श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
सर्गः ६ ] मनोहरकाण्डम् ६२५
सर्गः ६ ] मनोहरकाण्डम् ६२५
ऊर्ध्वे भद्रे रविपदे पदैःषड्भिः शिताः । आत्मनोऽभिमुखाः सर्व्वं कार्यं ह्यष्ट शुभावहाः ॥३४८॥
त्रयोदशांघ्रिका वापी तस्यां पश्चिमे स्मृता । पूर्व्वे त्वेका द्वे शकले शेषं सर्वं तु पूर्व्ववत् ॥३४९॥
तिर्य्यग्भद्रे वेदपदे षट्पून्योर्ध्ववल्लरी । दक्षिणोत्तरतश्चापि वापीनां शकलाष्टकम् ॥३५०॥
उभयोर्लिङ्गयोर्माला मा त्रिभर्नेत्रनैः स्मृता । सर्व्वत्र नेत्रे द्वे त्र्ये दक्षिणोत्तरयोस्त्रिभिः ॥
पृथक् चत्वारि भद्राणि अधोभद्रे चतुष्पदे ॥३५१॥
दक्षिणोत्तरदिग्भागे पूर्व्ववन्नृपौ च संनयेत् । उल्लङ्गे मध्ये तु परिधिः पञ्चविंशैर्जलेरुहम् ॥३५२॥
शृङ्खला द्विपदा मध्ये वल्ली षट्पादजा स्मृता । वाप्यः पञ्चपदैर्ज्ञेया भद्रं वेदपदान्मकम् ॥३५३॥
सिता वापी शिवः कृष्णः पद्ममद्रे च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ६२६ | आनन्दरामायणे | [ सर्गः ५ |
|---|
परिधिः पीतवर्णस्तु पदैः षोडशभिः स्मृतः । पदैस्तु नवभिः पश्चात्पद्मं चित्रं सकर्णिकम् ॥ ३६५॥
तिर्यगूर्ध्वं गता रेखाः कार्याः स्निग्धाम्बुयोद्भव । कोणेन्दुस्त्रिपदः कार्यः श्रृंखला त्रिपदा स्मृता ॥३६६॥
वल्ली च षट्पदा नीला रक्तं भद्रं प्रकस्पयेत् । पदैर्द्वादशभिः स्पष्टमुत्तरे पूर्वदक्षिणे । ३६६॥
पश्चिमायां महारुद्रमष्टत्रिंशत्तिकोष्ठके । लिंगशार्यं तथा मूर्ध्नि षाट् कोष्ठान्त्तु पीतकाः ॥३६७॥
लिंगमेकं तथा गौर्यास्तिलकं प्रोक्तमण्डले । पूजयेन्मण्डले चैव तस्य गौरी प्रसीदति । ३६८॥
प्रागुदीच्यां गता रेखाः कुर्यादेकोनविंशतिः । खण्डेन्दुस्त्रिपदः कोणे शृङ्खला पञ्चभिः पदैः । ३६९॥
एकादशपदा वल्ली भद्रं तु नवभिः पदैः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] मनोहरकाण्डम् १२७
सर्गः ६ ] मनोहरकाण्डम् १२७
षष्ठः सर्गः
(रामनोभद्रमें देवताओंकी स्थापनाविधि तथा रामनवमीकी कथा)
अथ सर्वतोभद्र तद्देवताश्च लिख्यन्ते । प्राणानायम्य देशकालौ स्मृत्वा रामतोभद्रदेवतास्थापनं वा रायलिंगतोभद्रदेवतास्थापनं वा रमानामनोभद्रदेवतास्थापनं वा रमानामनोभद्रदेवतास्थापनं करिष्य इति संकल्प्य । ब्रह्मजज्ञानमिति मन्त्रस्य वामदेवऋषिः त्रिष्टुप्छन्दः ब्रह्मदेवता ब्रह्मस्थापने विनियोगः ॥ 'ब्रह्मजज्ञान०' सर्वतोभद्रमध्ये ब्रह्माणमावाहयामि ॥ १ ॥ उत्तरे वापीप्राणनामे 'आप्यायस्व०' सोमाय नमः सोममावाहयामि ॥ २॥ ईशान्यौ खंडेन्दौ 'तमीशानं०' ईशानाय नमः ईशानमावाहयामि । ३ ॥ पूर्व्वस्यां वाप्यां 'त्रातारमिन्द्र०' इन्द्राय नमः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६२८ ] आनन्दरामायणे [ सर्गः ६
'आयंगौः०' भूतगणेभ्यो नमः भूतानागानावाहयामि ॥ १६ । वरुणवायुमध्ये भद्रे नदीभ्यः पौञ्जिष्टं गन्धर्वाप्सरोभ्यो नमः गन्धर्वाप्सरस आवाहयामि ॥ १७ ॥ ब्रह्मसोममध्ये वाप्यां 'यदक्रंदः प्रथमं०' स्कन्दाय नमः स्कन्दमावाहयामि ॥ १८ । 'नमः शंभवे०' नंदीश्वराय नमः नंदीश्वरमावाहयामि ॥१९। 'भद्रं कर्णेभिः०' शूलाय नमः शूलमावाहयामि ॥ २० । 'विश्वकर्मा- ह्यज०' महाकालाय नमः महाकालमावाहयामि ॥ २१ ॥ ब्रह्मैशानमध्ये वल्लीषु 'आदितिद्यौँ०' ऋक्षादिभ्यो नमः ऋक्षादीनावाहयामि ॥२२। ब्रह्मंद्रमध्ये वाप्यां 'श्रियस्ते०' दुर्गायै नमः दुर्गामा- वाहयामि ॥ २३ ॥ 'इदं विष्णु०' विष्णवे नमः विष्णुमावाहयामि । २४॥ ब्रह्माग्निमध्ये वल्लीषु 'उदीरिता०' स्वधायै नमः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] मनोहरकाण्डम् ६२९
सर्गः ६ ] मनोहरकाण्डम् ६२९
गौतमाय नमः गौतममावाहयामि ॥४२॥ ईशान्यां भरद्वाजाय नमः भरद्वाजमावाहयामि ॥४३॥
पूर्वे विश्वामित्राय नमः विश्वामित्रमावाहयामि ॥४४॥ आग्नेय्यां कश्यपाय नमः कश्यपमावाहयामि
॥४५॥ दक्षिणे जमदग्नयेनमः जमदग्निमावाहयामि ॥४६॥ नैर्ऋत्यां वसिष्ठाय नमः वसिष्ठमावाह-
यामि ॥४७ पश्चिमे अत्रये नमः अत्रिमावाहयामि ॥४८। वायव्यां अरुन्धत्यै नम अरुन्धतीमावा-
हयामि ॥४९॥ पुनः पूर्वादििक्रमेण पूर्वे विश्वामित्रसमीपे ऐन्द्यैनमः ऐन्द्रीमावाहयामि ॥५०॥
आग्नेय्यां कौमार्यै नमः कौमारीमावाहयामि ॥५१। दक्षिणे ब्राह्मयै नमः ब्राह्मीमावाहयामि ॥५२॥
नैर्ऋत्यां वाराह्यै नमः वाराहीम० ॥५३। पश्चिमे चामुंडायै नमः चामुंडाम० ॥५४ वायव्ये वैष्णव्यै
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३० आनन्दरामायणे [ सर्गः ६
भागीरथ्यै नमः भागीरथीमा० ॥ ८२ ॥ रक्तपरिधौ सरस्वत्यै नमः सरस्वत्तीमा० ॥८३ । कृष्णपरिधौ
यमुनायै नमः यमुनामा० ॥ ८४ । एवमेव रमारामाभद्रदेवतावाहन कार्यम् । रमारामाभद्रे मुद्रायमेव
विशेषः । आदौ रमामावाह्य राममावाहयेत् । एवमावाहनं कृत्वा षोडशोपचारैः पूजयेत् । शेषा-
न्नेन दिग्बलिः कार्यः ॥
इति आनन्दरामायणान्तर्गतरामोभद्रदेवतास्थापनविधिः ।
अथ रामनवमीकथा
श्रीरामदास उवाच
शिष्य यद्यत्प्रियं तस्मै रामाय तद्वदाम्यहम् । मासेषु चैत्रमासस्तु राघवस्यातिवल्लभः ॥ १ ॥
पक्षयोः सितपक्षस्तु प्रियोऽस्ति राघवस्य हि सर्वासु तिथिषु श्रेष्ठा नवमी राघवप्रिया ॥ २ ॥
सूर्यवंशसमुद्भूतस्तत्सम्बन्ध भानुवासरः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] मनोहरकाण्डम् ६३१
सर्गः ६ ] मनोहरकाण्डम् ६३१
ग्राह्या मरिचमानेन नवार्थं नवभिस्त्विदम् । तोषदं रामचन्द्रस्य भक्त्या कार्यं सदा नरैः ॥१३॥
लघु नवान्नं वक्ष्यामि नैवेद्यार्थं निरंतरम् । कुडवा नव गोक्षीरं तंदुलाः कुडवस्य च ॥१४॥
चतुर्थांशमिता ग्राह्याः कुडवाष्टांशसंमिताः । ग्राह्या विनुषमुद्गाश्च कुडवार्धं सिता स्मृता ॥१५॥
घृतं मुद्रसमं ग्राह्य तावन्मानं मधु स्मृतम् । तावन्मानं श्रीफलं च मरिचं टंकसंमितम् ॥ १६॥
टंकार्धा जातिपत्रीच नवान्नं लघु कीर्तितम् । कुडवोऽर्कटकैर्मितस्टंको माषचतुष्टयम् ॥ १७॥
लघु नवान्नमेतच्च राघवाय निवेदयेत् । निरंतरं हि पूजायां राघवस्यातिहर्षदम् ॥१८॥
पनसम्बूकपिन्याश बीजपूरं च दाडिमम् । खर्जूरी नारिकेलं च कदलीफलमेव च ॥१९॥
पनसं चेति रामाय
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ६३२ | आनन्दरामायणे | [ सर्गः ६ |
|---|
मुखशुद्ध्यनुकूलं च त्रिपुण्ड्रं हस्तयोग्यकम् । तथा प्रावरणं दिव्यं नव वस्त्राणि भो द्विज ॥३३॥
नव दिव्यालङ्कारा देयाः श्रीराघवाय हि । कुण्डले कङ्कणे माला केयूरे नूपुरे तथा ॥३४॥
पदकं कटिसूत्रं च शृङ्खला मुद्रिकेति च । एते नव त्वलङ्कारा देया रामाय भक्तितः ॥३५॥
एवं शिष्य मया प्रोक्तं नेदानि महान्ति च । मरकतान्यान्यनेकानि तदाग्रे दर्शितानि हि ॥३६॥
मुख्यान्येव पदानि हि नवकेषु मया स्मृताः । एभ्यस्त्वन्य पदान्यर्थ ये ये सन्ति महस्रशः ॥३७॥
ते सर्वे राघवाशानिभक्त्या देयास्तु पूजने । प्रत्यहं रामचन्द्रस्य त्रिकालं पूजनं नरैः ।३८।
कार्यं वित्तानुसारेण न कदा कार्पण्यमाचरेत् । प्रतिपद्दिनमारभ्य यावच्च नवमीतिथिः ॥३९॥
तत्तद्विशेषतः कार्यं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] मनोहरकाण्डम् ६२१
सर्गः ६ ] मनोहरकाण्डम् ६२१
अथवाऽष्टोत्तरशतं रामलिङ्गात्मकं शुभम् । अष्टोत्तरसहस्रं वा रामतोभद्रमुत्तमम् ॥ ५२ ॥
अयवाऽष्टोत्तरशतं रामतोभद्रमुत्तमम् । सिंहासने निधायाथ रामस्यामलमुज्ज्वलम् ॥ ५३ ॥
भद्रोपरि सपत्नीकं तत्र विप्रं निवेशयेत् । पश्चिमाभिमुखे वामभागे पत्नीं निवेशयेत् ॥ ५४ ॥
सीतारामौ तु दम्पत्योरावाद्य तदनन्तरम् । तत्पृष्ठे लक्ष्मणं विप्रं चिंतयेच्च ततः परम् ॥ ५५ ॥
भरतं राममग्रे तु आवाह्य भूसुरे तथा ॥ ५६ ॥
विप्रेऽञ्जनिसुतं वापि रामस्याग्रे विचितयेत् । रामस्य वायुदिग्भागान्मुग्रीवादीन् विचितयेत् ॥ ५७ ॥
चतुष्कोणेषु विप्रेषु तत रचतमाचरेत् । नव यत्रनपूजेयं ज्ञेया श्रीराघवस्य हि । ५८ ॥
अयवा पञ्चायतनं पञ्चविप्रेषु चिंतयेत् । मर्मात्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३४ आनन्दरामायणे [ सर्गः ६
मानाफलानि देयानि देयस्तांबूल उत्तमः दक्षिणा च ततो दत्त्वा देयो मुकुर उज्ज्वलः ॥७१॥
नीराजनं ततः कृत्वा मंत्रपुष्पाणि दीयताम् । प्रदक्षिणानमस्कारांश्च कृत्वा ततः परम् ॥७२॥
नृत्यगीतादिकं कृत्वा प्रार्थयेद्रघुनायकम् । विनियोग्य करौ पादौ राघवो संस्थितैर्नरैः ॥७३॥
वामे भूमिसुता पुरस्तु हनुमान् पृष्ठे सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वायव्यकोणादिषु ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥७४॥
रामो हन्त्वा दशास्यं द्विजवचनगुरुत्वेन यात्राऽश्वमेधान्
कृत्वा भुक्त्वानिभोगानवनितलगतांश्चा गृहीत्वाऽथ सीताम् ।
लब्ध्वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः १ ] मनोहरकाण्डम् ६३५
मासे मासे सर्वदैव रामोपासकमानवैः। एवं मासव्रतं प्रोक्तं राघवस्यातितोषदम् ॥८५॥
संति व्रतान्यनेकानि जगन्त्यां पुण्यदानि हि। तथाप्यनेन सदृशं न भूतं न भविष्यति ॥८६॥
व्रतानामुत्तमं चैतद्भुक्तिमुक्तिप्रदायकम् । अवश्यमेव कर्तव्यं रामोपासकमानवैः ।८७॥
एवं शिष्य मया प्रोक्तं व्रतानामुत्तमं व्रतम् । सविस्तारं तवाग्रे हि राघवस्यातितोषदम् ॥८८॥
विष्णुदास उवाच
श्रीरामनवमीमासव्रतस्योद्यापनं वद । कदा कार्यं कथं कार्यं गुरो कृत्वा कृपां मयि ।८९।
श्रीरामदास उवाच
सम्यक् पृष्टं त्वया वत्स मन्नावधानमनाः शृणु। तद्धर्मवन्मम मासनवमीव्रतमुत्तमम् । ९०।
कृत्वा चोद्यापनं कार्यं चैत्रे श्रीरामजन्मनि । नवम्यां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३६ | आनन्दरामायणे | [सर्ग ६
तस्याप्यर्धं तदधार्थं वित्तशाठ्यं न कारयेत् । षोडशैश्चोपचारैश्च पूजोक्ता निशि जागरः ॥१०२॥
दशम्यां प्रातरुत्थाय स्नात्वा सम्पूज्य राघवम् । राममंत्रेण हवनं कार्यं नवसहस्रकम् ॥१०३॥
तिलाद्यैः पायसाद्यैश्च नवांशेनाथ तत्स्मृतम् । तद्दशांशेन क्षीरेण तर्पणं हि प्रकामयेत् ॥१०४॥
तस्यापि च दशांशेन मार्जनं द्विजभोजनम् । कर्णमुद्रां हस्तमुद्रां वसने नवसू्त्रकम् ॥१०५॥
चित्राम्रमनुपमंगेय मुकुटं झर्झरीं तथा । कांस्यपात्रं भोजनस्य नवांशेन प्रपूरितम् ॥१०६॥
घृतपात्रं कांस्यमयं नवांशोपरि संस्थितम् । पादुके पुस्तकं दिव्यं यत्किंचिद्राघवस्य च ॥१०७॥
तांबूलं दक्षिणां चापि प्रत्येकं भूसुराय हि । अर्पयेत्सकलं चैवमेव सर्वान् समर्पयेत् ॥१०८॥
ततो गुरुं समभ्यर्च्य प्रणम्य च पुनः पुनः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६] मनोहरकाण्डम् १३७
विष्णुदास उवाच
गुरो त्वया राघवस्य श्रीरामनवमीव्रतम् । मये मासे प्रकर्तव्यमिति प्रोक्तं ममाग्रतः ॥११९॥
केनाचरितं पूर्वं सिद्धिलब्धाऽथ केन हि । तन्ममं विस्तरेणैव वद कृत्वा कृपां मयि ॥१२०।
अन्यच्च प्रष्टुमिच्छामि तन्मे मां वक्तुमर्हसि । अशक्तेन नरेणेदं व्रतं कार्यं कथं महत् ॥१२१।
श्रीरामदास उवाच
सम्यक् पृष्टं त्वया शिष्य सावधानमनाः शृणु । आसीत्पुरा द्विजः कश्चित्केशाले राहव-परः ॥१२२॥
नाभूत्तस्य विवाहोऽत्र निर्धनस्य जनस्य च । नासीद्गृहं गद्हमपि न माता न पिताऽपि चः ॥१२३॥
हस्त्यैको नियमश्चासीद्दरिद्रस्य च तं शृणु । नित्यं प्रातः समुत्थाय कृतमालोनदीजले ॥१२४॥
स्नात्वा नदीसिकतायां सिकतावेदिका नव ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३८ आनन्दरामायणे [ सर्गः ६
ततः पृथक्चोद्वर्त्तनं तैलादङ्गान्निधाय सः। नीरेणस्नापयत् सर्वान् कृत्वा चोष्णंतान्यपि ॥१३७॥
दत्तौ भुजादित्रणे वस्त्रार्थं च पृथग्ददौ। ततः पत्रैः फलैः पुष्पैर्लब्धैःस्नानार्च्चनक्रमात् ॥१३८॥
पचः स स्थूलव्रीहीणां कुर्वोदनमनुत्तमम्। स्नात्वा माध्याह्निकं कृत्वा पुनःसम्पूज्य राघवम् ॥१३९॥
दत्त्वौदनस्य नैवेद्यं वैश्वदेवं विधाय च। किञ्चिद्भिक्षामतिथये दत्त्वान्नाण्डजडिकाम्॥१४०॥
दत्त्वा पृथक्पृथक् विप्रश्चक्रे रामाज्ञयाऽशनम्। ततो रामं पुनः पृष्ठे समारोहयददरात् ॥१४१॥
ततः सीतां ततः सर्वान् लक्ष्मणादीन्क्रमेण हि। पूजोपकरणं सर्वं पेटिकायां विधाय सः ॥१४२॥
कृत्वा तां पेटिकां पृष्ठे जगामाथ शनैःशनैः। स वनागमोपवनं गत्वा रामं वचोऽब्रवीत् ॥१४३॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ३]
मनोहरकाण्डम्
६३९
ततस्तु याचितत्वेनैव वस्तूनि मिश्रितानि हि । पृथक्कृत्वा तु सर्वेषां त्रीन् भागांश्च चकार सः ॥१५४॥
द्वौ भागौ स स्वनिकटे स्थाप्यैकं भागमुत्तमम् । मित्रगेहे न्यासभूतं नवम्यर्थं चकार सः ॥१५५॥
ततः स्वयं द्वारमध्ये चकार शयनं द्विजः । पुनः प्रभाते चोत्थायाचम्य गीतादिभिः प्रभुम् ॥१५६॥
तालशब्दैः प्रबोध्यैाथ तान्पृष्ठे स्थाप्य पूर्ववत् । नदीतीरं ययौ विप्रः पूजयामास पूर्ववत् ॥१५७॥
एवं नित्यपूजनं च चकारादृतमानसः । नवम्यां च विशेषेण पूजयित्वाऽथ राघवम् ॥१५८॥
स्वयं चापोषणं कृत्वा स्वयं चक्रे सुकीर्तनम् । रात्रौ जागरण चापि राघवं पूज्य वै पुनः ॥१५९॥
चकार कीर्तनेनाथ नर्तनाद्यैः स्वयं कृतैः । ततः प्रभाते श्रीरामं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१० आनन्दरामायणे [ सर्गः ६
एतस्मिन्नन्तरे वृष्टिर्पीडिता नृपसेवकाः। ग्रामे गेहानि विविशुः सुन्योगेद्ययुर्दश ॥१७२॥
अश्वारूढाः सद्यआस्ते द्वारमध्ये द्विजोत्तमम्। दृष्ट्वा विनिद्रितं प्रोचुर्द्विजोत्तिष्ठ जवेन हि ॥१७३॥
मार्गं देहि वयं दृष्ट्या पीडिताः स्मश्चिरं बहिः। गुल्मभेदैऽत्रस्यास्याम सुसुखाश्वाः ससेवकाः ॥१७४॥
तत्तेषां वचनं श्रुत्वा सभ्रयेण द्विजोऽब्रवीत्। रामचन्द्रः सीतयात्र निद्रितोऽस्ति स्ववंगुभिः ॥१७५॥
न वर्तेतेऽत्र युष्माकं स्थलं मन्यं वचो मम। गच्छध्वं नगरे नानास्थलान्यन्यानि मन्ति हि ॥१७६॥
तस्यस्य वचनं श्रुत्वा राजदूताः पुनद्विजम्। प्रोचुस्ते यद्यस्ति श्रीरामः सोऽपि निर्यातु वै बहिः ॥१७७॥
सीतया बंधुभिर्युक्तैः स्थलं नो देहि भो द्विज। पुनराह द्विजस्तान् स कथं रामं विनिद्रितम्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ]
सर्गः ६ ]
मनोहराकाण्डम्
६४१
तदा सा मारुतेर्धातुमयी मूर्तिः शुभावहा। गत्वाऽऽकाशे गर्जनां वै चकारातिभयंकराम्॥१९०॥
तां गर्जनां महावीरा ग्रामस्याथ बहिः स्थिताः। श्रुत्वाऽतिभयसन्त्रस्ता मृताः सर्वे क्षणेन हि॥१९१॥
अश्वा नागा वृषाश्चाथ मृताः सर्वे तदा क्षणात्। सर्वद्रव्यमये वह्नेवाऽपि परं पुरुषसञ्चितम् ॥१९२॥
पुत्रगर्भाश्च नारीणां सर्वे प्रापुः क्षयं तदा। तदा स पुरुषस्त्वेको न मृतो ब्राह्मणोत्तमः॥१९३॥
कृपया रामचन्द्रस्य मारुतेः कृपयाऽपि च। ततः प्रभाते ता नार्यः सर्वास्त्वपुरुषान्वितान्॥१९४॥
दृष्ट्वाऽतिविस्मयं प्रापुर्नाशनं स्वप्रभो बहिः। तदा विप्रं जीवितं तं दृष्ट्वाऽङ्केऽपि मारुतिम् ॥१९५॥
इतितं विस्मयाविष्टाः पप्रच्छुस्तं द्विजोत्तमम्। ततः स सकलं वृत्तं नारीः सभाषयतदा ॥१९६॥
ततस्ताः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६७२ आनन्दरामायणे [सर्गः ६
मारुतेः शब्दसंस्पर्शश्रवणात् व्यंघ्रिणा नराः । षण्ढका एव जायन्ते न तेभ्योऽन्यत्सुपौरुषम् ॥२०७॥
अतस्तेषामशक्तानां वीर्यं हीणंतदा द्विज । भवन्ति दुहितर एवं कश्चित्पुत्रः प्रजायते ॥२०८॥
आधिक्ये रजसः कन्या शुक्राधिक्ये सुतो भवेत् । नपुंसकः समत्वेन यथेच्छा वाऽथेश्वरेशे ॥२०९॥
अन्यत्ते कारणं वच्मि न भवन्ति सुता यतः । कारणं शृणु तस्येदं विष्णुदास द्विजोत्तम ॥२१०॥
तेषु देशेषु नार्यश्च निजराज्यमदेन हि । रतिकालोऽधः पुरुषं कृत्वा क्रीडां भजन्ति ताः ॥२११॥
न स्त्रीणां रतिकाल ताः पृष्ठं भूमिसपृशन्ति हि अतएव रतिकाल शुक्रं तु स्रवते वहिः ॥२१२॥
सूक्ष्मच्छिद्रं तथा गर्भस्थाने तन्नैव गच्छति । नासानायनकर्णानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते ॥२१३॥
मेहनपादचवक्त्राणामेकैकं रन्ध्रमुच्यते । दशमं मस्तक
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसर्गः ६ ] मनोहरकाण्डम् ६१३
सर्गः ६ ] मनोहरकाण्डम् ६१३
तस्मात्पुत्रार्थिना नारी शोषणीया कदापि न । पोषयेच्च सदाऽऽत्मानं नानाखाद्यरसायनैः ॥२२३॥
अतएव हि वैद्याश्च पालनीयाः सदा नरैः । बलाबलबोधैर्वा शास्त्रज्ञैः स्वस्वसत्त्वबलम् ॥२२४॥
पुष्टदेहं निरीक्ष्याथ न ज्ञेयं त्वधिकं बलम् । वातेनापि पुमान्पुष्टो जायतेऽत्र सदैव हि ॥२२५॥
अतो वैद्यं विना तच्च न ज्ञास्यसि बलाबलम् । अतो वैद्यास्ते प्रष्टव्याः सदा भक्तिपुरःसराः ॥२२६॥
मंत्रे तीर्थे द्विजे देवे वैद्येऽथ गणके गुरौ । यादृशी भावना स्त्रीया सिद्धिर्भवति तादृशी ॥२२७॥
अतो वैद्योक्तमार्गेण सदा गच्छेन्मृगेक्षणः । बलाबलाद्विचारेण पुत्रा एव भवंति हि ॥२२८॥
एक एव वरः पुत्रः किं जाता दश कन्यकाः । पुन्नाम्नो नरकान्पुत्रस्त्रायतेऽत्रह्वलं क्षणात् ॥२२९॥
कन्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६४४ आनन्दरामायणे [ सर्गः ७
श्रीपुत्रधनदं चैतत्सर्वसौख्यप्रदं नृणाम्। इहलोके परे चापि विष्णोः सायुज्यदायकम् ॥२३८॥
संति व्रतान्यनेकानि स्वर्गे मर्त्ये रसातले। तथापि रामनवमीसमानं व्रतमुत्तमम् ॥२३९॥
विष्णुदास द्विजश्रेष्ठ न भूतं न भविष्यति। तस्मात्सदा नरैः कार्यं व्रतं चेदं महत्तमम् ॥२४०॥
एवं त्वया यथा पृष्टं तथा ते विनिवेदितम्। किमन्वच्छ्रोतुमिच्छास्ति तद्वदस्व वदामि ते ॥२४१॥
इति श्रीमत्कोटिरामचरितांतर्गते श्रीमदानन्दरामायणे वाल्मीकीये राज्यकांडे
आदिकाव्ये नवमीकथावर्णनं नाम षष्ठः सर्गः ॥ ६ ॥
सप्तमः सर्गः
( लक्षरामानामोद्यापनविधि )
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें