विजा यत्र षड्धाः सर्वमहीभुजाम् । चतुर्वर्गफले पेत चतुरश्रममुज्ज्वलम् ॥२३४॥
चातुर्वर्ण्यमिहैवास्ते चतुरम्नायमाश्रगम् । कृमिकीटपतङ्गानां विना ज्ञानमयाभिभिः ॥२३५॥
अत्र निर्वाणपदवी सुलभाऽस्ति वनैचर । एतःपानघटान् भोक्तुं तरगान्कुश्यानिव ॥२३६॥
बिभर्ति धरणीतोयं निःश्रेणिर्योगमोक्षयोः । पश्य स्फाटिकसोपाननिविष्टमुनिसंस्तुताम् ॥२३७।
सरयूनदीमुत्तराशां कुतामिव पुरन्दरा । इन्द्रनीलमहातुंगप्रतोलीचारुदर्शनाः ॥२३८॥
रामचन्द्रस्य दिव्योऽयं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ] मनोहरकाण्डम् ६९९
सर्गः ११ ] मनोहरकाण्डम् ६९९
प्रासादोऽयं लवस्यात्र बहुरत्नविराजितः । यत्र चित्राण्यनेकानि मोहयन्ति मृगीदृशाम् ॥ २४८॥
चक्षूंषि जातरूपाणि योगिनामपि मानसम् । विन्यस्तरत्नविन्यासः शातकुम्भमयी बहिः ॥ २४९॥
हेमपंक्तिव सततं रत्नभानुमहाप्रभाम् । रत्नप्रासादसंयुक्तामयोध्यां पश्य सुप्रभाम् ॥ २५०॥
यदंगणं क्षालयती मदांधं स्वोर्म्यजलैः सोऽयमगर्व्यन्नः ।
अभ्रंकषैर्हेममयैः स्वकुंभैर्विराजितोऽय खलु चित्रकेतोः । २५१ ।
दिव्यप्रवालघटिते कपाटे यत्र चञ्चले । प्रासादोऽयमंगदस्य रुक्मभित्तिर्विनिर्मितः ॥ २५२।
गरुडोद्गारघटितप्रतोलीपरिशोभितः । प्रासादः पुष्कगस्यायं नयनानंदतो नृणाम् ॥ २५३॥
विशुद्धजांबूनददिव्यभूर्मेर्लसत्पताकश्चिदशामिवद्यः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७०८ आनन्दरामायणे [सर्गः ११
यत्र कार्त्तस्वरघटाः प्रतोलीशिरसि स्थिताः। रामं द्रष्टुमनस्तान प्राप्ताः सूर्या इवांबभूः ॥ २६३॥
नृसिंह उवाच
एवमुक्त्वा कर्कशेन पत्न्या कार्पटिकेन च । सहितश्च तदा शंभुस्सो पुरीं संविवेश सः ॥ २६४॥
रामतीर्थं ततो गत्वा कृत्वा क्षौरादिकं विधिम् उपोष्य दिनमेकं हि तीर्थश्राद्धं चकार सः ॥ २६५॥
अमावास्यां शुभां चैत्रे प्राप्तां ज्ञात्वा द्विजोत्तमः। मुक्त्यर्थं स्वपितुश्चक्रे अन्नदानं यथाविधि ॥ २६६॥
तच्चैत्रमासे रजनीशमक्षये दत्तं पितुर्मुक्तिमदं मनोहरम् ।
विप्रेण चान्नं पथिकस्य वाक्यतस्तस्मात्पिशाचः सुरमञ्च निर्ययौ ॥ २६७॥
अयोध्यायां ततः शंभुः कृत्वा चैत्रेऽवगाहनम् । उद्यापनविधिं चापि यथोक्तं च चकार सः ॥ २६८॥
कर्कशोऽपिमधौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ११ ] मनोहरकाण्डम् ७०१
इति शंखुवचः श्रुत्वा पद्मनेत्रा कृशोदरी । काशीनाम्नी द्विजपत्नी ददौ पुण्यं निजं तदा ॥२७९॥
दत्तः स राक्षसंभ्रंशस्त्यक्त्वा देहं मलीममम् । दिव्यं विमानमारुह्य गन्वा भार्यायुतं द्विजम् ॥२८०॥
दिव्यमाल्यांबरधरो हरिलोकं जगाम सः । शम्भुरपि प्रियायुक्तो मधुमामं विवर्णयन् ॥२८१॥
ययौ कांचीपुरीं श्रेष्ठां जनान् वृत्तं निवेदयन् । भो पिशाचा यथा वृत्तं भवद्भिश्श्च कथानकम् ॥२८२॥
तन्ममं च मयाऽऽख्यातं राक्षमोद्धारणादिकम् ।
श्रीरामदास उवाच
इत्युक्त्वा नृहरिर्विप्रो गृहीत्वा स्नांजले जलम् ॥२८३॥
| ददौ दिनद्वयस्यास्य पुण्यं चैत्रकृतं निजम् | ततः प्रोवाच भार्यां तु रम्ये चन्द्रसमे प्रिये ॥२८४॥ |
| या |
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७०२ | आनन्दरामायणे | [ सर्गः १२ |
|---|
एवं त्वया यथा पृष्टं तथा सर्वं निवेदितम् । मया काऽन्या स्पृहा तेऽस्ति श्रोतुं तद्वद वच्म्यहम् ॥ २९६॥
इति श्रीमत्कोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे चैत्रस्नानमाहात्म्ये एकादशः सर्गः ॥ ११ ॥
द्वादशः सर्गः
( श्रीरामचन्द्र द्वारा अद्वैतभावका प्रदर्शन )
विष्णुदास उवाच
गुरोऽन्यद्रामचन्द्रस्य चरित्रं वद मां प्रति । शृण्वतो मे मुहूर्नास्ति तृप्तिः श्रोतुं स्पृहैधते ॥ १ ॥
श्रीरामदास उवाच
सम्यक् पृष्टं त्वया शिष्य सावधानमनाः शृणु । एकदा हयमारूढो पुत्रबन्धुबलैः सह ॥ २ ॥
वनं ययौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १२] मनोहरकाण्डम् ७०३
तर्हि तत्र विचित्रान्नैरैस्तृप्तिं प्राप्स्यसि वै क्षणात् । तत्तस्या वचनं श्रुत्वा शबरीं प्राह राघवः ॥१२॥
अहमत्रैव तिष्ठामि प्रतीक्षार्थं कुशस्य च । तापस्य स्तरणादीनां संत्वरस्व वनवासिनि ॥१३॥
गच्छ त्वमेव तां दुर्गां स्त्रीभ्यं वृत्तं निवेदय । तद्रामवचनं श्रुत्वा तथेत्युक्त्वा त्वरान्विता ॥१४॥
स्त्रीर्गत्वा शबरी प्राह शृणुध्वं वचनं मम । गता गजोपपन्नाश्चे शूशूर्णं कर्तुमागतः ॥१५॥
अविदूरे पद्वनेऽके सुखासीनः स्थितोऽस्ति हि । तैनाहं प्रेषिताऽम्यद्य शुश्रावार्थे जगन्मनः ॥१६॥
युष्माकं कथितं वृत्तं तस्य गच्छाम्यहं पुनः । शबर्यास्तद्वचः श्रुत्वा ताश्चार्यैः प्रश्वयान्विताः ॥१७॥
अभिनन्द्य निजैर्वाक्यैः शबरीं तां मुहुर्मुहुः । परस्परं तदा प्रोचुस्ता वार्योः साऽग्रो मुदा ॥१८॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ४०२ | आनन्दरामायणे | ( सर्गः १२ |
|---|
ततः सा शबरी ताभ्यो दर्शयामास राघवम् । ता नेत्रपङ्कजैः सर्व्वा दृष्ट्वा नत्वा रघूत्तमम् ॥३०॥
दिव्यान्नानि पुरः स्थाप्य हेमपात्रैर्जलान्यपि । ततस्तं प्रार्थयामासुः स्त्रियः सर्व्वा पुरःस्थिताः ॥३१॥
त्वयाऽद्य हारिता राम वयं भार्य्यैः सहस्रशः । शबरीं प्रेष्य गहने वनेऽत्र परमादरात् ॥३२॥
अन्नानि स्वीकुरुष्वान्त्र देव्या त्वां प्रेषितानि हि । तासां वचनं श्रुत्वा राघवः प्राह सस्मितः ॥३३॥
देव्या किमुक्तं भो भार्य्यः कथ्यतां ममार्थ तत् । ताः प्रोचु राघव नारी दुर्गावाक्यं सविस्तरम् ॥३४॥
दुर्गावाक्यं शृणुष्वाद्य त्वहमेवात्र जानकी । रामः साक्षान्महादेवो नात्र भेदः कदाचन ॥३५॥
मानयन्त्यत्र भेदं ये रौरवेषु पतन्ति ते । ममो रामं तोषयित्वा तदुच्छिष्ट त्वहं ततः ॥३६॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १२ ] मनोहरकाण्डम् ७०५
सर्गः १२ ] मनोहरकाण्डम् ७०५
तत्र स्नात्वा रामचन्द्रः कृत्वा बाप्यादिकं ततः। यावद्भोक्तुं मनश्चक्रे तावत्तेऽपि समाययुः ॥४७॥
कुशाद्याः सर्वसैन्यैश्च रामराजीवदानुगाः । ते मठे जानकीं दृष्ट्वा विस्मयं परमं ययुः ॥४८॥
ततस्ते शबरीवाक्यात्सर्वं श्रुत्वा कुशादिकाः । अवबोद्धा रामचन्द्रं मेनिरे चन्द्रशेखरम् ॥४९॥
सीतां गिरेस्तनूजां चापि मेनिरे ते विनिश्चयात् । ततो रामः कुशाद्यैश्च मुदा सैन्येन सीतया ॥५०॥
भुक्त्वा पीत्वा जलं स्वच्छं वाक्यं स्त्रीः प्राह सादरम् । वरयध्वं वराद्भार्या युष्माकं यत्तु रोचते ॥५१॥
तद्रामवचनं श्रुत्वा स्त्रियः प्रोचू रघूत्तमम् । येनास्माक भवेत्कीर्तिस्तं वरं दातुमर्हसि ॥५२॥
ततः प्राह रामचन्द्रस्ता नारीस्तुष्टमानसः । मम नामास्तु युष्माकं रामेति जगतीतले ॥५३॥
युष्माकं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७०६ | आनन्दरामायणे | [ सर्गः १२ |
|---|
युष्माभिर्जपनीयं वै तेनास्तु गतिरुत्तमा। इति दत्वा वरांस्ताभ्यः सीतामाह पुरःस्थिताम् ॥ ६५॥
सुखं याहि स्थलस्वार्थं तथेत्युक्त्वा विदेहजा। रामं प्रणम्य स्त्रीयुक्ता ययौ देवालयं पुनः ॥ ६६॥
देवालयगता भूत्वा दुर्गरूपं दधार सा। तदातिविस्मयं प्रापुस्ता नार्यो निश्चितामिति ॥ ६७॥
तास्तां दुर्गां प्रपूज्याथ नार्यो जग्मुः स्थलं निजम्। रामोऽपि बन्धुपुत्रायैर्वृतो निजपुरीं प्रति ॥ ६८॥
ततो गेहे कुशः सीतां पप्रच्छ स्वविचेष्टितम्। दृष्टश्च यथा वृत्तं तथा सीता न्यवेदयत् ॥ ६९॥
ततस्ते लक्ष्मणाद्याश्च मेनिरे राघवं हरम्। सीतां साक्षान्महादुर्गां मेनिरे गतविभ्रमाः ॥ ७०॥
एवं शिष्य जनानां च रामेण शमनात्मना। द्वैतबुद्धिः खण्डिताऽथ दैवे कृत्वा तु कौतुकम् ॥ ७१॥
एवं वरेण रामस्य रामा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[सर्गः १२] मनोहरकाण्डम् ७०७
पुरैकदा तु मुनयः संभूयोचु रघूत्तमम् । राम राम महाबाहो कलावग्रे द्विजोत्तमाः ॥८३॥
स्वप्रविना मंदधियो भविष्यन्त्यवनीतले निजजठरपूर्त्यर्थे द्वाराद्वाराद् भ्रमन्ति हि ॥८४॥
कुतोऽवकाशः स्मरणे तव तेषां भविष्यति । अतस्तेषां हितार्थाय त्वां याचामोऽद्य राघव । ८५॥
तेषां हितार्थं किंचिञ्चोपायं वक्तुमर्हसि । तेषां वचनं श्रुत्वा मुनीनां रघुनन्दनः । ८६॥
उवाच वाक्यं सन्तुष्टस्तन्मुनीन्द्रसमन्वभू । सम्यगुक्तं मुनेश्रेष्ठाः शृणुध्वं वचनं मम ॥८७॥
मम मुद्रांकितं वस्त्रं कलौ धार्यं जनैः सुखम् । मम मुद्रांकितं वस्त्रं विभ्रतं मानवोत्तमम् । ८८॥
न स्पृशेद्यमकं किंचित्कृतं वापि नरेण हि । शङ्खचक्रगदापद्मशतमद्रांकितं शुभम् ॥८९॥
वस्त्रं धार्यं नरैर्भक्त्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७०८ | आनन्दरामायणे | [ सर्गः १३ |
|---|
पूजा सदा राघवस्य कार्याऽत्र मानवैर्भुवि सदा स्नानं रामतीर्थे नरैः कार्यं प्रयत्नतः ॥ १०० ॥
सदा रामायणं चेदं श्रवणीयं नरैर्भुवि चिंतनीयः सदा रामो जन्ममृत्युन्निवारकः ॥ १०१ ॥
स्तोतव्यः कीर्तनीयश्च वन्दनीयोऽत्र राघवः । न किंचिदणुमात्रं हि विनारामं सदाऽऽचरेत् ॥ १०२ ॥
हनुमत्कवचं दिव्यं पठित्वाऽऽदौ नरैर्भुवि । ततः श्रीरामकवचं पठनीयं हि सर्वदा । १०३ ॥
पठंति रामकवचं हनुमत्कवचं विना । अरण्ये रोदनं तैस्तु कृतमेव न संशयः ॥ १०४ ॥
स्तोत्राणामुत्तमं स्तोत्रं सर्वभीतिनिवारकम् । श्रीरामकवचं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] मनोहरकाण्डम् ७०१
सर्गः १३ ] मनोहरकाण्डम् ७०१
शृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया । विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥ ४ ॥
कवचं कपिनाथस्य वायुपुत्रस्य धीमतः । गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥ ५ ॥
उद्यदादित्यसंकाशमुद्दण्डभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ६ ॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ७ ॥
हनुमानञ्जनीसूनुर्वायुपुत्रो महाबलः । रामेष्टः फाल्गुनसखः पिंगाक्षोऽमितविक्रमः ॥ ८ ॥
उदधिक्रमणश्चैव सीताशोकविनाशनः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ९ ॥
एवं द्वादश नामानि कपीन्द्रस्य महात्मनः । स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥१०॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७१० | आनन्दरामायणे | [ सर्ग १३ |
|---|
देवेन्द्रप्रमुखं प्रशमयन्तं देदीप्यमानं रुचा ।
सुग्रीवादिममस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
सक्ताहारणलोचनं पवनजं पीताम्बरालंकृतम् ॥ १ ॥
उद्यन्मार्तण्डकोटिकरुचियुतं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कुण्डलांकम् ।
भक्तानामभीष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं
ध्यायेदेवंविधेयः प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ २ ॥
वज्रांगं पिंगकेशाख्यं स्वर्णकुण्डलमंडितम् । निगदमुपमगम्यं पारावारपराक्रमम् ॥ ३ ॥
स्फटिकामं स्वर्णकांतिं द्विभुजं च कृतांजलिम् । कुण्डलद्वयमंशोभि सुत्नांभोजं हरिं भजे ॥ ४ ॥
सव्यहस्ते गदायुक्तं वामहस्ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] मनोहरकाण्डम् ७११
श्रीरामचन्द्र उवाच
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः ॥ १ ॥
उदीच्यामूर्ध्वतः पातु केसरीप्रियनन्दनः । अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥ २ ॥
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ ३ ॥
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ४ ॥
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनीसूनुः पातु वक्त्रं दरास्यहृत् ॥
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ५ ॥
पातु दन्तान् फाल्गुनेष्टश्चिबुकं दैत्यदर्पहा । पातु कण्ठं च रक्षोहा स्कन्धौ पातु सुरारिहा ॥ ६ ॥
भुजौ पातु महातेजाः करौ च चरणायुधः । नखान् नखायुधः पातु कुक्षी
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७१२ आनन्दरामायणे [ सर्ग १३
अश्वत्थमूलेऽर्कवारे स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति संग्रामे विजयं तथा ॥१५॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगताम् । सुदृढ्यं वाक्यपुष्टत्वं च हनुमत्स्मरणाद्भवेत् ॥१६॥
मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम् । शोकस्य हरणे दक्षं वन्दे तं रणदारुणम् ॥१७॥
लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् । यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ॥१८॥
स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः । तत्क्षणात्मुक्तिमाप्नोति निगडात् तथैव च ॥१९॥
ईश्वर उवाच
माणिक्योद्भासपादद्वितययुगलं कौपीनमौञ्जीधरं काञ्चीश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् ।
हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १३ ] मनोहरकाण्डम् ७१३
सर्गः १३ ] मनोहरकाण्डम् ७१३
वामे करे वैरिभिरं वहंतं शैलं परं मुद्गलगहाप्रकम्पम् ।
इभाननाह्लाद्य सुपर्णवर्णं भजे ज्वलत्कुंडलमांजनेयम् ॥२४॥
पद्मरागमणिमंडलत्विषा पाटलीकृतकपोलमंडलम् ।
दिव्यदेहरुकदलीवनांतरे भावयामि पवमाननन्दनम् ॥२५॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम् ॥२६॥
मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥२७॥
विवादे दिव्यकाले च द्यूते राजकुले रणे । दशवारं पठेद्रात्रौ मिताहारे जितेंद्रियः ॥२८॥
विजयं लभते लोके मानवेषु नरेषु च । भूते प्रेते महादुर्गेऽप्यथे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें