मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
ग्यारहवां अध्याय । ४२६
ग्यारहवां अध्याय । ४२६
ज्येष्ठता च निवर्त्तेत ज्येष्ठावाप्यं च यद्धनम् ।
ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥१८६॥
प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥१८७॥
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ १८८ ॥
एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ १८६ ॥
सपिण्ड उनके साथ बोल-चाल उठना-बैठना छोड़ दें । पिता
के धन में उसको भाग न दें और लौकिक व्यवहार भी न करें ।
पतित की ज्येष्ठता और उसके भाग का धन जाता रहता है ।
इसलिये वह भाग छोटों में जो गुणी हो उसको देना चाहिये ।
परन्तु वह प्रायश्चित्त करे तो सपिण्ड-बान्धव साथही पवित्र
जलाशय में स्नान करें और जल भरा घड़ा उस जलाशय में
डालें । ओर घर में आकर जाति के सब काम पूर्ववत् करे ।
पतित स्त्रियों के विषय में भी यही विधि करे । परन्तु उनको अन्न,
वस्त्र, जल देना चाहिए और घर के पास में रहें ॥ १८५-१८६ ॥
एनास्विभिरनिर्णिक्तैर्नार्थं किञ्चित् सहाचरेत् ।
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित् ॥१९०॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तूंश्च स्त्रीहन्तूंश्च न संवसेत् ॥ १६१ ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वात्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥१९२॥
४३० मनुस्मृति ।
प्रायश्चित्त न करनेवाले पातकियों के साथ दान आदि का
कोई सम्बन्ध न रक्खे । और प्रायश्चित्त करनेवालों की फिर
निन्दा भी न करे । बालहत्यावाले, कृतघ्न, शरणागत को मारने
वाले और स्त्रियों की हत्या करनेवाले, प्रायश्चित्त कर भी लें
तोभी उनका संसर्ग न करे । जिन द्विजों का शास्त्रोक्त समय में
यज्ञोपवीत न हुआ हो उनको तीन प्राजापत्य व्रत कराकर विधि-
पूर्वक यज्ञोपवीत करावे ॥ १६०-१६२ ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्था तु ये द्विजाः ।
ब्राह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १६३ ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १६४ ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ १६५ ॥
उपवासकृशं तं तु गोव्रजान्पुनरागतम् ।
प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १६६ ॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ १६७ ॥
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ १६८ ॥
शरणागतं परित्यज्य वेदं विप्लाव्या च द्विजः ।
संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १६६ ॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रवराहेश्च प्राणायामेन शुद्ध्यति ॥ २०० ॥