मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
और ये शिष्यपरम्पराबोधक श्लोक हैं—
१६ मनुस्मृति ।
उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंमितम् ॥
सर्ववेदान्तसारं च धर्मान् वेद निदर्शनान् ॥ ' इति ।
और ये शिष्यपरम्पराबोधक श्लोक हैं—
' नारायणं पद्मभुवं वशिष्ठं
शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं
गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्म-
पादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्त्तिककारमन्या-
नस्मद्गुरून् संततमानतोऽस्मि ॥ ' इति ।
और दादूपंथी विद्वच्छिरोमणि निश्चलदास ने अपने
विचारसागर के पांचवें तरंग में लिखा है—
' चारि यार मध्वादिक जे हैं
वेदविरुद्ध कहत सब ते हैं ।
यामें व्यासवचन सुनि लीजे
शंकर मतहि प्रमान करीजे ॥
कलिमें वेद अर्थ बहु करिहैं
श्रीशंकर शिव तब अवतरिहैं ।
जैन बुद्ध मत मूल उखारै
गंगा ते प्रभु मूर्ति निकारै ॥
जैसे भानु उदय उजियारो
दूरि करै जग में अंधियारो ।
सब वस्तुहिं ज्योंको त्यों भासै
संशौ और विपर्यय नासै ॥
भूमिका । १७
वेद अर्थ में त्यों अज्ञाना ।
नशिहै श्रीशंकर व्याख्याना ॥
करिहैं ते उपदेश यथारथ ।
नाशिहि संशय अरु अयथारथ ॥
और जु वेद अर्थ को करिहैं ।
ते सब वृथा परिश्रम धरिहैं ॥
यौं पुरान में व्यास कही है ।
शंकर मत में मान यही है ॥
मध्वादिक को मत न प्रमानी ।
यह हम ब्यासवचन तें जानी ॥
और प्रमान कहौं सो सुनिये ।
वालमीकि ऋषि मुख्य जु गिनिये॥
तिन मुनि कियो ग्रन्थ वाशिष्ठा ।
तामें मत अद्वैत स्पष्टा ॥
श्रीशंकर अद्वैतहि गान्यो ।
तिनको मत यह हेतु प्रमान्यो ॥
वाल्मीकि ऋषिवचन विरुद्धं ।
भेद वाद लखि सकल अशुद्धम् ॥ ’
इत्यादि ।
१ । आदिकवि-वाल्मीकि ऋषि ने उत्तर रामायण वासिष्ठ नाम ग्रन्थ
बनाया है, वहां अद्वैत मत में प्रधान जो दृष्टि सृष्टिवाद है उसको अनेक इतिहासों से
प्रतिपादन किया है, इसलिये वाल्मीकिवचन के अनुसार भी अद्वैतमत प्रमाण है और
वाल्मीकिवचनविरुद्ध भेदवाद अप्रमाण है ।
२ । और खण्डनखण्डखाद्य तथा भेदधिक्कार आदि ग्रन्थों में अनेक
युक्ति से भेदवाद का खण्डन है । किं बहुना, वेदान्तसार विष्णु शिव शक्ति आदि
किसी ब्रह्मविभूति के उपासक क्यों न हों उन सब को अद्वैतमत इष्ट है । अतएव
वैष्णवशिरोमणि तुलसीदास ने यह कहा है—
‘ यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुरा
यत्सत्त्वादमृषेव भाति सकलं रज्जौ यथाहेर्भ्रमः । ’
इत्यादि ।
१८ मनुस्मृति ।
परमार्थ-दशा में अद्वैत वाद ही मान्य है, जिसके विषय
में नानाविध श्रुति-स्मृति-पुराण वचन प्रमाण हैं जिनमें से
कुछ वाक्य लिखते हैं—
‘ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ’
इत्यादि-श्रुति ।
‘ अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ।
ब्रह्मभूतः स एवेह दक्षपक्ष उदाहृतः ॥’
‘ सर्वभूतान्तरस्थाय नित्यशुद्धचिदात्मने ।
प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः ॥ ’
इत्यादि-स्मृति ।
उक्त विषय का उल्लेख ब्राह्मपुराण में इस प्रकार
किया है—
‘ धर्माधर्मौ जन्ममृत्यू सुखदुःखेषु कल्पना ।
वर्णाश्रमास्तथा वासः स्वर्गे नरक एव च ॥
पुरुषस्य न सन्त्येते परमार्थस्य कुत्रचित् ।
दृश्यते च जगद्रूपमसत्यं सत्यवन्मृषा ॥
तोयवन्मृगतृष्णा तु यथा मरुमरीचिका ।
रौप्यवत्कीकसम्भूतं कीकसं शुक्तिरेव च ॥
सर्पवद्रज्जुखण्डश्च निशायां वेश्ममध्यगः ।
एक एवेन्दुद्वौ व्योम्नि तिमिराहतचक्षुषः ॥
आकाशस्य घनीभावो नीलत्वं स्निग्धता तथा ।
एकश्च सूर्यो बहुधा जलाधारेषु दृश्यते ॥
आभाति परमात्मापि सर्वोपाधिषु संस्थितः ।
द्वैतभ्रान्तिरविद्याख्या विकल्पो न च तत्तथा ॥
परत्र बन्धागारः स्यात्तेषामात्माभिमानिनाम् ।
भूमिका। १६
आत्मभावनया भ्रान्त्या देहं भावयतः सदा ॥
आद्यैरादिमध्यान्तैर्भ्रमभूतैस्त्रिभिः सदा ।
जाग्रत्स्वप्नसुषुप्तैस्तुच्छादितं विश्वतैजसम् ॥
स्वमायया स्वमात्मानं मोहयेद्द्वैतरूपया ।
गुहागतं स्वमात्मानं लभते च स्वयं हरिम् ॥
व्योम्नि वज्रानलज्वालाकलापो विविधाकृतिः ।
आभाति विष्णोः सृष्टिश्च स्वभावो द्वैतविस्तरः ॥
शान्ते मनसि शान्तश्च घोरे मूढे च तादृशः ।
ईश्वरो दृश्यते नित्यं सर्वत्र ननु तत्त्वतः ॥
लोहमृत्पिण्डहेम्नां च विकारो न च विद्यते ।
चराचराणां भूतानां द्वैतता न च सत्यतः ॥
सर्वगे तु निराधारे चैतन्यात्मनि संस्थिता ।
अविद्या द्विगुणां सृष्टिं करोत्यात्मावलम्बनात् ॥
सर्पस्य रज्जुता नास्ति नास्ति रज्जौ भुजङ्गता ।
उत्पत्तिनाशयोर्नास्ति कारणं जगतोऽपि च ॥
लोकानां व्यवहारार्थमविद्येयं विनिर्मिता ।
एषा विमोहिनीत्युक्ता द्वैताद्वैतस्वरूपिणी ॥
अद्वैतं भावयेद् ब्रह्म सकलं निष्कलं सदा ।
आत्मज्ञशोकसंतीर्णो न बिभेति कुतश्चन ॥
मृत्योः सकाशान्मरणादथवान्यकृताद्भयात् ।
न जायते न म्रियते न वध्यो न च घातकः ॥
न बद्धो बन्धकारी वा न मुक्तो न च मोक्षदः ।
पुरुषः परमात्मा तु यदतोऽन्यदसच्च तत् ॥ नहीं है
एवं बुद्ध्वा जगद्रूपं विष्णोर्मायां ... वचनानुसार
भोगात्सङ्गाद्भवेन्मुक्तस्त्यक्त्वा ... १ क्षादयस्तनु, २ अङ्गिरा,
२० मनुस्मृति ।
त्यक्तसर्वविकल्पश्च स्वात्मसंस्थं निश्चलं मनः ।
कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवानलः ॥
एषा चतुर्विंशतिभेदभिन्ना
मायापरा प्रकृतिस्तत्समुत्थौ ।
कामक्रोधौ लोभमोहौ भयं च
विषादशोकौ च विकल्पजालम् ॥
धर्माधर्मौ सुखदुःखे च सृष्टि-
विनाशपाकौ नरके गतिश्च ।
वासः स्वर्गे जातयश्चाश्रमाश्च
रागद्वेषौ विविधा व्याधयश्च ॥
कौमारतारुण्यजरावियोग-
संयोगभोगानशनव्रतानि ।
इतीदमीहग्हृदयं निधाय
तूष्णीमासीनः सुमतिं विविद्धि ॥'
और इसी प्रकार श्रीविष्णुधर्म में कहा है—
'अनादिसंबन्धवत्या क्षेत्रज्ञोऽयमविद्यया ।
युक्तः पश्यति भेदेन ब्रह्मतत्त्वात्मनि स्थितम् ॥
पश्यत्यात्मानमन्यच्च यावद्वै परमात्मनः ।
तावत्संभ्राम्यते जन्तुर्मोहितो निजकर्मणा ॥
संक्षीणाशेषकर्मा तु परंब्रह्म प्रपश्यति ।
अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयो भवेत् ॥
अविद्या च क्रियाः सर्वा विद्या ज्ञानं प्रचक्षते ।
... जायते जन्तुर्विद्यया च विमुच्यते ॥
द्वैतभ्रान्ति... स्तौ तद्भिन्न उच्यते ।
परत्र बन्धागारः स्याद्यैव नृप नारकम् ॥
भूमिका । २१
चतुर्विधोऽपि भेदोयं मिथ्याज्ञाननिबन्धनः ।
अहमन्योऽपरश्चायममी चात्र तथापरे ॥
अज्ञानमेतद् द्वैताख्यमद्वैतं श्रूयतां परम् ।
मम त्वहमिति प्रज्ञाविमुक्तमविकल्पवत् ॥
अविकार्यमनाख्येयमद्वैतमनुभूयते ।
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥
मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः ।
निरोद्धव्यास्तन्निरोधे द्वैतं नैवोपपद्यते ॥
मनोदृष्टमिदं सर्वं यत्किंचित्सचराचरम् ।
मनसो शमनीभावेऽद्वैतभावं तदामुयात् ॥
कर्मणां भावना येयं सा ब्रह्मपरिपन्थिनी ।
कर्मभावनया तुल्यं विज्ञानमुपजायते ॥
तद्वा भवति विज्ञप्तिर्यादृशी खलु भावना ।
क्षये तस्याः परब्रह्म स्वयमेव प्रकाशते ॥
परात्मनो मनुष्येन्द्र विभागो ज्ञानकल्पितः ।
क्षये तस्यात्मपरयोरविभागोऽत एव हि ॥
आत्मा क्षेत्रज्ञसंज्ञो हि संयुक्तः प्राकृतैर्गुणैः ।
तैरेव विगतः शुद्धः परमात्मा निगद्यते ॥
इत्यादि अन्यान्य पुराण वचन हैं ।
पुराण । भगवान् वेदव्यास के निर्मित अठारह पुराण
हैं उनके नाम—१ ब्राह्म, २ पाद्म, ३ वैष्णव, ४ शैव
५ भागवत, ६ भविष्य, ७ नारदीय, ८ मार्कण्डेय- । तहाँ है
१० ब्रह्मवैवर्त, ११ लैङ्ग, १२ वाराह नराक्यः। वचनानुसार
१५ कौर्म, १६ मात्स्य, १७ गारु- क्षादयस्ततः मनु, २ अङ्गिरा,